धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 171

  1. [स] भीमसेनं समाकीर्णं दृष्ट्वास्त्रेण धनंजयः तेजसः परतिघातार्थं वारुणेन समावृणॊत ॥ 1 ॥

  2. नालक्षयत तं कश चिद वारुणास्त्त्रेण संवृतम अर्जुनस्य लघुत्वाच च संवृतत्वाच च तेजसः ॥ 2 ॥

  3. साश्वसूत रथॊ भीमॊ दरॊणपुत्रास्त्र संवृतः अग्नाव अग्निर इव नयस्तॊ जवालामाली सुदुर्दृशः ॥ 3 ॥

  4. यथा रात्रिक्षये राजञ जयॊतींष्य अस्तगिरिं परति समापेतुस तथा बाणा भीमसेनरथं परति ॥ 4 ॥

  5. स हि भीमॊ रथश चास्य हयाः सूतश च मारिष संवृता दरॊणपुत्रेण पावकान्तर गताभवन ॥ 5 ॥

  6. यथा दग्ध्वा जगत कृत्स्नं समये स चराचरम गच्छेद अग्निर विभॊर आस्यं तथास्त्रं भीमम आवृणॊत ॥ 6 ॥

  7. सूर्यम अग्निः परविष्टः सयाद यथा चाग्निं दिवाकरः तथा परविष्टं तत तेजॊ न पराज्ञायत किं चन ॥ 7 ॥

  8. विकीर्णम अस्त्रं तद दृष्ट्वा तथा भीम रथं परति सर्वसैन्यानि पाण्डूनां नयस्तशस्त्राण्य अचेतसः ॥ 8 ॥

  9. उदीर्यमाणं दरौणिं च निष्प्रति दवंद्वम आहवे युधिष्ठिरपुरॊगांश च विमुखांस तान महारथान ॥ 9 ॥

  10. अर्जुनॊ वासुदेवश च तवरमाणौ महाद्युती अवप्लुत्य रथाद वीरौ भीमम आद्रवतां ततः ॥ 10 ॥

  11. ततस तद दरॊणपुत्रस्य तेजॊ ऽसत्रबलसंभवम विगाह्य तौ सुबलिनौ माययाविशतां तदा ॥ 11 ॥

  12. नयस्तशस्त्रौ ततस तौ तु नादहद अस्त्रजॊ ऽनलः वारुणास्त्र परयॊगाच च वीर्यवत्त्वाच च कृष्णयॊः ॥ 12 ॥

  13. ततश चकृषतुर भीमं तस्य सर्वायुधानि च नारायणास्त्र शान्त्य अर्थं नरनारायणौ बलात ॥ 13 ॥

  14. अपकृष्यमाणः कौन्तेयॊ नदत्य एव महारथः वर्धते चैव तद घॊरं दरौणेर अस्त्रं सुदुर्जयम ॥ 14 ॥

  15. तम अब्रवीद वासुदेवः किम इदं पाण्डुनन्दन वार्यमाणॊ ऽपि कौन्तेय यद युद्धान न निवर्तसे ॥ 15 ॥

  16. यदि युद्धेन जेयाः सयुर इमे कौरवनन्दनाः वयम अप्य अत्र युध्येम तथा चेमे नरर्षभाः ॥ 16 ॥

  17. रथेभ्यस तव अवतीर्णास तु सर्व एव सम तावकाः तस्मात तवम अपि कौन्तेय रथात तूर्णम अपाक्रम ॥ 17 ॥

  18. एवम उक्त्वा ततः कृष्णॊ रथाद भूमिम अपातयत निःश्वसन्तं यथा नागं करॊधसंरक्तलॊचनम ॥ 18 ॥

  19. यदापकृष्टः स रथान नयासितश चायुधं भुवि ततॊ नारायणास्त्रं तत परशान्तं शत्रुतापनम ॥ 19 ॥

  20. तस्मिन परशान्ते विधिना तदा तेजसि दुःसहे बभूवुर विमलाः सर्वा दिशः परदिश एव च ॥ 20 ॥

  21. परववुश च शिवा वाताः परशान्ता मृगपक्षिणः वाहनानि च हृष्टानि यॊधाश च मनुजेश्वर ॥ 21 ॥

  22. वयपॊढे च ततॊ घॊरे तस्मिंस तेजसि भारत बभौ भीमॊ निशापाये धीमान सूर्य इवॊदितः ॥ 22 ॥

  23. हतशेषं बलं तत्र पाण्डवानाम अतिष्ठत अस्त्रव्युपरमाद धृष्टं तव पुत्र जिघांसया ॥ 23 ॥

  24. वयवस्थिते बले तस्मिन अस्त्रे परतिहते तथा दुर्यॊधनॊ महाराज दरॊणपुत्रम अथाब्रवीत ॥ 24 ॥

  25. अश्वत्थामन पुनः शीघ्रम अस्त्रम एतत परयॊजय वयवस्थिता हि पाञ्चालाः पुनर एव जयैषिणः ॥ 25 ॥

