धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 165

  1. [स] करूरम आयॊधनं जज्ञे तस्मिन राजसमागमे रुद्रस्येव हि करुद्धस्य निघ्नतस तु पशून यथा ॥ 1 ॥

  2. हस्तानाम उत्तमाङ्गानां कार्मुकाणां च भारत छत्राणां चापविद्धानां चामराणां च संयुगे ॥ 2 ॥

  3. भग्नचक्रै रथैश चापि पातितैश च महाध्वजैः सादिभिश च हतैः शूरैः संकीर्णा वसुधाभवत ॥ 3 ॥

  4. बाणपात निकृत्तास तु यॊधास ते कुरुसत्तम चेष्टन्तॊ विविधाश चेष्टा वयदृश्यन्त महाहवे ॥ 4 ॥

  5. वर्तमाने तथा युद्धे घॊरे देवासुरॊपमे अब्रवीत कषत्रियांस तत्र धर्मराजॊ युधिष्ठिरः अभिद्रवत संयत्ताः कुम्भयॊनिं महारथाः ॥ 5 ॥

  6. एष वै पार्षतॊ वीरॊ भारद्वाजेन संगतः घटते च यथाशक्ति भारद्वाजस्य नाशने ॥ 6 ॥

  7. यादृशानि हि रूपाणि दृश्यन्ते नॊ महारणे अद्य दरॊणं रणे करुद्धः पातयिष्यति पार्षतः ते यूयं सहिता भूत्वा कुम्भयॊनिं परीप्सत ॥ 7 ॥

  8. युधिष्ठिर समाज्ञप्ताः सृञ्जयानां महारथाः अभ्यद्रवन्त संयत्ता भारद्वाजं जिघांसवः ॥ 8 ॥

  9. तान समापततः सर्वान भारद्वाजॊ महारथः अभ्यद्रवत वेगेन मर्तव्यम इति निश्चितः ॥ 9 ॥

  10. परयाते सत्यसंधे तु समकम्पत मेदिनी ववुर वाताः स निर्घातास तरासयन्ति वरूथिनीम ॥ 10 ॥

  11. पपात महती चॊल्का आदित्यान निर्गतेव ह दीपयन्तीव तापेन शंसन्तीव महद भयम ॥ 11 ॥

  12. जज्वलुश चैव शस्त्राणि भारद्वाजस्य मारिष रथाः सवनन्ति चात्यर्थं हयाश चाश्रूण्य अवासृजन ॥ 12 ॥

  13. हतौजा इव चाप्य आसीद भारद्वाजॊ महारथः ऋषीणां बरह्मवादानां सवर्गस्य गमनं परति सुयुद्धेन ततः पराणान उत्स्रष्टुम उपचक्रमे ॥ 13 ॥

  14. ततश चतुर्दिशं सैन्यैर दरुपदस्याभिसंवृतः निर्दहन कषत्रिय वरातान दरॊणः पर्यचरद रणे ॥ 14 ॥

  15. हत्वा विंशतिसाहस्रान कषत्रियान अरिमर्दनः दशायुतानि तीक्ष्णाग्रैर अवधीद विशिखैः शितैः ॥ 15 ॥

  16. सॊ ऽतिष्ठद आहवे यत्तॊ विधूम इव पावकः कषत्रियाणाम अभावाय बराह्मम आत्मानम आस्थितः ॥ 16 ॥

  17. पाञ्चाल्यं विरथं भीमॊ हतसर्वायुधं वशी अविषण्णं महात्मानं तवरमाणः समभ्ययात ॥ 17 ॥

  18. ततः सवरथम आरॊप्य पाञ्चाल्यम अरिमर्दनः अब्रवीद अभिसंप्रेक्ष्य दरॊणम अस्यन्तम अन्तिकात ॥ 18 ॥

  19. न तवदन्य इहाचार्यं यॊद्धुम उत्सहते पुमान तवरस्व पराग वधायैव तवयि भारः समाहितः ॥ 19 ॥

  20. स तथॊक्तॊ महाबाहुः सर्वभारसहं नवम अभिपत्याददे कषिप्रम आयुधप्रवरं दृढम ॥ 20 ॥

  21. संरब्धश चशरान अस्यन दरॊणं दुर्वारणं रणे विवारयिषुर आचार्यं शरवर्षैर अवाकिरत ॥ 21 ॥

