[स] तत परभग्नं बलं दृष्ट्वा कुन्तीपुत्रॊ धनंजयः नयवारयद अमेयात्मा दरॊणपुत्र वधेप्सया ॥ 1 ॥
ततस ते सैनिका राजन नैव तत्रावतस्थिरे संस्थाप्यमाना यत्नेन गॊविन्देनार्जुनेन च ॥ 2 ॥
एक एव तु बीभत्सुः सॊमकावयवैः सह मत्स्यैर अन्यैश च संधाय कौरवैः संन्यवर्तत ॥ 3 ॥
ततॊ दरुतम अतिक्रम्य सिंहलाङ्गूल केतनम सव्यसाची महेष्वासम अश्वत्थामानम अब्रवीत ॥ 4 ॥
या शक्तिर यच च ते वीर्यं यज जञानं यच च पौरुषम धार्तराष्ट्रेषु या परीतिः परद्वेषॊ ऽसमासु यश च ते यच च भूयॊ ऽसति तेजस तत्परमं मम दर्शय ॥ 5 ॥
स एव दरॊण हन्ता ते दर्पं भेत्स्यति पार्षतः कालानलसमप्रख्यॊ दविषताम अन्तकॊ युधि समासादय पाञ्चाल्यं मां चापि सह केशवम ॥ 6 ॥
[धृ] आचार्य पुत्रॊ मानार्हॊ बलवांश चापि संजय परीतिर धनंजये चास्य परियश चापि स वासवेः ॥ 7 ॥
न भूतपूर्वं बीभत्सॊर वाक्यं परुषम ईदृशम अथ कस्मात स कौन्तेयः सखायं रूक्षम अब्रवीत ॥ 8 ॥
[स] युवराजे हते चैव वृद्धक्षत्रे च पौरवे इष्वस्त्रविधिसंपन्ने मालवे च सुदर्शने ॥ 9 ॥
धृष्टद्युम्ने सात्यकौ च भीमे चापि पराजिते युधिष्ठिरस्य तैर वाक्यैर मर्मण्य अपि च घट्टिते ॥ 10 ॥
अन्तर भेदे च संजाते दुःखं संस्मृत्य च परभॊ अभूतपूर्वॊ बीभत्सॊर दुःखान मन्युर अजायत ॥ 11 ॥
तस्माद अनर्हम अश्लीलम अप्रियं दरौणिम उक्तवान मान्यम आचार्य तनयं रूक्षं कापुरुषॊ यथा ॥ 12 ॥
एवम उक्तः शवसन करॊधान महेष्वासतमॊ नृप पार्थेन परुषं वाक्यं सर्वमर्म घनया गिरा दरौणिश चुकॊप पार्थाय कृष्णाय च विशेषतः ॥ 13 ॥
स तु यत्तॊ रथे सथित्वा वार्य उपस्पृश्य वीर्यवान देवैर अपि सुदुर्धर्षम अस्त्रम आग्नेयम आददे ॥ 14 ॥
दृश्याद दृश्यान अरिगणान उद्दिश्याचार्यनन्दनः सॊ ऽभिमन्त्र्य शरं दीप्तं विधूमम इव पावकम सर्वतः करॊधम आविश्य चिक्षेप परवीरहा ॥ 15 ॥
ततस तुमुलम आकाशे शरवर्णम अजायत ववुश च शिशिरा वाताः सूर्यॊ नैव तताप च ॥ 16 ॥
चुक्रुशुर दानवाश चापि दिक्षु सर्वासु भैरवम रुधिरं चापि वर्षन्तॊ विनेदुस तॊयदाम्बरे ॥ 17 ॥
पक्षिणः पशवॊ गावॊ मुनयश चापि सुव्रताः परमं परयतात्मानॊ न शान्तिम उपलेभिरे ॥ 18 ॥
भरान्तसर्वमहाभूतम आवर्जितदिवाकरम तरैलॊक्यम अभिसंतप्तं जवराविष्टम इवातुरम ॥ 19 ॥
