[स] तस्मिंस तथा वर्तमाने नराश्वगजसंक्षये दुःशासनॊ महाराज धृष्टद्युम्नम अयॊधयत ॥ 1 ॥
स तु रुक्मरथासक्तॊ दुःशासन शरार्दितः अमर्षात तव पुत्रस्य शरैर वाहान अवाकिरत ॥ 2 ॥
कषणेन स रथस तस्य स धवजः सह सारथिः नादृश्यत महाराज पार्षतस्य शरैश चितः ॥ 3 ॥
दुःशासनस तु राजेन्द्र पाञ्चाल्यस्य महात्मनः नाशकत परमुखे सथातुं शरजालप्रपीडितः ॥ 4 ॥
स तु दुःशासनं बाणैर विमुखीकृत्य पार्षतः किरञ शरसहस्राणि दरॊणम एवाभ्ययाद रणे ॥ 5 ॥
परत्यपद्यत हार्दिक्यः कृतवर्मा तदन्तरम सॊदर्याणां तरयश चैव त एनं पर्यवारयन ॥ 6 ॥
तं यमौ पृष्ठतॊ ऽनवैतां रक्षन्तौ पुरुषर्षभौ दरॊणायाभिमुखं यान्तं दीप्यमानम इवानलम ॥ 7 ॥
संप्रहारम अकुर्वंस ते सर्वे सप्त महारथाः अमर्षिताः सत्त्ववन्तः कृत्वा मरणम अग्रतः ॥ 8 ॥
शुद्धात्मानः शुद्धवृत्ता राजन सवर्गपुरस्कृताः आर्यं युद्धम अकुर्वन्त परस्परजिगीषवः ॥ 9 ॥
शुक्लाभिजन कर्माणॊ मतिमन्तॊ जनाधिपाः धर्मयुद्धम अयुध्यन्त परेक्षन्तॊ गतिम उत्तमाम ॥ 10 ॥
न तत्रासीद अधर्मिष्ठम अशस्त्रं युद्धम एव च नात्र कर्णी न नालीकॊ न लिप्तॊ न च वस्तकः ॥ 11 ॥
न सूची कपिशॊ नात्र न गवास्थिर गजास्थिकः इषुर आसीन न संश्लिष्टॊ न पूतिर न च जिह्मगः ॥ 12 ॥
ऋजून्य एव विशुद्धानि सर्वे शस्त्राण्य अधारयन सुयुद्धेन पराँल लॊकान ईप्सन्तः कीर्तिम एव च ॥ 13 ॥
तदासीत तुमुलं युद्धं सर्वदॊषविवर्जितम चतुर्णां तव यॊधानां तैस तरिभिः पाण्डवैः सह ॥ 14 ॥
धृष्टद्युम्नस तु तान हित्वा तव राजन रथर्षभान यमाभ्यां वारितान दृष्ट्वा शीघ्रास्त्रॊ दरॊणम अभ्ययात ॥ 15 ॥
निवारितास तु ते वीरास तयॊः पुरुषसिंहयॊः समसज्जन्त चत्वारॊ वाताः पर्वतयॊर इव ॥ 16 ॥
दवाभ्यां दवाभ्यां यमौ सार्धं रथाभ्यां रथपुंगवौ समासक्तौ ततॊ दरॊणं धृष्टद्युम्नॊ ऽभयवर्तत ॥ 17 ॥
दृष्ट्वा दरॊणाय पाञ्चाल्यं वरजन्तं युद्धदुर्मदम यमाभ्यां तांश च संसक्तांस तदन्तरम उपाद्रवत ॥ 18 ॥
दुर्यॊधनॊ महाराज किरञ शॊणितभॊजनान तं सात्यकिः शीघ्रतरं पुनर एवाभ्यवर्तत ॥ 19 ॥
तौ परस्परम आसाद्य समिप्पे कुरु माधवौ हसमानौ नृशार्दूलाव अभीतौ समगच्छताम ॥ 20 ॥
बाल्ये वृत्तानि सर्वाणि परीयमाणौ विचिन्त्य तौ अन्यॊन्यं परेक्षमाणौ च हसमानौ पुनः पुनः ॥ 21 ॥
अथ दुर्यॊधनॊ राजा सात्यकिं परत्यभाषत परियं सखायं सततं गर्हयन वृत्तम आत्मनः ॥ 22 ॥
धिक करॊधं धिक सखे लॊभं धिन मॊहं धिग अमर्षितम धिग अस्तु कषात्रम आचारं धिग अस्तु बलम औरसम ॥ 23 ॥
यत तवं माम अभिसंधत्से तवां चाहं शिनिपुंगव तवं हि पराणैः परियतरॊ ममाहं च सदा तव ॥ 24 ॥