  26. अश्वत्थामा तथॊक्तस तु तव पुत्रेण मारिष सुदीनम अभिनिःश्वस्य राजानम इदम अब्रवीत ॥ 26 ॥

  27. नैतद आवर्तते राजन्न अस्त्रं दविर नॊपपद्यते आवर्तयन निहन्त्य एतत परयॊक्तारं न संशयः ॥ 27 ॥

  28. एष चास्त्रप्रतीघातं वासुदेवः परयुक्तवान अन्यथा विहितः संख्ये वधः शत्रॊर जनाधिप ॥ 28 ॥

  29. पराजयॊ वा मृत्युर वा शरेयॊ मृत्युर न निर्जयः निर्जिताश चारयॊ हय एते शस्त्रॊत्सर्गान मृतॊपमाः ॥ 29 ॥

  30. [दुर] आचार्य पुत्र यद्य एतद दविर अस्त्रं न परयुज्यते अन्यैर गुरुघ्ना वध्यन्ताम अस्त्रैर अस्त्राविदां वर ॥ 30 ॥

  31. तवयि हय अस्त्राणि दिव्यानि यथा सयुस तर्यम्बके तथा इच्छतॊ न हि ते मुच्येत करुद्धस्यापि पुरंदरः ॥ 31 ॥

  32. [धृ] तस्मिन्न अस्त्रे परतिहते दरॊणे चॊपधिना हते तथा दुर्यॊधनेनॊक्तॊ दरौणिः किम अकरॊत पुनः ॥ 32 ॥

  33. दृष्ट्वा पार्थांश च संग्रामे युद्धाय समवस्थितान नारायणास्त्र निर्मुक्तांश चरतः पृतना मुखे ॥ 33 ॥

  34. [स] जानन पितुः स निधनं सिंहलाङ्गूल केतनः सक्रॊधॊ भयम उत्सृज्य अभिदुद्राव पार्षतम ॥ 34 ॥

  35. अभिद्रुत्य च विंशत्या कषुद्रकाणां नरर्षभः पञ्चभिश चातिवेगेन विव्याध पुरुषर्षभम ॥ 35 ॥

  36. धृष्टद्युम्नस ततॊ राजञ जवलन्तम इव पावकम दरॊणपुत्रं तरिषष्ट्या तु राजन विव्याध पत्रिणाम ॥ 36 ॥

  37. सारथिं चास्य विंशत्या सवर्णपुङ्खैः शिलाशितैः हयांश च चतुरॊ ऽविध्यच चतुर्भिर निशितैः शरैः ॥ 37 ॥

  38. विद्ध्वा विद्ध्वानदद दरौणिः कम्पयन्न इव मेदिनीम आददत सर्वलॊकस्य पराणान इव महारणे ॥ 38 ॥

  39. पार्षतस तु बली राजन कृतास्त्रः कृतनिश्रमः दरौणिम एवाभिदुद्राव कृत्वा मृत्युं निवर्तनम ॥ 39 ॥

  40. ततॊ बाणमयं वर्षं दरॊणपुत्रस्य मूर्धनि अवासृजद अमेयात्मा पाञ्चाल्यॊ रथिनां वरः ॥ 40 ॥

  41. तं दरौणिः समरे करुद्धश छादयाम आस पत्रिभिः विव्याध चैनं दशभिः पितुर वधम अनुस्मरन ॥ 41 ॥

  42. दवाभ्यां च सुविकृष्टाभ्यां कषुराभ्यां धवजकार्मुके छित्त्वा पाञ्चालराजस्य दरौणिर अन्यैः समार्दयत ॥ 42 ॥

  43. वयश्व सूत रथं चैनं दरौणिश चक्रे महाहवे तस्य चानुचरान सर्वान करुद्धः पराच्छादयच छरैः ॥ 43 ॥

  44. परद्रुद्राव ततः सैन्यं पाञ्चालानां विशां पते संभ्रान्तरूपम आर्तं च शरवर्ष परिक्षतम ॥ 44 ॥

  45. दृष्ट्वा च विमुखान यॊधान धृष्टद्युम्नं च पीडितम शैनेयॊ ऽचॊदयत तूर्णं रणं दरौणिरथं परति ॥ 45 ॥

  46. अष्टभिर निशितैश चैव सॊ ऽशवत्थामानम आर्दयत विंशत्या पुनर आहत्य नानारूपैर अमर्षणम विव्याध च तथा सूतं चतुर्भिश चतुरॊ हयान ॥ 46 ॥

  47. सॊ ऽतिविद्धॊ महेष्वासॊ नाना लिङ्गैर अमर्षणः युयुधानेन वै दरौणिः परहसन वाक्यम अब्रवीत ॥ 47 ॥

  48. शैनेयाभ्यवपत्तिं ते जानाम्य आचार्य घातिनः न तव एनं तरास्यसि मया गरस्तम आत्मानम एव च ॥ 48 ॥