  22. तौ नयवारयतां शरेष्ठौ संरब्धौ रणशॊभिनौ उदीरयेतां बराह्माणि दिव्यान्य अस्त्राण्य अनेकशः ॥ 22 ॥

  23. स महास्त्रैर महाराज दरॊणम आच्छादयद रणे निहत्य सर्वाण्य अस्त्राणि भारद्वाजस्य पार्षतः ॥ 23 ॥

  24. स वसातीञ शिबींश चैव बाह्लीकान कौरवान अपि रक्षिष्यमाणान संग्रामे दरॊणं वयधमद अच्युतः ॥ 24 ॥

  25. धृष्टद्युम्नस तदा राजन गभस्तिभिर इवांशुमान बभौ परच्छादयन नाशाः शरजालैः समन्ततः ॥ 25 ॥

  26. तस्य दरॊणॊ धनुश छित्त्वा विद्ध्वा चैनं शिलीमुखैः मर्माण्य अभ्यहनद भूयः स वयथां परमाम अगात ॥ 26 ॥

  27. ततॊ भीमॊ दृढक्रॊधॊ दरॊणस्याल्शिष्य तं रथम शनकैर इव राजेन्द्र दरॊणं वचनम अब्रवीत ॥ 27 ॥

  28. यदि नाम न युध्येरञ शिक्षिता बरह्म बन्धवः सवकर्मभिर असंतुष्टा न सम कषत्रं कषयं वरजेत ॥ 28 ॥

  29. अहिंसा सर्वभूतेषु धर्मं जयायस्तरं विदुः तस्य च बराह्मणॊ मूलं भवांश च बरह्मवित्तमः ॥ 29 ॥

  30. शवपाकवन मलेच्छ गणान हत्वा चान्यान पृथग्विधान अज्ञानान मूढवद बरह्मन पुत्रदारधनेप्सया ॥ 30 ॥

  31. एकस्यार्थे बहून हत्वा पुत्रस्याधर्मविद यथा सवकर्मस्थान विकर्मस्थॊ न वयपत्रपसे कथम ॥ 31 ॥

  32. स चाद्य पतितः शेते पृष्टेनावेदितस तव धर्मराजेन तद वाक्यं नातिशङ्कितुम अर्हसि ॥ 32 ॥

  33. एवम उक्तस ततॊ दरॊणॊ भीमेनॊत्सृज्य तद धनुः सर्वाण्य अस्त्राणि धर्मात्मा हातु कामॊ ऽभयभाषत कर्ण कर्ण महेष्वास कृप दुर्यॊधनेति च ॥ 33 ॥

  34. संग्रामे करियतां यत्नॊ बरवीम्य एष पुनः पुनः पाण्डवेभ्यः शिवं वॊ ऽसतु शस्त्रम अभ्युत्सृजाम्य अहम ॥ 34 ॥

  35. इति तत्र महाराज पराक्रॊशद दरौणिम एव च उत्सृज्य च रणे शस्त्रं रथॊपस्थे निवेश्य च अभयं सर्वभूतानां परददौ यॊगयुक्तवान ॥ 35 ॥

  36. तस्य तच छिद्रम आज्ञाय धृष्टद्युम्नः समुत्थितः खड्गी रथाद अवप्लुत्य सहसा दरॊणम अभ्ययात ॥ 36 ॥

  37. हाहाकृतानि भूतानि मानुषाणीतराणि च दरॊणं तथागतं दृष्ट्वा धृष्टद्युम्न वशंगतम ॥ 37 ॥

  38. हाहाकारं भृशं चक्रुर अहॊ धिग इति चाब्रुवन दरॊणॊ ऽपि शस्त्राण्य उत्सृज्य परमं साम्यम आस्थितः ॥ 38 ॥

  39. तथॊक्त्वा यॊगम आस्थाय जयॊतिर भूतॊ महातपाः दिवम आक्रामद आचार्यः सद्भिः सह दुराक्रमम ॥ 39 ॥

  40. दवौ सूर्याव इति नॊ बुद्धिर आसीत तस्मिंस तथागते एकाग्रम इव चासीद धि जयॊतिर्भिः पूरितं नभः समपद्यत चार्काभे भारद्वाज निशाकरे ॥ 40 ॥

  41. निमेष मात्रेण च तज जयॊतिर अन्तरधीयत आसीत किलकिला शब्दः परहृष्टानां दिवौकसाम बरह्मलॊकं गते दरॊणे धृष्टद्युम्ने च मॊहिते ॥ 41 ॥

