[स] ततः स कदनं चक्रे रिपूणां दरॊणनन्दनः युगान्ते सर्वभूतानां कालसृष्ट इवान्तकः ॥ 1 ॥
धवजद्रुमं शस्त्रशृङ्गं हतनागमहाशिलम अश्वकिंपुरुषाकीर्णं शतासन लतावृतम ॥ 2 ॥
शूलक्रव्याद संघुष्टं भूतयक्षगणाकुलम निहत्य शात्रवान भल्लैः सॊ ऽचिनॊद देहपर्वतम ॥ 3 ॥
ततॊ वेगेन महता विनद्य स नरर्षभः परतिज्ञां शरावयाम आस पुनर एव तवात्मजम ॥ 4 ॥
यस्माद युध्यन्तम आचार्यं धर्मकञ्चुकम आस्थितः मुञ्च शस्त्रम इति पराह कुन्तीपुत्रॊ युधिष्ठिरः ॥ 5 ॥
तस्मात संपश्यतस तस्य दरावयिष्यामि वाहिनीम विद्राव्य सत्यं हन्तास्मि पापं पाञ्चाल्यम एव तु ॥ 6 ॥
सर्वान एतान हनिष्यामि यदि यॊत्स्यन्ति मां रणे सत्यं ते परतिजानामि परावर्तय वानिहीम ॥ 7 ॥
तच छरुत्वा तव पुत्रस तु वाहिनीं पर्यवर्तयत सिंहनादेन महता वयपॊह्य सुमहद भयम ॥ 8 ॥
ततः समागमॊ राजन कुरुपाण्डवसेनयॊः पुनर एवाभवत तीव्रः पूर्णसागरयॊर इव ॥ 9 ॥
संरब्धा हि सथिरी भूता दरॊणपुत्रेण कौरवाः उदग्राः पाण्डुपाञ्चाला दरॊणस्य निधनेन च ॥ 10 ॥
तेषां परमहृष्टानां जयम आत्मनि पश्यताम संरब्धानां महावेगः परादुरासीद रणाजिरे ॥ 11 ॥
यथा शिलॊच्चये शैलः सागरे सागरॊ यथा परतिहन्येत राजेन्द्र तथासन कुरुपाण्डवाः ॥ 12 ॥
ततः शङ्खसहस्राणि भेरीणाम अयुतानि च अवादयन्त संहृष्टाः कुरुपाण्डवसैनिकाः ॥ 13 ॥
ततॊ निर्मथ्यमानस्य सागरस्येव निस्वनः अभवत तस्य सैन्यस्य सुमहान अद्भुतॊपमः ॥ 14 ॥
परादुश्चक्रे ततॊ दरौणिर अस्त्रं नारायणं तदा अभिसंधाय पाण्डूनां पाञ्चालानां च वाहिनीम ॥ 15 ॥
परादुरासंस ततॊ बाणा दीप्ताग्राः खे सहस्रशः पाण्डवान भक्षयिष्यन्तॊ दीप्तास्या इव पन्नगाः ॥ 16 ॥
ते दिशः खं च सैन्यं च समावृण्वन महाहवे मुहूर्ताद भास्करस्येव राजँल लॊकं गभस्तयः ॥ 17 ॥
तथापरे दयॊतमाना जयॊतींषीवाम्बरे ऽमले परादुरासन महीपाल कार्ष्णायसमया गुडाः ॥ 18 ॥
चतुर्दिशं विचित्राश च शतघ्न्यॊ ऽथ हुताशदाः चक्राणि च कषुरान्तानि मण्डलानीव भास्वतः ॥ 19 ॥
शस्त्राकृतिभिर आकीर्णम अतीव भरतर्षभ दृष्ट्वान्तरिक्षम आविग्नाः पाण्डुपाञ्चाल सृञ्जयाः ॥ 20 ॥
यथा यथा हय अयुध्यन्त पाण्डवानां महारथाः तथा तथा तद अस्त्रं वै वयवर्धत जनाधिप ॥ 21 ॥