समरामि तानि सर्वाणि बाल्ये वृत्तानि यानि नौ तानि सर्वाणि जीर्णानि सांप्रतं नौ रणाजिरे किम अन्यत करॊधलॊभाभ्यां युध्यामि तवाद्य सात्वत ॥ 25 ॥
तं तथा वादिनं राजन सात्यकिः परत्यभाषत परहसन विशिखांस तीक्ष्णान उद्यम्य परमास्त्रवित ॥ 26 ॥
नेयं सभा राजपुत्र न चाचार्य निवेशनम यत्र करीडितम अस्माभिस तदा राजन समागतैः ॥ 27 ॥
[दुर] कव सा करीडा गतास्माकं बाल्ये वै शिनिपुंगव कव च युद्धम इदं भूयः कालॊ हि दुरतिक्रमः ॥ 28 ॥
किं नु नॊ विद्यते कृत्यं धनेन धनलिप्सया यत्र युध्यामहे सर्वे धनलॊभात समागताः ॥ 29 ॥
[सम्जय] तं तथा वादिनं तत्र राजानं माधवॊ ऽबरवीत एवंवृत्थं सदा कषत्रं यद धन्तीह गुरून अपि ॥ 30 ॥
यदि ते ऽहं परियॊ राजञ जहि मां माचिरं कृथाः तवत्कृते सुकृताँल लॊकान गच्छेयं भरतर्षभ ॥ 31 ॥
या ते शक्तिर बलं चैव तत कषिप्रं मयि दर्शय नेच्छाम्य एतद अहं दरष्टुं मित्राणां वयसनं महत ॥ 32 ॥
इत्य एवं वयक्तम आभाष्य परतिभाष्य च सात्यकिः अभ्ययात तूर्णम अव्यग्रॊ निरपेक्षॊ विशां पते ॥ 33 ॥
तम आयान्तम अभिप्रेक्ष्य परत्यगृह्णात तवात्मजः शरैश चावाकिरद राजञ शैनेयं तनयस तव ॥ 34 ॥
ततः परववृते युद्धं कुरु माधव सिंहयॊः अन्यॊन्यं करुद्धयॊर घॊरं यथा दविरदसिंहयॊः ॥ 35 ॥
ततः पूर्णायतॊत्सृष्टैः सात्वतं युद्धदुर्मदम दुर्यॊधनः परत्यविध्यद दशभिर निशितैः शरैः ॥ 36 ॥
तं सात्यकिः परत्यविद्धत तथैव दशभिः शरैः पञ्चाशता पुनश चाजौ तरिंशता दशभिश च ह ॥ 37 ॥
तस्य संधधतश चेषून संहितेषुं च कार्मुकम अच्छिनत सात्यकिस तूर्णं शरैश चैवाभ्यवीवृषत ॥ 38 ॥
स गाढविद्धॊ वयथितः परत्यपायाद रथान्तरम दुर्यॊधनॊ महाराज दाशार्ह शरपीडितः ॥ 39 ॥
समाश्वस्य तु पुत्रस ते सात्यकिं पुनर अभ्ययात विसृजन्न इषुजालानि युयुधान रथं परथि ॥ 40 ॥
तथैव सात्यकिर बाणान दुर्यॊधन रथं परति परततं वयसृजद राजंस तत संकुलम अवर्तत ॥ 41 ॥
तत्रेषुभिः कषिप्यमाणैः पतद्भिश च समन्ततः अग्नेर इव महाकक्षे शब्दः समभवन महान ॥ 42 ॥
तत्राभ्यधिकम आलक्ष्य माधवं रथसत्तमम कषिप्रम अभ्यपतत कर्णः परीप्संस तनयं तव ॥ 43 ॥
न तु तं मर्षयाम आस भीमसेनॊ महाबलः अभ्ययात तवरितः कर्णं विसृजन सायकान बहून ॥ 44 ॥
तस्य कर्णः शितान बाणान परतिहन्य हसन्न इव धनुः शरांश च चिच्छेद सूतं चाभ्यहनच छरैः ॥ 45 ॥
भीमसेनस तु संक्रुद्धॊ गदाम आदाय पाण्डवः धवजं धनुश च सूतं च संममर्दाहवे रिपॊः ॥ 46 ॥
अमृष्यमाणः कर्णस तु भीमसेनम अयुध्यत विविधैर इषुजालैश च नानाशस्त्रैश च संयुगे ॥ 47 ॥
