धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 167

  1. [स] परादुर्भूते ततस तस्मिन्न अस्त्रे नारायणे तदा परावात सपृषतॊ वायुर अनभ्रे सतनयित्नुमान ॥ 1 ॥

  2. चचाल पृथिवी चापि चुक्षुभे च महॊदधिः परतिस्रॊतः परवृत्ताश च गन्तुं तत्र समुद्रगाः ॥ 2 ॥

  3. शिखराणि वयदीर्यन्त गिरीणां तत्र भारत अपसव्यं मृगाश चैव पाण्डुपुत्रान परचक्रिरे ॥ 3 ॥

  4. तमसा चावकीर्यन्त सूर्यश च कलुषॊ ऽभवत संपतन्ति च भूतानि करव्यादानि परहृष्टवत ॥ 4 ॥

  5. देवदानवगन्धर्वास तरस्ता आसन विशां पते कथं कथाभवत तीव्रा दृष्ट्वा तद वयाकुलं महत ॥ 5 ॥

  6. वयथिताः सर्वराजानस तदा हय आसन विचेतसः तद दृष्ट्वा घॊररूपं तु दरौणेर अस्त्रं भयावहम ॥ 6 ॥

  7. [धृ] निवर्तितेषु सैन्येषु दरॊणपुत्रेण संयुगे भृशं शॊकाभितप्तेन पितुर वधम अमृष्यता ॥ 7 ॥

  8. कुरून आपततॊ दृष्ट्वा धृष्टद्युम्नस्य रक्षणे कॊ मन्त्रः पाण्डवेष्व आसीत तन ममाचक्ष्व संजय ॥ 8 ॥

  9. [स] पराग एव विद्रुतान दृष्ट्वा धार्तराष्ट्रान युधिष्ठिरः पुनश च तुमुलं शब्दं शरुत्वार्जुनम अभाषत ॥ 9 ॥

  10. आचार्ये निहते दरॊणे धृष्टद्युम्नेन संयुगे निहते वज्रहस्तेन यथा वृत्रे महासुरे ॥ 10 ॥

  11. नाशंसन्त जयं युद्धे दीनात्मानॊ धनंजय आत्मत्राणे मतिं कृत्वा पराद्रवन कुरवॊ यथा ॥ 11 ॥

  12. के चिद भरान्तै रथैस तूर्णं निहतपार्ष्णि यन्तृभिः विपताक धवजच छत्त्रैः पार्थिवाः शीर्णकूबरैः ॥ 12 ॥

  13. भग्ननीडैर आकुलाश्वैर आरुह्यन ये विचेतसः भीताः पादैर हयान केच चित तवरयन्तः सवयं रथैः युगचक्राक्ष भग्नैश च दरुताः के चिद भयातुराः ॥ 13 ॥

  14. गजस्कन्धेषु संस्यूता नाराचैश चलितासनाः शरार्तैर विद्रुतैर नागैर हृताः के चिद दिशॊ दश ॥ 14 ॥

  15. विशस्त्र कवचाश चान्ये वाहनेभ्यः कषितिं गताः संछन्ना नेमिषु गता मृदिताश च हयद्विपैः ॥ 15 ॥

  16. करॊशन्तस तात पुत्रेति पालयन्तॊ ऽपरे भयात नाभिजानन्ति चान्यॊन्यं कश्मलाभिहतौजसः ॥ 16 ॥

  17. पुत्रान पितॄन सखीन भरातॄन समारॊप्य दृढक्षतान जलेन कलेदयन्त्य अन्ये विमुच्य कवचान्य अपि ॥ 17 ॥

  18. अवस्थां तादृशीं पराप्य हते दरॊणे दरुतं बलम पुनरावर्तितं केन यदि जानासि शंस मे ॥ 18 ॥

  19. हयानां हेषतां शब्दः कुञ्जराणां च बृंहताम रथनेमि सवनश चात्र विमिश्रः शरूयते महान ॥ 19 ॥

  20. एते शब्दा भृशं तीव्राः परवृत्ताः कुरु सागरे मुहुर मुहुर उदीर्यन्तः कम्पयन्ति हि मामकान ॥ 20 ॥

  21. य एष तुमुलः शब्दः शरूयते लॊमहर्षणः सेन्द्रान अप्य एष लॊकांस तरीन भुञ्ज्याद इति मतिर मम ॥ 21 ॥

  22. मन्ये वज्रधरस्यैष निनादॊ भैरवस्वनः दरॊणे हते कौरवार्थं वयक्तम अभ्येति वासवः ॥ 22 ॥

  23. परहृष्टलॊम कूपाः सम संविग्नरथकुञ्जराः धनंजय गुरुं शरुत्वा तत्र नादं सुभीषणम ॥ 23 ॥

  24. क एष कौरवान दीर्णान अवस्थाप्य महारथः निवर्तयति युद्धार्थं मृधे देवेश्वरॊ यथा ॥ 24 ॥

  25. [अर्जुन] उद्यम्यात्मानम उग्राय कर्मणे धैर्यम आस्थिताः धमन्ति कौरवाः शङ्खान्य अस्य वीर्यम उपाश्रिताः ॥ 25 ॥

