धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 169

  1. [धृ] साङ्गा वेदा यथान्यायं येनाधीता महात्मना यस्मिन साक्षाद धनुर्वेदॊ हरीनिषेधे परतिष्ठितः ॥ 1 ॥

  2. तस्मिन्न आक्रुश्यति दरॊणे महर्षितनये तदा नीचात्मना नृशंसेन करुद्रेण गुरु घातिना ॥ 2 ॥

  3. यस्य परसादात कर्माणि कुर्वन्ति पुरुषर्षभाः अमानुषाणि संग्रामे देवैर असुकराणि च ॥ 3 ॥

  4. तस्मिन्न आक्रुश्यति दरॊणे समक्षं पापकर्मिणः नामर्षं तत्र कुर्वन्ति धिक कषत्रं धिग अमर्षितम ॥ 4 ॥

  5. पार्थाः सर्वे च राजानः पृथिव्यां ये धनुर्धराः शरुत्वा किम आहुः पाञ्चाल्यं तन ममाचक्ष्व संजय ॥ 5 ॥

  6. [स] शरुत्वा दरुपदपुत्रस्य ता वाचः करूरकर्मणः तूष्णीं बभूवू राजानः सर्व एव विशां पते ॥ 6 ॥

  7. अर्जुनस तु कटाक्षेण जिह्मं परेक्ष्य च पार्षतम सबाष्पम अभिनिःश्वस्य धिग धिग धिग इति चाब्रवीत ॥ 7 ॥

  8. युधिष्ठिरश च भीमश च यमौ कृष्णस तथापरे आसन सुव्रीडिता राजन सात्यकिर इदम अब्रवीत ॥ 8 ॥

  9. नेहास्ति पुरुषः कश चिद य इमं पापपूरुषम भाषमाणम अकल्याणं शीघ्रं हन्यान नराधमम ॥ 9 ॥

  10. कथं च शतधा जिह्वा न ते मूर्धा च दीर्यते गुरुम आक्रॊशतः कषुद्रन चाधर्मेण पात्यसे ॥ 10 ॥

  11. याप्यस तवम असि पार्थैश च सर्वैश चान्धकवृष्णिभिः यत कर्म कलुषं कृत्वा शलाघसे जनसंसदि ॥ 11 ॥

  12. अकार्यं तादृशं कृत्वा पुनर एव गुरुं कषिपन वध्यस तवं न तवयार्थॊ ऽसति मुहूर्तम अपि जीवता ॥ 12 ॥

  13. कस तव एतद वयवसेद आर्यस तवदन्यः पुरुषाधमः निगृह्य केशेषु वधं गुरॊर धर्मात्मनः सतः ॥ 13 ॥

  14. सप्तावरे तथा पूर्वे बान्धवास ते निपातिताः यशसा च परित्यक्तास तवां पराप्य कुलपांसनम ॥ 14 ॥

  15. उक्तवांश चापि यत पार्थं भीष्मं परति नरर्षभम तथान्तॊ विहितस तेन सवयम एव महात्मना ॥ 15 ॥

  16. तस्यापि तव सॊदर्यॊ निहन्ता पापकृत्तमः नान्यः पाञ्चाल पुत्रेभ्यॊ विद्यते भुवि पापकृत ॥ 16 ॥

  17. स चापि सृष्टः पित्रा ते भीष्मस्यान्त करः किल शिखण्डी रक्षितस तेन स च मृत्युर महात्मनः ॥ 17 ॥

  18. पाञ्चालाश चलिता धर्मात कषुद्रा मित्र गुरु दरुहः तवां पराप्य सह सॊदर्यं धिक्कृतं सर्वसाधुभिः ॥ 18 ॥

  19. पुनश चेद ईदृशीं वाचं मत्समीपे वदिष्यसि शिरस ते पातयिष्यामि गदया वज्रकल्पया ॥ 19 ॥

  20. सात्वतेनैवम आक्षिप्तः पार्षतः परुषाक्षरम संरब्धः सात्यकिं पराह संक्रुद्धः परहसन्न इव ॥ 20 ॥