शरतेजॊ ऽभिसंतप्ता नागा भूमिशयास तथा निःश्वसन्तः समुत्पेतुस तेजॊ घॊरं मुमुक्षवः ॥ 20 ॥
जलजानि च सत्त्वानि दह्यमानानि भारत न शान्तिम उपजग्मुर हि तप्यमानैर जलाशयैः ॥ 21 ॥
दिशः खं परदिशश चैव भुवं च शरवृष्टयः उच्चावचा निपेतुर वै गरुडानिलरंहसः ॥ 22 ॥
तैः शरैर दरॊणपुत्रस्य वज्रवेगसमाहितैः परदग्धाः शत्रवः पेतुर अग्निदग्धा इव दरुमाः ॥ 23 ॥
दह्यमाना महानागाः पेतुर उर्व्यां समन्ततः नदन्तॊ भैरवान नादाञ जलदॊपम निस्वना ॥ 24 ॥
अपरे परद्रुतास तत्र दह्यमाना महागजाः तरेसुस तथापरे घॊरे वने दावाग्निसंवृताः ॥ 25 ॥
दरुमाणां शिखराणीव दावदग्धानि मारिष अश्ववृन्दान्य अदृश्यन्त रथवृन्दानि चाभिभॊ अपतन्त रथौघाश च तत्र तत्र सहस्रशः ॥ 26 ॥
तत सैन्यं भगवान अग्निर ददाह युधि भारत युगान्ते सर्वभूतानि संवर्तक इवानकः ॥ 27 ॥
दृष्ट्वा तु पाण्डवीं सेनां दह्यमानां महाहवे परहृष्टास तावका राजन सिंहनादान विनेदिरे ॥ 28 ॥
ततस तूर्यसहस्राणि नाना लिङ्गानि भारत तूर्णम आजघ्निरे हृष्टास तावका जितकाशिनः ॥ 29 ॥
कृत्स्ना हय अक्षौहिणी राजन सव्यसाची च पाण्डवः तमसा संवृते लॊके नादृश्यत महाहवे ॥ 30 ॥
नैव नस तादृशं राजन दृष्टपूर्वं न च शरुतम यादृशं दरॊणपुत्रेण सृष्टम अस्त्रम अमर्षिणा ॥ 31 ॥
अर्जुनस तु महाराज बराह्मम अस्त्रम उदैरयत सर्वास्त्रप्रतिघाताय विहितं पद्मयॊनिना ॥ 32 ॥
ततॊ मुहूर्ताद इव तत तमॊ वयुपशशाम ह परववौ चानिलः शीतॊ दिशश च विमलाभवन ॥ 33 ॥
तत्राद्भुतम अपश्याम कृत्स्नाम अक्षौहिणीं हताम अनभिज्ञेय रूपां च परदग्धाम अस्त्रमायया ॥ 34 ॥
ततॊ वीरौ महेष्वासौ विमुक्तौ केशवार्जुनौ सहितौ संप्रदृश्येतां नभसीव तमॊनुदौ ॥ 35 ॥
स पताक धवजहयः सानुकर्ष वरायुधः परबभौ स रथॊ मुक्तस तावकानां भयंकरः ॥ 36 ॥
ततः किलकिला शब्दः शङ्खभेरी रवैः सह पाण्डवानां परहृष्टानां कषणेन समजायत ॥ 37 ॥
हताव इति तयॊर आसीद एनयॊर उभयॊर मतिः तरसाभ्यागतौ दृष्ट्वा विमुक्तौ केशवार्जुनौ ॥ 38 ॥
ताव अक्षतौ परमुदितौ दध्मतुर वारिजॊत्तमौ दृष्ट्वा परमुदितान पार्थांस तवदीया वयथिताभवन ॥ 39 ॥
विमुक्तौ च महात्मानौ दृष्ट्वा दरौणिः सुदुःखितः मुहूर्तं चिन्तयाम आस किं तव एतद इति मारिष ॥ 40 ॥