  26. यत्र ते संशयॊ राजन नयस्तशस्त्रे गुरौ हते धार्तराष्ट्रान अवस्थाप्य क एष नदतीति ह ॥ 26 ॥

  27. हरीमन्तं तं महाबाहुं मत्तद्विरदगामिनम वयाख्यास्याम्य उग्रकर्माणं कुरूणाम अभयंकरम ॥ 27 ॥

  28. यस्मिञ जाते ददौ दरॊणॊ गवां दशशतं धनम बराह्मणेभ्यॊ महार्हेभ्यः सॊ ऽशवत्थामैष गर्जति ॥ 28 ॥

  29. जातमात्रेण वीरेण यनॊच्चैःश्रवसा इव हेषता कम्पिता भूमिर लॊकाश च सकलास तरयः ॥ 29 ॥

  30. तच छरुत्वान्तर्हितं भूतं नाम चास्याकरॊत तदा अश्वत्थामेति सॊ ऽदयैष शूरॊ नदति पाण्डव ॥ 30 ॥

  31. यॊ ऽदयानाथ इवाक्रम्य पार्षतेन हतस तथा कर्मणा सुनृशंसेन तस्य नाथॊ वयवस्थितः ॥ 31 ॥

  32. गुरुं मे यत्र पाञ्चाल्यः केशपक्षे परामृशत तन न जातु कषमेद दरौणिर जानन पौरुषम आत्मनः ॥ 32 ॥

  33. उपचीर्णॊ गुरुर मिथ्या भवता राज्यकारणात धर्मज्ञेन सता नाम सॊ ऽधर्मः सुमहान कृतः ॥ 33 ॥

  34. सर्वधर्मॊपपन्नॊ ऽयं मम शिश्यश च पाण्डवः नायं वक्ष्यति मिथ्येति परत्ययं कृतवांस तवयि ॥ 34 ॥

  35. स सत्यकञ्चुकं नाम परविष्टेन ततॊ ऽनृतम आचार्य उक्तॊ भवता हतः कुञ्जर इत्य उत ॥ 35 ॥

  36. ततः शस्त्रं समुत्सृज्य निर्ममॊ गतचेतनः आसीत स विह्वलॊ राजन यथादृष्टस तवया विभुः ॥ 36 ॥

  37. स तु शॊकेन चाविष्टॊ विमुखः पुत्रवत्सलः शाश्वतं धर्मम उत्सृज्य गुरुः शिष्येण घातितः ॥ 37 ॥

  38. नयस्तशस्त्रम अधर्मेण घातयित्वा गुरुं भवान रक्षत्व इदानीं सामात्यॊ यदि शक्नॊषि पार्षतम ॥ 38 ॥

  39. गरस्तम आचार्य पुत्रेण करुद्धेन हतबन्धुना सर्वे वयं परित्रातुं न शक्ष्यामॊ ऽदय पार्षतम ॥ 39 ॥

  40. सौहार्दं सर्वभूतेषु यः करॊत्य अतिमात्रशः सॊ ऽदय केशग्रहं शरुत्वा पितुर धक्ष्यति नॊ रणे ॥ 40 ॥

  41. विक्रॊशमाने हि मयि भृशम आचार्य गृद्धिनि अवकीर्य सवधर्मं हि शिष्येण निहतॊ गुरुः ॥ 41 ॥

  42. यदा गतं वयॊ भूयः शिष्टम अल्पतरं च नः तस्येदानीं विकारॊ ऽयम अधर्मॊ यत्कृतॊ महान ॥ 42 ॥

  43. पितेव नित्यं सौहार्दात पितेव स हि धर्मतः सॊ ऽलपकालस्य राज्यस्य कारणान निहतॊ गुरुः ॥ 43 ॥

  44. धृतराष्ट्रेण भीष्माय दरॊणाय च विशां पते विसृष्टा पृथिवी सर्वा सह पुत्रैश च तत्परैः ॥ 44 ॥

  45. स पराप्य तादृशीं वृत्तिं सत्कृतः सततं परैः अवृणीत सदा पुत्रान माम एवाभ्यधिकं गुरुः ॥ 45 ॥

  46. अक्षीयमाणॊ नयस्तास्त्रस तवद्वाक्येनाहवे हतः न तव एनं युध्यमानं वै हन्याद अपि शतक्रतुः ॥ 46 ॥

  47. तस्याचार्यस्य वृद्धस्य दरॊहॊ नित्यॊपकारिणः कृतॊ हय अनार्यैर अस्माभी राज्यार्थे लघु बुद्धिभिः ॥ 47 ॥

  48. पुत्रान भरातॄन पितॄन दाराञ जीवितं चैव वासविः तयजेत सर्वं मम परेम्णा जानात्य एतद धि मे गुरुः ॥ 48 ॥

  49. स मया राज्यकामेन हन्यमानॊ ऽपय उपेक्षितः तस्माद अवाक्शिरा राजन पराप्तॊ ऽसमि नरकं विभॊ ॥ 49 ॥

  50. बराह्मणं वृद्धम आचार्यं नयस्तशस्त्रं यथा मुनिम घातयित्वाद्य राज्यार्थे मृतं शरेयॊ न जीवितम ॥ 50 ॥

Reach this point to mark the section finished.

Continue to अध्याय 168

Previous: अध्याय 166