[स] ततः संशप्तका राजन समे देशे वयवस्थिताः वयूह्यानीकं रथैर एव चन्द्रार्धाख्यं मुदान्विताः ॥ 1 ॥
ते किरीटिनम आयान्तं दृष्ट्वा हर्षेण मारिष उदक्रॊशन नरव्याघ्राः शब्देन महता तदा ॥ 2 ॥
स शब्दः परदिशः सर्वा दिशः खंच समावृणॊत आवृतत्वाच च लॊकस्य नासीत तत्र परतिस्वनः ॥ 3 ॥
अतीव संप्रहृष्टांस तान उपलभ्य धनंजयः किं चिद अभ्युत्स्मयन कृष्णम इदं वचनम अब्रवीत ॥ 4 ॥
पश्यैतान देवकी मातुर मुमूर्षून अद्य संयुगे भरातॄंस तरैगर्तकान एवं रॊदितव्ये परहर्षितान ॥ 5 ॥
अथ वा हर्षकालॊ ऽयं तरैगर्तानाम असंशयम कुनरैर दुरवापान हि लॊकान पराप्स्यन्त्य अनुत्तमान ॥ 6 ॥
एवम उक्त्वा महाबाहुर हृषीकेशं ततॊ ऽरजुनः आससाद रणे वयूढां तरैगर्तानाम अनीकिनीम ॥ 7 ॥
स देवदत्तम आदाय शङ्खं हेमपरिष्कृतम दध्मौ वेगेन महता फल्गुनः पूरयन दिशः ॥ 8 ॥
तेन शब्देन वित्रस्ता संशप्तकवरूथिनी निश्चेष्टावस्थिता संक्ये अश्मसारमयी यथा ॥ 9 ॥
वाहास तेषां विवृत्ताक्षाः सतब्धकर्ण शिरॊधराः विष्टब्ध चरणा मूत्रं रुधिरं च परसुस्रुवुः ॥ 10 ॥
उपलभ्य च ते संज्ञाम अवस्थाप्य च वाहिनीम युगपत पाण्डुपुत्राय चिक्षिपुः कङ्कपत्रिणः ॥ 11 ॥
तान्य अर्जुनः सहस्राणि दश पञ्चैव चाशुगैः अनागतान्य एव शरैश चिच्छेदाशु पराक्रमः ॥ 12 ॥
ततॊ ऽरजुनं शितैर बाणैर दशभिर दशभिः पुनः परत्यविध्यंस ततः पार्थस तान अविध्यत तरिभिस तरिभिः ॥ 13 ॥
एकैकस तु ततः पार्थं राजन विव्याध पञ्चभिः स च तान परतिविव्याध दवाभ्यां दवाभ्यां पराक्रमी ॥ 14 ॥
भूय एव तु संरब्धास ते ऽरजुनं सह केशवम आपूरयञ शरैस तीक्ष्णैस तटाकम इव वृष्टिभिः ॥ 15 ॥
ततः शरसहस्राणि परापतन्न अर्जुनं परति भरमराणाम इव वराताः फुल्लद्रुमगणे वने ॥ 16 ॥
ततः सुबाहुस तरिंशद्भिर अद्रिसारमयैर दृढैः अविध्यद इषुभिर गाढं किरीटे सव्यसाचिनम ॥ 17 ॥
तैः किरीटी किरीटस्थैर हेमपुङ्खैर अजिह्मगैः शातकुम्भमयापीडॊ बभौ यूप इवॊच्छ्रितः ॥ 18 ॥
हस्तावापं सुबाहॊस तु भल्लेन युधि पाण्डवः चिच्छेद तं चैव पुनः शरवर्षैर अवाकिरत ॥ 19 ॥
ततः सुशर्मा दशभिः सुरथश च किरीटिनम सुधर्मा सुधनुश चैव सुबाहुश च समर्पयन ॥ 20 ॥
तांस तु सर्वान पृथग बाणैर वानरप्रवर धवजः परत्यविध्यद धवजांश चैषां भल्लैश चिच्छेद काञ्चनान ॥ 21 ॥
सुधन्वनॊ धनुश छित्त्वा हयान वै नयवधीच छरैः अत्रास्य सशिरस्त्राणं शिरः कायाद अपाहरत ॥ 22 ॥
तस्मिंस तु पतिते वीरे तरस्तास तस्य पदानुगाः वयद्रवन्त भयाद भीता येन दौर्यॊधनं बलम ॥ 23 ॥
ततॊ जघान संक्रुद्धॊ वासविस तां महाचमूम शरजालैर अविच्छिन्नैस तमः सूर्य इवांशुभिः ॥ 24 ॥
ततॊ भग्ने बले तस्मिन विप्रयाते समन्ततः सव्यसाचिनि संक्रुद्धे तरैगर्तान भयम आविशत ॥ 25 ॥
ते वध्यमानाः पार्थेन शरैः संनतपर्वभिः अमुह्यंस तत्र तत्रैव तरस्ता मृगगणा इव ॥ 26 ॥
ततस तरिगर्तराट करुद्धस तान उवाच महारथान अलं दरुतेन वः शूरा न भयंकर्तुम अर्हथ ॥ 27 ॥
शप्त्वा तु शपथान घॊरान सर्वसैन्यस्य पश्यतः गत्वा दौर्यॊघनं सैन्यं किं वा वक्ष्यथ मुख्यगाः ॥ 28 ॥
नावहास्याः कथं लॊके कर्मणानेन संयुगे भवेम सहिताः सर्वे निवर्तध्वं यथाबलम ॥ 29 ॥
एवम उक्तास तु ते राजन्न उदक्रॊशन मुहुर मुहुः शङ्खांश च दध्मिरे वीरा हर्षयन्तः परस्परम ॥ 30 ॥
ततस ते संन्यवर्तन्त संशप्तकगणाः पुनः नारायणाश च गॊपालाः कृत्वा मृत्युं निवर्तनम ॥ 31 ॥
द्रोणपर्व · Drona Parva
अध्याय 17
Reach this point to mark the section finished.
Continue to अध्याय 18