धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 16

  1. [स] ते सेने शिबिरं गत्वा नयविशेतां विशां पते यथाभागं यथान्यायं यथा गुल्मं च सर्वशः ॥ 1 ॥

  2. कृत्वावहारं सैन्यानां दरॊणः परमदुर्मनाः दुर्यॊधनम अभिप्रेक्ष्य सव्रीडम इदम अब्रवीत ॥ 2 ॥

  3. उक्तम एतन मया पूर्वं न तिष्ठति धनंजये शक्यॊ गरहीतुं संग्रामे देवैर अपि युधिष्ठिरः ॥ 3 ॥

  4. इति तद वः परयततां कृतं पार्थेन संयुगे मातिशङ्कीर वचॊ मह्यम अजेयौ कृष्ण पाण्डवौ ॥ 4 ॥

  5. अपनीते तु यॊगेन केन चिच छवेत वाहने तत एष्यति ते राजन वशम अद्य युधिष्ठिरः ॥ 5 ॥

  6. कश चिद आह्वयतां संख्ये देशम अन्यं परकर्षतु तम अजित्वा तु कौन्तेयॊ न निवर्तेत कथंचनन ॥ 6 ॥

  7. एतस्मिन्न अन्तरे शून्ये धर्मराजम अहं नृप गरहीष्यामि चमूं भित्त्वा धृष्टद्युम्नस्य पश्यतः ॥ 7 ॥

  8. अर्जुनेन विहीनस तु यदि नॊत्सृजते रणम माम उपायान्तम आलॊक्य गृहीतम इति विद्धि तम ॥ 8 ॥

  9. एवं ते सहसा राजन धर्मपुत्रं युधिष्ठिरम समानेष्यामि सगणं वशम अद्य न संशयः ॥ 9 ॥

  10. यदि तिष्ठति संग्रामे मुहूर्तम अपि पाण्डवः अथापयाति संग्रामाद विजयात तद विशिष्यते ॥ 10 ॥

  11. दरॊणस्य तु वचः शरुत्वा तरिगर्ताधिपतिस ततः भरातृभिः सहितॊ राजन्न इदं वचनम अब्रवीत ॥ 11 ॥

  12. वयं विनिकृता राजन सदा गाण्डीवधन्वना अनागःस्व अपि चागस्कृद अस्मासु भरतर्षभ ॥ 12 ॥

  13. ते वयं समरमाणास तान विनिकारान पृथग्विधान करॊधाग्निना दह्यमाना न शेमहि सदा निशाः ॥ 13 ॥

  14. स नॊ दिव्यास्त्रसंपन्नश चक्षुर्विषयम आगतः कर्तारः सम वयं सर्वं यच चिकीर्षाम हृद्गतम ॥ 14 ॥

  15. भवतश च परियं यत सयाद अस्माकं च यशः करम वयम एनं हनिष्यामॊ निकृष्यायॊधनाद बहिः ॥ 15 ॥

  16. अद्यास्त्व अनर्जुना भूमिर अत्रिगर्ताथ वा पुनः सत्यं ते परतिजानीमॊ नैतन मिथ्या भविष्यति ॥ 16 ॥

  17. एवं सत्यरथश चॊक्त्वा सत्यधर्मा च भारत सत्यवर्मा च सत्येषुः सत्यकर्मा तथैव च ॥ 17 ॥

  18. सहिता भरातरः पञ्च रथानाम अयुतेन च नयवर्तन्त महाराज कृत्वा शपथम आहवे ॥ 18 ॥

  19. मालवास तुण्डिकेराश च रथानाम अयुतैस तरिभिः सुशर्मा च नरव्याघ्रस तरिगर्तः परस्थलाधिपः ॥ 19 ॥

  20. माचेल्लकैर ललित्थैश च सहितॊ मद्रकैर अपि रथानाम अयुतेनैव सॊ ऽशपद भरातृभिः सह ॥ 20 ॥

  21. नानाजनपदेभ्यश च रथानाम अयुतं पुनः समुत्थितं विशिष्टानां संशपार्थम उपागतम ॥ 21 ॥

  22. ततॊ जवलनम आदाय हुत्वा सर्वे पृथक पृथक जगृहुः कुशचीराणि चित्राणि कवचानि च ॥ 22 ॥

  23. ते च बद्धतनु तराणा घृताक्ताः कुशचीरिणः मौर्वी मेखलिनॊ वीराः सहस्रशतदक्षिणाः ॥ 23 ॥

  24. यज्वानः पुत्रिणॊ लॊक्याः कृतकृत्यास तनुत्यजः यॊक्ष्यमाणास तदात्मानं यशसा विजयेन च ॥ 24 ॥

  25. बरह्मचर्य शरुतिमुखैः करतुभिश चाप्तदक्षिणैः पराप्य लॊकान सुयुद्धेन कषिप्रम एव यियासवः ॥ 25 ॥

