[धृ] अधर्मेण हतं शरुत्वा धृष्टद्युम्नेन संजय बराह्मणं पितरं वृद्धम अश्वत्थामा किम अब्रवीत ॥ 1 ॥
मानुषं वारुणाग्नेयं बराह्मम अस्त्रं च वीर्यवान ऐन्द्रं नारायणं चैव यस्मिन नित्यं परतिष्ठितम ॥ 2 ॥
तम अधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संजय शरुत्वा निहतम आचार्यम अश्वत्थामा किम अब्रवीत ॥ 3 ॥
येन रामाद अवाप्येह धनुर्वेदं महात्मना परॊक्तान्य अस्त्राणि दिव्यानि पुत्राय गुरु काङ्क्षिणे ॥ 4 ॥
एकम एव हि लॊके ऽसमिन्न आत्मनॊ गुणवत्तरम इच्छन्ति पुत्रं पुरुषा लॊके नान्यं कथं चन ॥ 5 ॥
आचार्याणां भवन्त्य एव रहस्यानि महात्मनाम तानि पुत्राय वा दद्युः शिष्यायानुगताय वा ॥ 6 ॥
स शिल्पं पराप्य तत सर्वं स विशेषं च संजय शूरः शारद्वती पुत्रः संख्ये दरॊणाद अनन्तरः ॥ 7 ॥
रामस्यानुमतः शास्त्रे पुरंदरसमॊ युधि कार्तवीर्य समॊ वीर्ये बृहस्पतिसमॊ मतौ ॥ 8 ॥
महीधर समॊ धृत्या तेजसाग्निसमॊ युवा समुद्र इव गाम्भीर्ये करॊधे सर्वविषॊपमः ॥ 9 ॥
स रथी परथमॊ लॊके दृढधन्वा जितक्लमः शीघ्रॊ ऽनिल इवाक्रन्दे चरन करुद्ध इवान्तकः ॥ 10 ॥
अस्यता येन संग्रामे धरण्यभिनिपीडिता यॊ न वयथति संग्रामे वीरः सत्यपराक्रमः ॥ 11 ॥
वेद सनातॊ वरतस्नातॊ धनुर्वेदे च पारगः महॊदधिर इवाक्षॊभ्यॊ रामॊ दाशरथिर यथा ॥ 12 ॥
तम अधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संयुगे शरुत्वा निहतम आचार्यम अश्वत्थामा किम अब्रवीत ॥ 13 ॥
धृष्टद्युम्नस्य यॊ मृत्युः सृष्टस तेन महात्मना यथा दरॊणस्य पाञ्चाल्यॊ यज्ञसेन सुतॊ ऽभवत ॥ 14 ॥
तं नृशंसेन पापेन करूरेणात्यल्प दर्शिना शरुत्वा निहतम आचार्यम अश्वत्थामा किम अब्रवीत ॥ 15 ॥
[स] छद्मना निहतं शरुत्वा पितरं पप कर्मणा बाष्पेणापूर्यत दरौणी रॊषेण च नरर्षभ ॥ 16 ॥
तस्य करुद्धस्य राजेन्द्र वपुर दिव्यम अदृश्यत अन्तकस्येव भूतानि जिहीर्षॊः कालपर्यये ॥ 17 ॥
अश्रुपूर्णे ततॊ नेत्रे अपमृज्य पुनः पुनः उवाच कॊपान निःश्वस्य दुर्यॊधनम इदं वचः ॥ 18 ॥
पिता मम यथा कषुद्रौर नयस्तशस्त्रॊ निपातितः धर्मध्वजवता पापं कृतं तद विदितं मम अनार्यं सुनृशंसस्य धर्मपुत्रस्य मे शरुतम ॥ 19 ॥
युद्धेष्व अपि परवृत्तानां धरुवौ जयपराजयौ दवयम एतद भवेद राजन वधस तत्र परशस्यते ॥ 20 ॥