  42. वयम एव तदाद्राक्ष्म पञ्च मानुषयॊनयः यॊगयुक्तं महात्मानं गच्छन्तं परमां गतिम ॥ 42 ॥

  43. अहं धनंजयः पार्थः कृपः शारद्वतॊ दविजः वासुदेवश च वार्ष्णेयॊ धर्मराजश च पाण्डवः ॥ 43 ॥

  44. अन्ये तु सर्वे नापश्यन भारद्वाजस्य धीमतः महिमानं महाराज यॊगमुक्तस्य गच्छतः ॥ 44 ॥

  45. गतिं परमिकां पराप्तम अजानन्तॊ नृयॊनयः नापश्यन गच्छमानं हि तं सार्धम ऋषिपुंगवैः आचार्यं यॊगम आस्थाय बरह्मलॊकम अरिंदमम ॥ 45 ॥

  46. वितुन्नाङ्गं शरशतैर नयस्तायुधम असृक कषरम धिक्कृतः पार्तषस तं तु सर्वभूतैः परामृशत ॥ 46 ॥

  47. तस्य मूर्धानम आलम्ब्य गतसत्त्वस्य देहिनः किं चिद अब्रुवतः कायाद विचकर्तासिना शिरः ॥ 47 ॥

  48. हर्षेण महता युक्तॊ भारद्वाजे निपातिते सिंहनाद रवं चक्रे भामयन खड्गम आहवे ॥ 48 ॥

  49. आकर्णपलितः शयामॊ वयसाशीति पञ्चकः तवत्कृते वयचरत संख्ये स तु षॊडद वर्षवत ॥ 49 ॥

  50. उक्तवांश च महाबाहुः कुन्तीपुत्रॊ धनंजयः जीवन्तम आनयाचार्यं मा वधीर दरुपदात्मजः ॥ 50 ॥

  51. न हन्तव्यॊ न हन्तव्य इति ते सैनिकाश च ह उत्क्रॊशन्न अर्जुनश चैव सानुक्रॊशस तम आद्रवत ॥ 51 ॥

  52. करॊशमाने ऽरजुने चैव पार्थिवेषु च सर्वशः धृष्टद्युम्नॊ ऽवधीद दरॊणं रथतल्पे नरर्षभम ॥ 52 ॥

  53. शॊणितेन परिक्लिन्नॊ रथाद भूमिम अरिंदमः लॊहिताङ्ग इवादित्यॊ दुर्दर्शः समपद्यत एवं तं निहतं संख्ये ददृशे सैनिकॊ जनः ॥ 53 ॥

  54. धेष्टद्युम्नस तु तद राजन भारद्वाज शिरॊमहत तावकानां महेष्वासः परमुखे तत समाक्षिपत ॥ 54 ॥

  55. ते तु दृष्ट्वा शिरॊ राजन भारद्वाजस्य तावकाः पलायनकृतॊत्साहा दुद्रुवुः सर्वतॊदिशम ॥ 55 ॥

  56. दरॊणस तु दिवम आस्थाय नक्षत्रपथम आविशत अहम एव तदाद्राक्षं दरॊणस्य निधनं नृप ॥ 56 ॥

  57. ऋषेः परसादात कृष्णस्य सत्यवत्याः सुतस्य च विधूमाम इव संयान्तीम उल्कां परज्वलिताम इव अपश्याम दिवं सतब्ध्वा गच्छन्तं तं महाद्युतिम ॥ 57 ॥

  58. हते दरॊणे निरुत्साहान कुरून पाण्डव सृञ्जयाः अभ्यद्रवन महावेगास ततः सैन्यं वयदीर्यत ॥ 58 ॥

  59. निहता हयभूयिष्ठाः संग्रामे निशितैः शरैः तावका निहते दरॊणे गतासव इवाभवन ॥ 59 ॥

  60. पराजयम अथावाप्य परत्र च महद भयम उभयेनैव ते हीना नाविन्दन धृतिम आत्मनः ॥ 60 ॥

  61. अन्विच्छन्तः शरीरं तु भारद्वाजस्य पार्थिवाः नाध्यगच्छंस तदा राजन कबन्धायुत संकुले ॥ 61 ॥