वध्यमानास तथास्त्रेण तेन नारायणेन वै दह्यमानानलेनेव सर्वतॊ ऽभयर्दिता रणे ॥ 22 ॥
यथा हि शिशिरापाये दहेत कक्षं हुताशनः तथा तद अस्त्रं पाण्डूनां ददाह धवजिनीं परभॊ ॥ 23 ॥
आपूर्यमाणेनास्त्रेण सैन्ये कषीयति चाभिभॊ जगाम परमं तरासं धर्मपुत्रॊ युधिष्ठिरः ॥ 24 ॥
दरवमाणं तु तत सैन्यं दृष्ट्वा विगतचेतनम मध्यस्थतां च पार्थस्य धर्मपुत्रॊ ऽबरवीद इदम ॥ 25 ॥
धृष्टद्युम्न पलायस्व सह पाञ्चाल सेनया सात्यके तवं च गच्छस्व वृष्ण्यन्धकवृतॊ गृहान ॥ 26 ॥
वासुदेवॊ ऽपि धर्मात्मा करिष्यत्य आत्मनः कषमम उपदेष्टुं समर्थॊ ऽयं लॊकस्य किम उतात्मनः ॥ 27 ॥
संग्रामस तु न कर्तव्यः सर्वसैन्यान बरवीमि वः अहं हि सह सॊदर्यैः परवेक्ष्ये हव्यवाहनम ॥ 28 ॥
भीष्मद्रॊणार्णवं तीर्त्वा संग्रामं भीरु दुस्तरम अवसत्स्याम्य असलिले सगणॊ दरौणिगॊष्पदे ॥ 29 ॥
कामः संपद्यताम अस्य बीभत्सॊर आशु मां परति कल्याण वृत्त आचार्यॊ मया युधि निपातितः ॥ 30 ॥
येन बालः स सौभद्रॊ युद्धानाम अविशारदः समर्थैर बहुभिः करूरैर घातितॊ नाभिपालितः ॥ 31 ॥
येनाविब्रुवता परश्नं तथा कृष्णा सभां गता उपेक्षिता सपुत्रेण दासभावं नियच्छती ॥ 32 ॥
जिघांसुर धार्तराष्ट्रश च शरान्तेष्व अश्वेषु फल्गुनम कवचेन तथायुक्तॊ रक्षार्थं सैन्धवस्य च ॥ 33 ॥
येन बरह्मास्त्र विदुषा पाञ्चालाः सत्यजिन मुखाः कुर्वाणा मज्जये यत्नं स मूला विनिपातिताः ॥ 34 ॥
येन परव्राज्यमानाश च राज्याद वयम अधर्मतः निवार्यमाणेनास्माभिर अनुगन्तुं तद एषिताः ॥ 35 ॥
यॊ ऽसाव अत्यन्तम अस्मासु कुर्वाणः सौहृदं परम हतस तदर्थे मरणं गमिष्यामि स बान्धवः ॥ 36 ॥
एवं बरुवति कौन्तेये दाशार्हस तवरितस ततः निवार्य सैन्यं बाहुभ्याम इदं वचनम अब्रवीत ॥ 37 ॥
शीघ्रं नयस्यत शस्त्राणि वाहेभ्यश चावरॊहत एष यॊगॊ ऽतर विहितः परतिघातॊ महात्मना ॥ 38 ॥
दविपाश्वस्यन्दनेभ्यश च कषितिं सर्वे ऽवरॊहत एवम एतन न वॊ हन्याद अस्त्रं भूमौ निरायुधान ॥ 39 ॥
यथा यथा हि युध्यन्ते यॊधा हय अस्त्रबलं परति तथा तथा भवन्त्य एते कौरवा बलवत्तराः ॥ 40 ॥
निक्षेप्स्यन्ति च शस्त्राणि वाहनेभ्यॊ ऽवरुह्य ये तान नैतद अस्त्रं संग्रामे निहनिष्यति मानवान ॥ 41 ॥
ये तव एतत परतियॊत्स्यन्ति मनसापीह के चन निहनिष्यति तान सर्वान रसातलगतान अपि ॥ 42 ॥