संकुले वर्तमाने तु राजा धर्मसुतॊ ऽबरवीत पाञ्चालानां नरव्याघ्रान मत्स्यानां च नरर्षभान ॥ 48 ॥
ये नः पराणाः शिरॊ ये नॊ ये नॊ यॊधा महाबलाः त एते धार्तराष्ट्रेषु विषक्ताः पुरुषर्षभाः ॥ 49 ॥
किं तिष्ठत यथा मूढाः सर्वे विगतचेतसः तत्र गच्छत यत्रैते युध्यन्ते मामका रथाः ॥ 50 ॥
कषत्रधर्मं पुरस्कृत्य सर्व एव गतज्वराः जयन्तॊ वध्यमाना वा गतिम इष्टां गमिष्यथ ॥ 51 ॥
जित्वा च बहुभिर यज्ञैर यक्ष्यध्वं भूरिदक्षिणैः हता वा देवसाद भूत्वा लॊकान पराप्स्यथ पुष्कलान ॥ 52 ॥
ते राज्ञा चॊदिता वीरा यॊत्स्यमाना महारथाः चतुर्धा वहिनीं कृत्वा तवरिता दरॊणम अभ्ययुः ॥ 53 ॥
पाञ्चालास तव एकतॊ दरॊणम अभ्यघ्नन बहुभिः शरैः भीमसेनपुरॊगाश च एकतः पर्यवारयन ॥ 54 ॥
आसंस तु पाण्डुपुत्राणां तरयॊ ऽजिह्मा महारथाः यमौ च भीमसेनश च पराक्रॊशन्त धनंजयम ॥ 55 ॥
अभिद्रवार्जुन कषिप्रं कुरून दरॊणाद अनानुद तत एनं हनिष्यन्ति पाञ्चाला हतरक्षिणम ॥ 56 ॥
कौरवेयांस ततः पार्थः सहसा समुपाद्रवत पाञ्चालान एव तु दरॊणॊ धृष्टद्युम्नपुरॊगमान ॥ 57 ॥
पाञ्चालानां ततॊ दरॊणॊ ऽपय अकरॊत कदनं महत यथा करुद्धॊ रणे शक्रॊ दानवानां कषयं पुरा ॥ 58 ॥
दरॊणास्त्रेण महाराज वध्यमानाः परे युधि नात्रसन्त रणे दरॊणात सत्त्ववन्तॊ महारथाः ॥ 59 ॥
वध्यमाना महाराज पाञ्चालाः सृञ्जयास तथा दरॊणम एवाभ्ययुर युद्धे मॊहयन्तॊ महारथम ॥ 60 ॥
तेषां तूत्साद्यमानानां पाञ्चालानां समन्ततः अभवद भैरवॊ नादॊ वध्यतां शरशक्तिभिः ॥ 61 ॥
वध्यमानेषु संग्रामे पाञ्चालेषु महात्मना उदीर्यमाणे दरॊणास्त्रे पाण्डवान भयम आविशत ॥ 62 ॥
दृष्ट्वाश्वनरसंघानां विपुलं च कषयं युधि पाण्डवेया महाराज नाशंसुर विजयं तदा ॥ 63 ॥
कच चिद दरॊणॊ न नः सर्वान कषपयेत परमास्त्रवित समिद्धः शिशिरापाये दहन कक्षम इवानलः ॥ 64 ॥
न चैनं संयुगे कश चित समर्थः परतिवीक्षितुम न चैनम अर्जुनॊ जातु परतियुध्येत धर्मवित ॥ 65 ॥
तरस्तान कुन्तीसुतान दृष्ट्वा दरॊण सायकपीडितान मतिमाञ शरेयसे युक्तः केशवॊ ऽरजुनम अब्रवीत ॥ 66 ॥
नैष युद्धेन संग्रामे जेतुं शक्यः कथं चन अपि वृत्रहणा युद्धे रथयूथप यूथपः ॥ 67 ॥
आस्थीयतां जये यॊगॊ धर्मम उत्सृज्य पाण्डव यथा वः संयुगे सर्वान न हन्याद रुक्मवाहनः ॥ 68 ॥
अश्वत्थाम्नि हते नैष युध्येद इति मतिर मम तं हतं संयुगे कश चिद अस्मै शंसतु मानवः ॥ 69 ॥
एतन नारॊचयद राजन कुन्तीपुत्रॊ धनंजयः अन्ये तव अरॊचयन सर्वे कृच्छ्रेण तु युधिष्ठिरः ॥ 70 ॥