  21. शरूयते शरूयते चेति कषम्यते चेति माधव न चानार्य शुभं साधुं पुरुषं कषेप्तुम अर्हसि ॥ 21 ॥

  22. कषमा परशस्यते लॊके न तु पापॊ ऽरहति कषमाम कषमावन्तं हि पापात्मा जितॊ ऽयम इति मन्यते ॥ 22 ॥

  23. स तवं कषुद्रसमाचारॊ नीचात्मा पापनिश्चयः आ केशाग्रान नखाग्राच च वक्तव्यॊ वक्तुम इच्छसि ॥ 23 ॥

  24. यः स भूरिश्रवाश छिन्ने भुजे परायगतस तवया वार्यमाणेन निहतस ततः पापतरं नु किम ॥ 24 ॥

  25. वयूहमानॊ मया दरॊणॊ दिव्येनास्त्रेण संयुगे विसृष्टशस्त्रॊ निहतः किं तत्र करूर दुष्कृतम ॥ 25 ॥

  26. अयुध्यमानं यस तव आजौ तथा परायगतं मुनिम छिन्नबाहुं परैर हन्यात सात्यके स कथं भवेत ॥ 26 ॥

  27. निहत्य तवां यदा भूमौ स विक्रामति वीर्यवान किं तदा न निहंस्य एनं भूत्वा पुरुषसत्तमः ॥ 27 ॥

  28. तवया पुनर अनार्येण पूर्वं पार्थेन निर्जितः यदा तदा हतः शूरः सौमदत्तिः परतापवान ॥ 28 ॥

  29. यत्र यत्र तु पाण्डूनां दरॊणॊ दरावयते चमूम किरञ शरसहस्राणि तत्र तत्र परयाम्य अहम ॥ 29 ॥

  30. स तवम एवंविधं कृत्वा कर्म चाण्डालवत सवयम वक्तुम इच्छसि वक्तव्यः कस्मान मां परुषाण्य अथ ॥ 30 ॥

  31. कर्ता तवं कर्मणॊग्रस्य नाहं वृष्णिकुलाधम पापानां च तवम आवासः कर्मणां मा पुनर वद ॥ 31 ॥

  32. जॊषम आस्स्व न मां भूयॊ वक्तुम अर्हस्य अतः परम अधरॊत्तरम एतद धि यन मा तवं वक्तुम इच्छसि ॥ 32 ॥

  33. अथ वक्ष्यसि मां मौर्ख्याद भूयः परुषम ईदृशम गमयिष्यामि बाणैस तवां युधि वैवस्वतक्षयम ॥ 33 ॥

  34. न चैव मूर्ख धर्मेण केवलेनैव शक्यते तेषाम अपि हय अधर्मेण चेष्टितं शृणु यादृशम ॥ 34 ॥

  35. वञ्चितः पाण्डवः पर्वम अधर्मेण युधिष्ठिरः दरौपदी च परिक्लिष्टा तथाधर्मेण सात्यके ॥ 35 ॥

  36. परव्राजिता वनं सर्वे पाण्डवाः सह कृष्णया सर्वस्वम अपकृष्टं च तथाधर्मेण बालिश ॥ 36 ॥

  37. अधर्मेणापकृष्टश च मद्रराजः परैर इतः इतॊ ऽपय अधर्मेण हतॊ भीष्मः कुरुपितामहः भूरिश्रवा हय अधर्मेण तवया धर्मविदा हतः ॥ 37 ॥

  38. एवं परैर आचरितं पाण्डवेयैश च संयुगे रक्षमाणैर जयं वीरैर धर्मज्ञैर अपि सात्वत ॥ 38 ॥

  39. दुर्ज्ञेयः परमॊ धर्मस तथाधर्मः सुदुर्विदः युध्यस्व कौरवैः सार्धं मा गाः पितृनिवेशनम ॥ 39 ॥

  40. एवमादीनि वाक्यानि करूराणि परुषाणि च शरावितः सात्यकिः शरीमान आकम्पित इवाभवत ॥ 40 ॥

  41. तच छरुत्वा करॊधताम्राक्षः सात्यकिस तव आददे गदाम विनिःश्वस्य यथा सर्पः परणिधाय रथे धनुः ॥ 41 ॥