चिन्तयित्वा तु राजेन्द्र धयानशॊकपरायणः निःश्वसन दीर्घम उष्णं च विमनाश चाभवत तदा ॥ 41 ॥
ततॊ दरौणिर धनुर नयस्य रथात परस्कन्द्य वेगितः धिग धिक सर्वम इदं मिथ्येत्य उक्त्वा संप्राद्रवद रणात ॥ 42 ॥
ततः सनिग्धाम्बुदाभासं वेद वयासम अकल्मषम आवासं च सरस्वत्याः स वै वयासं ददर्श ह ॥ 43 ॥
तं दरौणिर अग्रतॊ दृष्ट्वा सथितं कुरुकुलॊद्वह सन्नकण्ठॊ ऽबरवीद वाक्यम अभिवाद्य सुदीनवत ॥ 44 ॥
भॊ भॊ माया यदृच्छा वा न विद्मः किम इदं भवेत अस्त्रं तव इदं कथं मिथ्या मम कश च वयतिक्रमः ॥ 45 ॥
अधरॊत्तरम एतद वा लॊकानां वा पराभवः यद इमौ जीवतः कृष्णौ कालॊ हि दुरतिक्रमः ॥ 46 ॥
नासुरामर गन्धर्वा न पिशाचा न राक्षसाः न सर्पयक्षपतगा न मनुष्याः कथं चन ॥ 47 ॥
उत्सहन्ते ऽनयथा कर्तुम एतद अस्त्रं मयेरितम तद इदं केवलं हत्वा युक्ताम अक्षौहिणीं जवलत ॥ 48 ॥
केनेमौ मर्त्यधर्माणौ नावधीत केशवार्जुनौ एतत परब्रूहि भगवन मया पृष्टॊ यथातथम ॥ 49 ॥
[व] महान्तम एतदर्थं मां यं तवं पृच्छसि विस्मयात तत परवक्ष्यामि ते सर्वं समाधाय मनः शृणु ॥ 50 ॥
यॊ ऽसौ नारायणॊ नाम पूर्वेषाम अपि पूर्वजः अजायत च कार्यार्थं पुत्रॊ धर्मस्य विश्वकृत ॥ 51 ॥
स तपस तीव्रम आतस्थे मैनाकं गिरिम आस्थितः ऊर्ध्वबाहुर महातेजा जवलनादित्य संनिभः ॥ 52 ॥
षष्टिं वर्षसहस्राणि तावन्त्य एव शतानि च अशॊषयत तदात्मानं वायुभक्षॊ ऽमबुजेक्षणः ॥ 53 ॥
अथापरं तपस तप्त्वा दविस ततॊ ऽनयत पुनर महत दयावापृथिव्यॊर विवरं तेजसा समपूरयत ॥ 54 ॥
स तेन तपसा तात बरह्मभूतॊ यदाभवत ततॊ विश्वेश्वरं यॊनिं विश्वस्य जगतः पतिम ॥ 55 ॥
ददर्श भृशदुर्दर्शं सर्वा देवैर अपीश्वरम अणीयसाम अणीयांसं बृहद्भ्यश च बृहत्तरम ॥ 56 ॥
रुद्रम ईशानम ऋषभं चेकितानम अजं परम गच्छतस तिष्ठतॊ वापि सर्वभूतहृदि सथितम ॥ 57 ॥
दुर्वारणं दुर्दृशं तिग्ममन्युं; महात्मानं सर्वहरं परचेतसम दिव्यं चापम इषुधी चाददानं; हिरण्यवर्माणम अनन्तवीर्यम ॥ 58 ॥
पिनाकिनं वज्रिणं दीप्तशूलं; परश्वधिं गदिनं सवायतासिम सुभ्रुं जटामण्डलचन्द्र मौलिं; वयाघ्राजिनम परिघं दण्डपाणिम ॥ 59 ॥
शुभाङ्गदं नागयज्ञॊपवीतिं; विश्वैर गणैः शॊभितं भूतसंघैः एकीभूतं तपसां संनिधानं; वयॊ ऽतिगैः सुष्ठुतम इष्टवाग्भिः ॥ 60 ॥