  49. एवम उक्त्वार्क रश्म्याभं सुपर्वाणं शरॊत्तमम वयसृजत सात्वते दरौणिर वज्रं वृत्रे यथा हरिः ॥ 49 ॥

  50. स तं निर्भिद्य तेनास्तः सायकः स शरावरम विवेश वसुधां भित्त्वा शवसन बिलम इवॊरगः ॥ 50 ॥

  51. स भिन्नकवचः शूरस तॊत्त्रार्दित इव दविपः विमुच्य स शरं चापं भूरि वरणपरिस्रवः ॥ 51 ॥

  52. सीदन रुधिरसिक्तश च रथॊपस्थ उपाविशत सूतेनापहृतस तूर्णं दरॊणपुत्राद रथान्तरम ॥ 52 ॥

  53. अथान्येन सुपुङ्खेन शरेण नतपर्वणा आजघान भरुवॊर मध्ये धृष्टद्युम्नं परंतपः ॥ 53 ॥

  54. स पूर्वम अतिविद्धश च भृशं पश्चाच च पीडितः ससाद युधि पाञ्चाल्यॊ वयपाश्रयत च धवजम ॥ 54 ॥

  55. तं मत्तम इव सिंहेन राजन कुञ्जरम अर्दितम जवेनाभ्यद्रवञ शूराः पञ्च पाण्डवतॊ रथाः ॥ 55 ॥

  56. किरीटी भीमसेनश च वृद्धक्षत्रश च पौरवः युवराजश च चेदीनां मालवश च सुदर्शनः पञ्चभिः पञ्चभिर बाणैर अभ्यघ्नन सर्वतः समम ॥ 56 ॥

  57. आशीविषाभैर विशद्भिः पञ्चभिश चापि ताञ शरैः चिच्छेद युगपद दरौणिः पञ्चविंशतिसायकान ॥ 57 ॥

  58. सप्तभिश च शितैर बाणैः पौरवं दरौणिर आर्दयत मालवं तरिभिर एकेन पार्थं षड्भिर वृकॊदरम ॥ 58 ॥

  59. ततस ते विव्यधुः सर्वे दरौणिं राजन महारथाः युगपच च पृथक चैव रुक्मपुङ्खैः शिलाशितैः ॥ 59 ॥

  60. युवराजस तु विंशत्या दरौणिं विव्याध पत्रिणाम पार्थश च पुनर अष्टाभिस तथा सर्वे तरिभिस तरिभिः ॥ 60 ॥

  61. ततॊ ऽरजुनं षड्भिर अथाजघान; दरौणायनिर दशभिर वासुदेवम भीमं दशार्धैर युवराजं चतुर्भिर; दवाभ्यां छित्त्वा कार्मुकं च धवजं च पुनः पार्थं शरवर्षेण विद्ध्वा; दरौणिर घॊरं सिंहनादं ननाद ॥ 61 ॥

  62. तस्यास्यतः सुनिशितान पीतधारान; दरौणेः शरान पृष्ठतश चाग्रतश च धरा वियद दयौः परदिशॊ दिशश च; छन्ना बाणैर अभवन घॊररूपैः ॥ 62 ॥

  63. आसीनस्य सवरथं तूग्र तेजाः; सुदर्शनस्येन्द्र केतुप्रकाशौ भुजौ शिरश चेन्द्र समानवीर्यस; तरिभिः शरैर युगपत संचकर्त ॥ 63 ॥

  64. स पौरवं रथशक्त्या निहत्य; छित्त्वा रथं तिलशश चापि बाणैः छित्त्वास्य बाहू वरचन्दनाक्तौ; भल्लेन कायाच छिर उच्चकर्त ॥ 64 ॥

  65. युवानम इन्दीवरदाम वर्णं; चेदिप्रियं युवराजं परहस्य बाणैस तवरावाञ जवलिताग्निकल्पैर; विद्ध्वा परादान मृत्यवे साश्वसूतम ॥ 65 ॥

  66. तान निहत्य रणे वीरॊ दरॊणपुत्रॊ युधां पतिः दध्मौ परमुदितः शङ्खं बृहन्तम अपराजितः ॥ 66 ॥

  67. ततः सर्वे च पाञ्चाला भीमसेनश च पाण्डवः धृष्टद्युम्न रथं भीतास तयक्त्वा संप्राद्रवन दिशः ॥ 67 ॥

  68. तान परभग्नांस तथा दरौणिः पृष्ठतॊ विकिरञ शरैः अभ्यवर्तत वेगेन कालवत पाण्डुवाहिनीम ॥ 68 ॥

  69. ते वध्यमानाः समरे दरॊणपुत्रेण कषत्रियाः दरॊणपुत्रं भयाद राजन दिक्षु सर्वासु मेनिरे ॥ 69 ॥

Reach this point to mark the section finished.

Continue to अध्याय 172

Previous: अध्याय 170