  42. ततॊ ऽभिपत्य पाञ्चाल्यं संरम्भेणेदम अब्रवीत न तवां वक्ष्यामि परुषं हनिष्ये तवां वधक्षमम ॥ 42 ॥

  43. तम आपतन्तं सहसा महाबलम अमर्षणम पाञ्चाल्यायाभिसंक्रुद्धम अन्तकायान्तकॊपमम ॥ 43 ॥

  44. चॊदितॊ वासुदेवेन भीमसेनॊ महाबलः अवप्लुत्य रथात तूर्णं बाहुभ्यां समवारयत ॥ 44 ॥

  45. दरवमाणं तथा करुद्धं सात्यकिं पाण्डवॊ बली परस्कन्दमानम आदाय जगाम बलिनं बलात ॥ 45 ॥

  46. सथित्वा विष्टभ्य चरणौ भीमेन शिनिपुंगवः निगृहीतः पदे षष्ठे बलेन बलिनां वरः ॥ 46 ॥

  47. अवरुह्य रथात तं तु हरियमाणं बलीयसा उवाच शलक्ष्णया वाचा सहदेवॊ विशां पते ॥ 47 ॥

  48. अस्माकं पुरुषव्याघ्र मित्रम अन्यन न विद्यते परम अन्धकवृष्णिभ्यः पाञ्चालेभ्यश च माधव ॥ 48 ॥

  49. तथैवान्धकवृष्णीनां तव चैव विशेषतः कृष्णस्य च तथास्मत्तॊ मित्रम अन्यन न विद्यते ॥ 49 ॥

  50. पाञ्चालानां च वार्ष्णेय समुद्रान्तां विचिन्वताम नान्यद अस्ति परं मित्रं मन्यते च यथा भवान ॥ 50 ॥

  51. स भवान ईदृशं मित्रं मन्यते च यथा भवान भवन्तश च यथास्माकं भवतां च तथा वयम ॥ 51 ॥

  52. स एवं सर्वधर्मज्ञॊ मित्र धर्मम अनुस्मरन नियच्छ मन्युं पाञ्चाल्यात परशाम्य शिनिपुंगव ॥ 52 ॥

  53. पार्षतस्य कषम तवं वै कषमतां तव पार्षतः वयं कषमयितारश च किम अन्यत्र शमाद भवेत ॥ 53 ॥

  54. परशाम्यमाने शैनेये सहदेवेन मारिष पाञ्चालराजस्य सुतः परहसन्न इदम अब्रवीत ॥ 54 ॥

  55. मुञ्च मुञ्च शिनेः पौत्रं भीम युद्धमदान्वितम आसादयतु माम एष धराधरम इवानिलः ॥ 55 ॥

  56. यावद अस्य शितैर बाणैः संरम्भं विनयाम्य अहम युद्धश्रद्धां च कौन्तेय जीवितस्य च संयुगे ॥ 56 ॥

  57. किं नु शक्यं मया कर्तुं कार्यं यद इदम उद्यतम सुमहत पाण्डुपुत्राणाम आयान्त्य एते हि कौरवाः ॥ 57 ॥

  58. अथ वा फल्गुनः सर्वान वारयिष्यति संयुगे अहम अप्य अस्य मूर्धानं पातयिष्यामि सायकैः ॥ 58 ॥

  59. मन्यते छिन्नबाहुं मां भूरिश्रवसम आहवे उत्सृजैनम अहं वैनम एष मां वा हनिष्यति ॥ 59 ॥

  60. शृण्वन पाञ्चाल वाक्यानि सात्यकिः सर्पवच छवसन भीम बाह्वन्तरे सक्तॊ विस्फुरत्य अनिशं बली ॥ 60 ॥

  61. तवरया वासुदेवश च धर्मराजश च मारिष यत्नेन महता वीरौ वारयाम आसतुस ततः ॥ 61 ॥

  62. निवार्य परमेष्वासौ करॊधसंरक्तलॊचनौ युयुत्सवः परान संख्ये परतीयुः कषत्रियर्षभाः ॥ 62 ॥

Reach this point to mark the section finished.

Continue to अध्याय 170

Previous: अध्याय 168