  26. बराह्मणांस तर्पयित्वा च निष्कान दत्त्वा पृथक पृथक गाश च वासांसि च पुनः समाभाष्य परस्परम ॥ 26 ॥

  27. परज्वाल्य कृष्ण वर्त्मानम उपागम्य रणे वरतम तस्मिन्न अग्नौ तदा चक्रुः परतिज्ञां दृढनिश्चयाः ॥ 27 ॥

  28. शृण्वतां सर्वभूतानाम उच्चैर वाचः सम मेनिरे धृत्वा धनंजय वधे परतिज्ञां चापि चक्रिरे ॥ 28 ॥

  29. ये वै लॊकाश चानृतानां य चैव बरह्म घातिनाम पनपस्य च ये लॊका गुरु दाररतस्य च ॥ 29 ॥

  30. बरह्म सवहारिणश चैव राजपिण्डापहारिणः शरणागतं च तयजतॊ याचमानं तथा घनतः ॥ 30 ॥

  31. अगार दाहिनां ये च ये च गां निघ्नताम अपि अपचारिणां च ये लॊका ये च बरह्म दविषाम अपि ॥ 31 ॥

  32. जायां च ऋतुकाले वै ये मॊहाद अभिगच्छताम शराद्धसंगतिकानां च ये चाप्य आत्मापहारिणाम ॥ 32 ॥

  33. नयासापहारिणां ये च शरुतं नाशयतां च ये कॊपेन युध्यमानानां ये च नीचानुसारिणाम ॥ 33 ॥

  34. नास्तिकानां च ये लॊका ये ऽगनिहॊरा पितृत्यजाम तान आप्नुयामहे लॊकान ये च पापकृताम अपि ॥ 34 ॥

  35. यद्य अहत्वा वयं युद्धे निवर्तेम धनंजयम तेन चाभ्यर्दितास तरासाद भवेम हि पराङ्मुखाः ॥ 35 ॥

  36. यदि तव असुकरं लॊके कर्म कुर्याम संयुगे इष्टान पुण्यकृतां लॊकान पराप्नुयाम न संशयः ॥ 36 ॥

  37. एवम उक्त्वा ततॊ राजंस ते ऽभयवर्तन्त संयुगे आह्वयन्तॊ ऽरजुनं वीराः पितृजुष्टां दिशं परति ॥ 37 ॥

  38. आहूतस तैर नरव्याघ्रैः पार्थः परपुरंजयः धर्मराजम इदं वाक्यम अपदान्तरम अब्रवीत ॥ 38 ॥

  39. आहूतॊ न निवर्तेयम इति मे वरतम आहितम संशप्तकाश च मां राजन्न आह्वयन्ति पुनः पुनः ॥ 39 ॥

  40. एष च भरातृभिः सार्धं सुशर्माह्वयते रणे वधाय सगणस्यास्य माम अनुज्ञातुम अर्हसि ॥ 40 ॥

  41. नैतच छक्नॊमि संसॊढुम आह्वानं पुरुषर्षभ सत्यं ते परतिजानामि हतान विद्धि परान युधि ॥ 41 ॥

  42. [य] शरुतम एतत तवया तात यद दरॊणस्य चिकीर्षितम यथा तद अनृतं तस्य भवेत तद्वत समाचर ॥ 42 ॥

  43. दरॊणॊ हि बलवाञ शूरः कृतास्त्रश च जितश्रमः परतिज्ञातं च तेनैतद गरहणं मे महारथ ॥ 43 ॥

  44. [अर्ज] अयं वै सत्यजिद राजन्न अद्य ते रक्षिता युधि धरियमाणे हि पाञ्चाल्ये नाचार्यः कामम आप्स्यति ॥ 44 ॥

  45. हते तु पुरुषव्याघ्रे रणे सत्यजिति परभॊ सर्वैर अपि समेतैर वा न सथातव्यं कथं चन ॥ 45 ॥

  46. [स] अनुज्ञातस ततॊ राज्ञा परिष्वक्तश च फल्गुनः परेम्णा दृष्टश च बहुधा आशिषा च परयॊजितः ॥ 46 ॥

  47. विहायैनं ततः पार्थस तरिगर्तान परत्ययाद बली कषुधितः कषुद विघातार्थं सिंहॊ मृगगणान इव ॥ 47 ॥

  48. ततॊ दौर्यॊधनं सैन्यं मुदा परमया युतम गते ऽरजुने भृशं करुद्धं कर्म राजस्य निग्रहे ॥ 48 ॥

  49. ततॊ ऽनयॊन्येन ते सेने समाजग्मतुर ओजसा गङ्गा सरय्वॊर वेगेन परावृषीवॊल्बणॊदके ॥ 49 ॥

Reach this point to mark the section finished.

Continue to अध्याय 17

Previous: अध्याय 15