  62. पाण्डवास तु जयं लब्ध्वा परत्र च महद यशः बाणशब्दरवांश चक्रुः सिंहनादांश च पुष्कलान ॥ 62 ॥

  63. भीमसेनस ततॊ राजन धृष्टद्युम्नश च पार्षतः वरूथिन्याम अनृत्येतां परिष्वज्य परस्परम ॥ 63 ॥

  64. अब्रवीच च तदा भीमः पार्षतं शत्रुतापनम भूयॊ ऽहं तवां विजयिनं परिष्वक्ष्यामि पार्षत सूतपुत्रे हते पापे धार्तराष्ट्रे च संयुगे ॥ 64 ॥

  65. एतावद उक्त्वा भीमस तु हर्षेण महता युतः बाहुशब्देन पृथिवीं कम्पयाम आस पाण्डवः ॥ 65 ॥

  66. तस्य शब्देन वित्रस्ताः पराद्रवंस तावका युधि कषत्रधर्मं समुत्सृज्य पलायनपरायणाः ॥ 66 ॥

  67. पाण्डवास तु जयं लब्ध्वा हृष्टा हय आसन विशां पते अरिक्षयं च संग्रामे तेन ते सुखम आप्नुवन ॥ 67 ॥

  68. ततॊ दरॊणे हते राजन कुरवः शस्त्रपीडिताः हतप्रवीरा विध्वस्ता भृशं शॊकपरायणाः ॥ 68 ॥

  69. विचेतसॊ हतॊत्साहाः कश्मलाभिहतौजसः आर्तस्वरेण महता पुत्रं ते पर्यवारयन ॥ 69 ॥

  70. रजस्वला वेपमाना वीक्षमाणा दिशॊ दश अश्रुकण्ठा यथा दैत्या हिरण्याक्षे पुरा हते ॥ 70 ॥

  71. स तैः परिवृतॊ राजा तरस्तैः कषुद्रमृगैर इव अशक्नुवन्न अवस्थातुम अपायात तनयस तव ॥ 71 ॥

  72. कषुत्पिपासापरिश्रान्तास ते यॊधास तव भारत आदित्येन च संतप्ता भृशं विमनसॊ ऽभवन ॥ 72 ॥

  73. भास्करस्येव पतनं समुद्रस्येव शॊषणम विपर्यासं यथा मेरॊर वासवस्येव निर्जयम ॥ 73 ॥

  74. अमर्षणीयं तद दृष्ट्वा भारद्वाजस्य पातनम तरस्तरूपतरा राजन कौरवाः पराद्रवन भयात ॥ 74 ॥

  75. गान्धारराजः शकुनिस तरस्तस तरस्ततरैः सह हतं रुक्मरथं दृष्ट्वा पराद्रवत सहितॊ रथैः ॥ 75 ॥

  76. वरूथिनीं वेगवतीं विद्रुतां स पताकिनीम परिगृह्य महासेनां सूतपुत्रॊ ऽपयाद भयात ॥ 76 ॥

  77. रथनागाश्वकलिलां पुरस्कृत्य तु वाहिनीम मद्राणाम ईश्वरः शल्यॊ वीक्षमाणॊ ऽपयाद भयात ॥ 77 ॥

  78. हतप्रवीरैर भूयिष्ठं दविपैर बहु पदातिभिः वृतः शारद्वतॊ ऽगच्छत कष्टं कथम इति बरुवन ॥ 78 ॥

  79. भॊजानीकेन शिष्टेन कलिङ्गारट्ट बाह्लिकैः कृतवर्मा वृतॊ राजन परायान सुजवनैर हयैः ॥ 79 ॥

  80. पदातिगणसंयुक्तस तरस्तॊ राजन भयार्दितः उलूकः पराद्रवत तत्र दृष्ट्वा दरॊणं निपातितम ॥ 80 ॥

  81. दर्शनीयॊ युवा चैव शौर्ये च कृतलक्षणः दुःशासनॊ भृशॊद्विग्नः पराद्रवद गजसंवृतः ॥ 81 ॥

  82. गजाश्वरथसंयुक्तॊ वृतश चैव पदातिभिः दुर्यॊधनॊ महाराज परायात तत्र महारथः ॥ 82 ॥

  83. गजान रथान समारुह्य परस्यापि हयाञ जनाः परकीर्णकेशा विध्वस्ता न दवाव एकत्र धावतः ॥ 83 ॥