नयायवृत्तॊ वधॊ यस तु संग्रामे युध्यतॊ भवेत न स दुःखाय भवति तथा दृष्टॊ हि स दविजः ॥ 21 ॥
गतः स वीरलॊकाय पिता मम न संशयः न शॊच्यः पुरुषव्याघ्रस तथा स निधनं गतः ॥ 22 ॥
यत तु धर्मप्रवृत्तः सन केशग्रहणम आप्तवान पश्यतां सर्वसैन्यानां तन मे मर्माणि कृन्तति ॥ 23 ॥
कामात करॊधाद अवज्ञानाद दर्पाद बाल्येन वा पुनः वैधर्मिकानि कुर्वन्ति तथा परिभवेन च ॥ 24 ॥
तद इदं पार्षतेनेह महद आधर्मिकम कृतम अवज्ञाय च मां नूनं नृशंसेन दुरात्मना ॥ 25 ॥
तस्यानुबन्धं स दरष्टा धृष्टद्युम्नः सुदारुणम अनार्यं परमं कृत्वा मिथ्यावादी च पाण्डवः ॥ 26 ॥
यॊ हय असौ छद्मनाचार्यं शस्त्रं सन्यासयत तदा तस्याद्य धर्मराजस्य भूमिः पास्यति शॊणितम ॥ 27 ॥
सर्वॊपायैर यतिष्यामि पाञ्चालानाम अहं वधे धृष्टद्युम्ने च समरे हन्ताहं पापकारिणम ॥ 28 ॥
कर्मणा येन तेनेह मृदुना दारुणेन वा पाञ्चालानां वधं कृत्वा शान्तिं लब्धास्मि कौरव ॥ 29 ॥
यदर्थं पुरुषव्याघ्र पुत्रम इच्छन्ति मानवाः परेत्य चेह च संप्राप्तं तराणाय महतॊ भयात ॥ 30 ॥
पित्रा तु मम सावस्था पराप्ता निर्बन्धुना यथा मयि शैलप्रतीकाशे पुत्र शिष्ये च जीवति ॥ 31 ॥
धिन ममास्त्राणि दिव्यानि धिग बाहू धिक पराक्रमम यन मां दरॊणः सुतं पराप्य केशग्रहणम आप्तवान ॥ 32 ॥
स तथाहं करिष्यामि यथा भरतसत्तम परलॊकगतस्यापि गमिष्याम्य अनृणः पितुः ॥ 33 ॥
आर्येण तु न वक्तव्या कदा चित सतुतिर आत्मनः पितुर वधम अमृष्यंस तु वक्ष्याम्य अद्येह पौरुषम ॥ 34 ॥
अद्य पश्यन्तु मे वीर्यं पाण्डवाः सजनार्दनाः मृद्नतः सर्वसैन्यानि युगान्तम इव कुर्वतः ॥ 35 ॥
न हि देवा न गन्धर्वा नासुरा न च राक्षसाः अद्य शक्ता रणे जेतुं रथस्थं मां नरर्षभ ॥ 36 ॥
मद अन्यॊ नास्ति लॊके ऽसमिन्न अर्जुनाद वास्त्रवित्तमः अहं हि जवलतां मध्ये मयूधानाम इवांशुमान परयॊक्ता देव सृष्टानाम अस्त्राणां पृतना गतः ॥ 37 ॥
कृशाश्वतनया हय अद्य मत परयुक्ता महामृधे दर्शयन्तॊ ऽऽतमनॊ वीर्यं परमथिष्यन्ति पाण्डवान ॥ 38 ॥
अद्य सर्वा दिशॊ राजन धाराभिर इव संकुलाः आवृताः पत्रिभिस तीक्ष्णैर दरष्टारॊ मामकैर इह ॥ 39 ॥
किरन हि शरजालानि सर्वतॊ भैरव सवरम शत्रून निपातयिष्यामि महावात इव दरुमान ॥ 40 ॥
न च जानाति बीभत्सुस तद अस्त्रं न जनार्दनः न भीमसेनॊ न यमौ न च राजा युधिष्ठिरः ॥ 41 ॥