ते वचस तस्य तत्ल्श्रुत्वा वासुदेवस्य भारत ईषुः सर्वे ऽसत्रम उत्स्रष्टुं मनॊभिः करणेन च ॥ 43 ॥
तत उत्स्रष्टुकामांस तान अस्त्राण्य आलक्ष्य पाण्डवः भीमसेनॊ ऽबरवीद राजन्न इदं संहर्षयन वचः ॥ 44 ॥
न कथं चन शस्त्राणि मॊक्तव्यानीह केन चित अहम आवारयिष्यामि दरॊणपुत्रास्त्रम आशुगैः ॥ 45 ॥
अथ वाप्य अनया गुर्व्या हेमविग्रहया रणे कालवद विचरिष्यामि दरौणेर अस्त्रं विशातयन ॥ 46 ॥
न हि मे विक्रमे तुल्यः कश चिद अस्ति पुमान इह यथैव सवितुस तुल्यं जयॊतिर अन्यन न विद्यते ॥ 47 ॥
पश्यध्वं मे दृढौ बाहू नागराजकरॊपमा समर्थौ पर्वतस्यापि शैशिरस्य निपातने ॥ 48 ॥
नागायुत समप्राणॊ हय अहम एकॊ नरेष्व इह शक्रॊ यथा परतिद्वंद्वॊ दिवि देवेषु विश्रुतः ॥ 49 ॥
अद्य पश्यत मे वीर्यं बाह्वॊः पीनांसयॊर युधि जवलमानस्य दीप्तस्य दरौणेर अस्त्रस्य वारणे ॥ 50 ॥
यदि नारायणास्त्रस्य परतियॊद्धा न विद्यते अद्यैनं परतियॊत्स्यामि पश्यत्सु कुरु पाण्डुषु ॥ 51 ॥
एवम उक्त्वा ततॊ भीमॊ दरॊणपुत्रम अरिंदमः अभ्ययान मेघघॊषेण रथेनादित्यवर्चसा ॥ 52 ॥
स एनम इषुजालेन लघुत्वाच छीघ्र विक्रमः निमेष मात्रेणासाद्य कुन्तीपुत्रॊ ऽभयवाकिरत ॥ 53 ॥
ततॊ दरौणिः परहस्यैनम उदासम अभिभाष्य च अवाकिरत परदीप्ताग्रैः शरैस तैर अभिमन्त्रितैः ॥ 54 ॥
पन्नगैर इव दीप्तास्यैर वमद्भिर अनलं रणे अवकीर्णॊ ऽभवत पार्थः सफुलिङ्गैर इव काञ्चनैः ॥ 55 ॥
तस्य रूपम अभूद राजन भीमसेनस्य संयुगे खद्यॊतैर आवृतस्येव पर्वतस्य दिनक्षये ॥ 56 ॥
तद अस्त्रं दरॊणपुत्रस्य तस्मिन परतिसमस्यति अवर्धत महाराज यथाग्निर अनिलॊद्धतः ॥ 57 ॥
विवर्धमानम आलक्ष्य तद अस्त्रं भीमविक्रमम पाण्डुसैन्यम ऋते भीमं सुमहद भयम आविशत ॥ 58 ॥
ततः शस्त्राणि ते सर्वे समुत्सृज्य महीतले अवारॊहन रथेभ्यश च हस्त्यश्वेभ्यश च सर्वशः ॥ 59 ॥
तेषु निक्षिप्तशस्त्रेषु वानहेभ्यश चयुतेषु च तद अस्त्रवीर्यं विपुलं भीम मूर्धन्य अथापतत ॥ 60 ॥
हाहाकृतानि भूतानि पाण्डवाश च विशेषतः भीमसेनम अपश्यन्त तेजसा संवृतं तदा ॥ 61 ॥
द्रोणपर्व · Drona Parva
अध्याय 170
Reach this point to mark the section finished.
Continue to अध्याय 171