  84. नेदम अस्तीति पुरुषा हतॊत्साहा हतौजसः उत्सृज्य कवचान अन्ये पराद्रवंस तावका विभॊ ॥ 84 ॥

  85. अन्यॊन्यं ते समाक्रॊशन सैनिका भरतर्षभ तिष्ठ तिष्ठेति न च ते सवयं तत्रावतस्थिरे ॥ 85 ॥

  86. धुर्यान परमुच्य तु रथाद धतसूतान सवलंकृतान अधिरुह्य हयान यॊधाः कषिप्रं पद्भिर अचॊदयन ॥ 86 ॥

  87. दरवमाणे तथा सैन्ये तरस्तरूपे हतौजसि परतिस्रॊत इव गराहॊ दरॊणपुत्रः परान इयात ॥ 87 ॥

  88. हत्वा बहुविधां सेनां पाण्डूनां युद्धदुर्मदः कथं चित संकटान मुक्तॊ मत्तद्विरदविक्रमः ॥ 88 ॥

  89. दरवमाणं बलं दृष्ट्वा पलायनकृतक्षणम दुर्यॊधनं समासाद्य दरॊणपुत्रॊ ऽबरवीद इदम ॥ 89 ॥

  90. किम इयं दरवते सेना तरस्तरूपेव भारत दरवमाणां च राजेन्द्र नावस्थापयसे रणे ॥ 90 ॥

  91. तवं चापि न यथा पूर्वं परकृतिस्थॊ नराधिप कर्णप्रभृतयश चेमे नावतिष्ठन्ति पार्थिवाः ॥ 91 ॥

  92. अन्येष्व अपि च युद्धेषु नैव सेनाद्रवत तदा कच चित कषेमं महाबाहॊ तव सैन्यस्य भारत ॥ 92 ॥

  93. कस्मिन्न इदं हते राजन रथसिंहे बलं तव एताम अवस्थां संप्राप्तं तन ममाचक्ष्व कौरव ॥ 93 ॥

  94. तत तु दुर्यॊधनः शरुत्वा दरॊणपुत्रस्य भाषितम घॊरम अप्रियम आख्यातुं नाशकत पार्थिवर्षभः ॥ 94 ॥

  95. भिन्ना नौर इव ते पुत्रॊ निमग्नः शॊकसागरे बाष्पेण पिहितॊ दृष्ट्वा दरॊणपुत्रं रथे सथितम ॥ 95 ॥

  96. ततः शारद्वतं राजा सव्रीडम इदम अब्रवीत शंसेह सर्वं भद्रं ते यथा सैन्यम इदं दरुतम ॥ 96 ॥

  97. अतः शारद्वतॊ राजन्न आर्तिं गच्छन पुनः पुनः शशंस दरॊणपुत्राय यथा दरॊणॊ निपातितः ॥ 97 ॥

  98. [कृप] वयं दरॊणं पुरस्कृत्य पृथिव्यां परवरं रथम परावर्तयाम संग्रामं पाञ्चालैर एव केवलैः ॥ 98 ॥

  99. ततः परवृत्ते संग्रामे विमिश्राः कुरु सॊमकाः अन्यॊन्यम अभिगर्जन्तः शस्त्रैर देहान अपातयन ॥ 99 ॥

  100. ततॊ दरॊणॊ बराह्मम अस्त्रं विकुर्वाणॊ नरर्षभः अहनच छात्रवान भल्लैः शतशॊ ऽथ सहस्रशः ॥ 100 ॥

  101. पाण्डवाः केकया मत्स्याः पाञ्चालाश च विशेषतः संख्ये दरॊण रथं पराप्य वयनशन कालचॊदिताः ॥ 101 ॥

  102. सहस्रं रथसिंहानां दविसाहस्रं च दन्तिनाम दरॊणॊ बरह्मास्त्र निर्दग्धं परेषयाम आस मृत्यवे ॥ 102 ॥

  103. आकर्णपलितः शयामॊ वयसाशीति पञ्चकः रणे पर्यचरद दरॊणॊ वृद्धः षॊडशवर्षवत ॥ 103 ॥

  104. कलिश्यमानेषु सैन्येषु वध्यमानेषु राजसु अमर्षवशम आपन्नाः पाञ्चाला विमुखाभवन ॥ 104 ॥

  105. तेषु किं चित परभग्नेषु विमुखेषु सपत्नजित दिव्यम अस्त्रं विकुर्वाणॊ बभूवार्क इवॊदितः ॥ 105 ॥