जलं दिवं खं कषितिं चन्द्रसूर्यौ; तथा वाय्वग्नी परतिमानं जगच च नालं दरष्टुं यमजं भिन्नवृत्ता; बरह्म दविषघ्नम अमृतस्य यॊनिम ॥ 61 ॥
यं पश्यन्ति बराह्मणाः साधुवृत्ताः; कषीणे पापे मनसा ये विशॊकाः स तन्निष्ठस तपसा धर्मम ईड्यं; तद भक्त्या वै विश्वरूपं ददर्श दृष्ट्वा चैनं वान मनॊ बुद्धिदेहैः; संहृष्टात्मा मुमुदे देवदेवम ॥ 62 ॥
अक्षमाला परिक्षिप्तं जयॊतिषां परमं निधिम ततॊ नारायणॊ दृष्ट्वा ववन्दे विश्वसंभवम ॥ 63 ॥
वरदं पृथुचार्व अङ्ग्या पार्वत्या सहितं परभुम अजम ईशानम अव्यग्रं कारणात्मानम अच्युतम ॥ 64 ॥
अभिवाद्याथ रुद्राय सद्यॊ ऽनधकनिपातिने पद्माक्षस तं विरूपाक्षम अभितुष्टाव भक्तिमान ॥ 65 ॥
तवत संभूता भूतकृतॊ वरेण्य; गॊप्तारॊ ऽदय भुवनं पूर्वदेवाः आविश्येमां धरणीं ये ऽभयरक्षन; पुरा पुराणां तव देव सृष्टिम ॥ 66 ॥
सुरासुरान नागरक्षःपिशाचान; नरान सुपर्णान अथ गन्धर्वयक्षान पृथग्विधान भूतसंघांश च विश्वांस; तवत संभूतान विद्म सर्वांस तथैव ऐन्द्रं याम्यं वारुणं वैत्तपाल्यं; मैत्रं तवाष्ट्रं कर्म सौम्यं च तुभ्यम ॥ 67 ॥
रूपं जयॊतिः शब्द आकाशवायुः; सपर्शः सवाद्यं सलिलं गन्ध उर्वी कामॊ बरह्मा बरह्म च बराह्मणाश च; तवत संभूतं सथास्नु चरिष्णु चेदम ॥ 68 ॥
अद्भ्यः सतॊका यान्ति यथा पृथक्त्वं; ताभिश चैक्यं संक्षये यान्ति भूयः एवं विद्वान परभवं चाप्य अयं च; हित्वा भूतानां तत्र सायुज्यम एति ॥ 69 ॥
दिव्याव ऋतौ मानसौ दवौ सुपर्णाव; अवाक्शाखः पिप्पलः सप्त गॊपाः दशाप्य अन्ये ये पुरं धारयन्ति; तवया सृष्टास ते हि तेभ्यः परस तवम भूतं भव्यं भविता चाप्य अधृष्यं; तवत संभूता भुवनानीह विश्वा ॥ 70 ॥
भक्तं च मां भजमानं भजस्व; मा रीरिषॊ माम अहिताहितेन आत्मानं तवाम आत्मनॊ ऽनन्यभावॊ; विद्वान एवं गच्छति बरह्म शुक्रम ॥ 71 ॥
अस्तौषं तवां तव संमानम इच्छन; विचिन्वन वै सवृषं देववर्य सुदुर्लभान देहि वरान ममेष्टान; अभिष्टुतः परतिकार्षीश च मा माम ॥ 72 ॥
तस्मै वरान अचिन्त्यात्मा नीलकण्ठः पिनाक धृक अर्हते देव मुख्याय परायच्छद ऋषिसंस्तुतः ॥ 73 ॥
[नीलकण्ठ] मत्प्रसादान मनुष्येषु देवगन्धर्वयॊनिषु अप्रमेयबलात्मा तवं नारायण भविष्यसि ॥ 74 ॥