न पार्षतॊ दुर्तामासौ न शिखण्डी न सात्यकिः यद इदं मयि कौरव्य स कल्यं स निवर्तनम ॥ 42 ॥
नारायणाय मे पित्रा परणम्य विधिपूर्वकम उपहारः पुरा दत्तॊ बरह्मरूप उपस्थिते ॥ 43 ॥
तं सवयं परतिगृह्याथ भगवान स वरं ददौ वव्रे पिता मे परमम अस्त्रं नारायणं ततः ॥ 44 ॥
अथैनम अब्रवीद राजन भगवान देव सत्तमः भविता तवत्समॊ नान्यः कश चिद युधि नरः कव चित ॥ 45 ॥
न तव इदं सहसा बरह्मन परयॊक्तव्यं कथं चन न हय एतद अस्त्रम अन्यत्र वधाच छत्रॊर निवर्तते ॥ 46 ॥
न चैतच छक्यते जञातुं कॊ न वध्येद इति परभॊ अवध्यम अपि हन्याद धि तस्मान नैतत परयॊजयेत ॥ 47 ॥
वधः संख्ये दरवश चैव शस्त्राणां च विसर्जनम परयाचनं च शत्रूणां गमनं शरणस्य च ॥ 48 ॥
एते परशमने यॊगा महास्त्रस्य परंतप सर्वथा पीडितॊ हि सयाद अवध्यान पीडयन रणे ॥ 49 ॥
तज जग्राह पिता मह्यम अब्रवीच चैव स परभुः तवं वर्षिष्यसि दिव्यानि शस्त्रवर्षाण्य अनेकशः अनेनास्त्रेण संग्रामे तेजसा च जवलिष्यसि ॥ 50 ॥
एवम उक्त्वा स भगवान दिवम आचक्रमे परभुः एतन नारायणाद अस्त्रं तत पराप्तं मम बन्धुना ॥ 51 ॥
तेनाहं पाण्डवांश चैव पाञ्चालान मत्स्यकेकयान विद्रावयिष्यामि रणे शचीपतिर इवासुरान ॥ 52 ॥
यथा यथाहम इच्छेयं तथा भूत्वा शरा मम निपतेयुः सपत्नेषु विक्रमत्स्व अपि भारत ॥ 53 ॥
यथेष्टम अश्ववर्षेण परवर्षिष्ये रणे सथितः अयॊमुखैश च विहगैर दरावयिष्ये महारथान परश्वधांश च विविधान परसक्ष्ये ऽहम असंशयम ॥ 54 ॥
सॊऽहं नारायणास्त्रेण महता शत्रुतापन शत्रून विध्वंसयिष्यामि कदर्थी कृत्यपाण्डवान ॥ 55 ॥
मित्र बरह्म गुरु दवेषी जाल्मकः सुविगर्हितः पाञ्चालापसदश चाद्य न मे जीवन विमॊक्ष्यते ॥ 56 ॥
तच छरुत्वा दरॊणपुत्रस्य पर्यवर्तत वाहिनी ततः सर्वे महाशङ्खान दध्मुः पुरुषसत्तमाः ॥ 57 ॥
भेरीश चाभ्यहनन हृष्टा दिण्डिमांश च सहस्रशः तथा ननाद वसुधा खुरनेमिप्रपीडिता स शब्दस तुमुलः खं दयां पृथिवीं च वयनादयत ॥ 58 ॥
तं शब्दं पाण्डवाः शरुत्वा पर्जन्यनिनदॊपमम समेत्य रथिनां शरेष्ठाः सहिताः संन्यमन्त्रयन ॥ 59 ॥
तथॊक्त्वा दरॊणपुत्रॊ ऽपि तथॊपस्पृश्य भारत परादुश्चकार तद दिव्यम अस्त्रं नारायणं तदा ॥ 60 ॥
द्रोणपर्व · Drona Parva
अध्याय 166
Reach this point to mark the section finished.
Continue to अध्याय 167