  106. स मध्यं पराप्य पाण्डूनां शररश्मिः परतापवान मध्यं गत इवादित्यॊ दुष्प्रेक्ष्यस ते पिताभवत ॥ 106 ॥

  107. ते दह्यमाना दरॊणेन सूर्येणेव विराजता दग्धवीर्या निरुत्साहा बभूवुर गतचेतसः ॥ 107 ॥

  108. तान दृष्ट्वा पीडितान बाणैर दरॊणेन मधुसूदनः जयैषी पाण्डुपुत्राणाम इदं वचनम अब्रवीत ॥ 108 ॥

  109. नैष जातु परैः शक्यॊ जेतुं शस्त्रभृतां वरः अपि वृत्रहणा संख्ये रथयूथप यूथपः ॥ 109 ॥

  110. ते यूयं धर्मम उत्सृज्य जयं रक्षत पाण्डवाः यथा वः संयुगे सर्वान न हन्याद रुक्मवाहनः ॥ 110 ॥

  111. अश्वत्थाम्नि हते नैष युध्येद इति मतिर मम हतं तं संयुगे कश चिद आख्यात्व अस्मै मृषा नरः ॥ 111 ॥

  112. एतन नारॊचयद वाक्यं कुन्तीपुत्रॊ धनंजयः अरॊचयंस तु सर्वे ऽनये कृच्छ्रेण तु युधिष्ठिरः ॥ 112 ॥

  113. भीमसेनस तु सव्रीडम अब्रवीत पितरं तव अश्वत्थामा हत इति तच चाबुध्यत ते पिता ॥ 113 ॥

  114. स शङ्कमानस तन मिथ्या धर्मराजम अपृच्छत हतं वाप्य अहतं वाजौ तवां पिता पुत्रवत्सलः ॥ 114 ॥

  115. तद अतथ्य भये मग्नॊ जये सक्तॊ युधिष्ठिरः अश्वत्थामानम आहेदं हतः कुञ्जर इत्य उत भीमेन गिरिवर्ष्माणं मालवस्येन्द्र वर्मणः ॥ 115 ॥

  116. उपसृत्य तदा दरॊणम उच्चैर इदम अभाषत यस्यार्थे शस्त्रम आधत्से यम अवेक्ष्य च जीवसि पुत्रस ते दयितॊ नित्यं शॊ ऽशवत्थामा निपातितः ॥ 116 ॥

  117. तच छरुत्ता विमनास तत्र आचार्यॊ महद अप्रियम नियम्य दिव्यान्य अस्त्राणि नायुध्यत यथा पुरा ॥ 117 ॥

  118. तं दृष्ट्वा परमॊद्विग्नं शॊकॊपहतचेतसम पाञ्चालराजस्य सुतः करूरकर्मा समाद्रवत ॥ 118 ॥

  119. तं दृष्ट्वा विहितं मृत्युं लॊकतत्त्वविचक्षणः दिव्यान्य अस्त्राण्य अथॊत्सृज्य रणे पराय उपाविशत ॥ 119 ॥

  120. ततॊ ऽसय केशान सव्येन गृहीत्वा पाणिना तदा पार्षतः करॊशमानानां वीराणाम अच्छिनच छिरः ॥ 120 ॥

  121. न हन्तव्यॊ न हन्तव्य इति ते सर्वतॊ ऽबरुवन तथैव चार्जुनॊ वाहाद अवरुह्यैनम आद्रवत ॥ 121 ॥

  122. उद्यम्य बाहू तवरितॊ बरुवाणश च पुनः पुनः जीवन्तम आनयाचार्यं मा वधीर इति धर्मवित ॥ 122 ॥

  123. तथापि वार्यमाणेन कौरवैर अर्जुनेन च हत एव नृशंसेन पिता तव नरर्षभ ॥ 123 ॥

  124. सैनिकाश च ततः सर्वे पराद्रवन्त भयार्दिताः वयं चापि निरुत्साहा हते पितरि ते ऽनघ ॥ 124 ॥

  125. [स] तच छरुत्वा दरॊणपुत्रस तु निधनं पितुर आहवे करॊधम आहारयत तीव्रं पदाहत इवॊरगः ॥ 125 ॥

Reach this point to mark the section finished.

Continue to अध्याय 166

Previous: अध्याय 164