न च तवा परसहिष्यन्ति देवासुरमहॊरगाः न पिशाचा न गन्धर्वा न च विश्वे वियॊनिजाः ॥ 75 ॥
न सुपर्णास तथा नागा न च विश्वे वियॊनिजाः न कश चित तवां च देवॊ ऽपि समरेषु विजेष्यति ॥ 76 ॥
न शस्त्रेण न वज्रेण नाग्निना न च वायुना नार्द्रेण न च शुष्केण तरसेन सथावरेण वा ॥ 77 ॥
कश चित तव रुजं कर्ता मत्प्रसादात कथं चन अपि चेत समरं गत्वा भविष्यसि ममाधिकः ॥ 78 ॥
[व] एवम एते वरा लब्धाः पुरस्ताद विद्धि शौरिणा स एष देवश चरति मायया मॊहयञ जगत ॥ 79 ॥
तस्यैव तपसा जातं नरं नाम महामुनिम तुल्यम एतेन देवेन तं जानीह्य अर्जुनं सदा ॥ 80 ॥
ताव एतौ पूर्वदेवानां परमॊपचिताव ऋषी लॊकयात्रा विधानार्थं संजायेते युगे युगे ॥ 81 ॥
तथैव कर्मणः कृत्स्नं महतस तपसॊ ऽपि च तेजॊ मन्युश च विद्वंस तवं जातॊ रौद्रॊ महामते ॥ 82 ॥
स भवान देववत पराज्ञॊ जञात्वा भव मयं जगत अवाकर्षस तवम आत्मानं नियमैस तत्प्रियेप्सया ॥ 83 ॥
शुभम और्वं नवं कृत्वा महापुरुषविग्रहम ईजिवांस तवं जपैर हॊमैर उपहारैश च मानद ॥ 84 ॥
स तथा पूज्यमानस ते पूर्वदेवॊ ऽपय अतूतुषत पुष्कलांश च वरान परादात तव विद्वन हृदि सथितान ॥ 85 ॥
जन्म कर्म तपॊयॊगास तयॊस तव च पुष्कलाः ताभ्यां लिङ्गे ऽरचितॊ देवस तवयार्चायां युगे युगे ॥ 86 ॥
सर्वरूपं भवं जञात्वा लिङ्गे यॊ ऽरचयति परभुम आत्मयॊगाश च तस्मिन वै शास्त्रयॊगाश च शाश्वताः ॥ 87 ॥
एवं देवा यजन्तॊ हि सिद्धाश च परमर्षयः परार्थयन्ति परं लॊके सथानम एव च शाश्वतम ॥ 88 ॥
स एष रुद्र भक्तश च केशवॊ रुद्र संभवः कृष्ण एव हि यष्टव्यॊ यज्ञैश चैष सनातनः ॥ 89 ॥
सर्वभूतभवं जञात्वा लिङ्गे ऽरचयति यः परभुम तस्मिन्न अभ्यधिकां परीतिं करॊति वृषभध्वजः ॥ 90 ॥
[स] तस्य तद वचनं शरुत्वा दरॊणपुत्रॊ महारथः नमश चकार रुद्राय बहु मेने च केशवम ॥ 91 ॥
हृष्टलॊमा च वश्यात्मा नमस्कृत्य महर्षये वरूथिनीम अभिप्रेत्य अवहारम अकारयत ॥ 92 ॥
ततः परत्यवहारॊ ऽभूत पाण्डवानां विशां पते कौरवाणां च दीनानां दरॊणे युधि निपातिते ॥ 93 ॥
युद्धं कृत्वा दिनान पञ्च दरॊणॊ हत्वा वरूथिनीम बरह्मलॊकं गतॊ राजन बराह्मणॊ वेदपारगः ॥ 94 ॥
द्रोणपर्व · Drona Parva
अध्याय 172
Reach this point to mark the section finished.
Continue to अध्याय 173