ततॊ भीमॊ महाबाहुर अनीके सवे महागजम जघान गदया राजन्न अश्वत्थामानम इत्य उत ॥ 71 ॥
भीमसेनस तु सव्रीडम उपेत्य दरॊणम आहवे अश्वत्थामा हत इति शब्दम उच्चैश चकार ह ॥ 72 ॥
अश्वत्त्मामेति हि गजः खयातॊ नाम्ना हतॊ ऽभवत कृत्वा मनसि तं भीमॊ मिथ्या वयाहृतवांस तदा ॥ 73 ॥
भीमसेन वचः शरुत्वा दरॊणस तत्परमप्रियम मनसा सन्नगात्रॊ ऽभूद यथा सैकतम अम्भसि ॥ 74 ॥
शङ्कमानः स तन मिथ्या वीर्यज्ञः सवसुतस्य वै हतः स इति च शरुत्वा नैव धैर्याद अकम्पत ॥ 75 ॥
स लब्ध्वा चेतनां दरॊणः कषणेनैव समाश्वसत अनुचिन्त्यात्मनः पुत्रम अविषह्यम अरातिभिः ॥ 76 ॥
स पार्षतम अभिद्रुत्य जिघांसुर मृत्युम आत्मनः अवाकिरत सहस्रेण तीक्ष्णानां कङ्कपत्रिणाम ॥ 77 ॥
तं वै विंशतिसाहस्राः पाञ्चालानां नरर्षभाः तथा चरन्तं संग्रामे सर्वतॊ वयकिरच छरैः ॥ 78 ॥
ततः परादुष्करॊद दरॊणॊ बराह्मम अस्त्रं परंतपः वधाय तेषां शूराणां पाञ्चालानाम अमर्षितः ॥ 79 ॥
ततॊ वयरॊचत दरॊणॊ विनिघ्नन सर्वसॊमकान शिरांस्य अपातयच चापि पाञ्चालानां महामृधे तथैव परिघाकारान बाहून कनकभूषणान ॥ 80 ॥
ते वध्यमानाः समरे भारद्वाजेन पार्थिवाः मेदिन्याम अन्वकीर्यन्त वातनुन्ना इव दरुमाः ॥ 81 ॥
कुञ्जराणां च पततां हयौघानां च भारत अगम्यरूपा पृथिवी मांसशॊणितकर्दमा ॥ 82 ॥
हत्वा विंशतिसाहस्रान पाञ्चालानां रथव्रजान अतिष्ठद आहवे दरॊणॊ विधूमॊ ऽगनिर इव जवलन ॥ 83 ॥
तथैव च पुनः करुद्धॊ भारद्वाजः परतापवान वसु दानस्य भल्लेन शिरः कायाद अपाहरत ॥ 84 ॥
पुनः पञ्चशतान मस्त्यान षट सहस्रांश च सृञ्जयान हस्तिनाम अयुतं हत्वा जघानाश्वायुतं पुनः ॥ 85 ॥
कषत्रियाणाम अभावाय दृष्ट्वा दरॊणम अवस्थितम ऋषयॊ ऽभयागमंस तूर्णं हव्यवाहपुरॊगमाः ॥ 86 ॥
विश्वामित्रॊ जमदग्निर भारद्वाजॊ ऽथ गौतमः वसिष्ठः कश्यपॊ ऽतरिश च बरह्मलॊकं निनीषवः ॥ 87 ॥
सिकताः पृश्नयॊ गर्गा बालखिल्या मरीचिपाः भृगवॊ ऽङगिरसश चैव सूक्ष्माश चान्ये महर्षयः ॥ 88 ॥
त एनम अब्रुवन सर्वे दरॊणम आहवशॊभिनम अधर्मतः कृतं युद्धं समयॊ निधनस्य ते ॥ 89 ॥
नयस्यायुधं रणे दरॊण समेत्यास्मान अवस्थितान नातः करूरतरं कर्म पुनः कर्तुं तवम अर्हसि ॥ 90 ॥
वेदवेदाङ्गविदुषः सत्यधर्मपरस्य च बराह्मणस्य विशेषेण तवैतन नॊपपद्यते ॥ 91 ॥
नयस्यायुधम अमॊघेषॊ तिष्ठ वर्त्मनि शाश्वते परिपूर्णश च कालस ते वस्तुं लॊके ऽदय मानुषे ॥ 92 ॥
इति तेषां वचः शरुत्वा भीमसेन वचश च तत धृष्टद्युम्नं च संप्रेक्ष्य रणे स विमनाभवत ॥ 93 ॥
स दह्यमानॊ वयथितः कुन्तीपुत्रं युधिष्ठिरम अहतं वा हतं वेति पप्रच्छ सुतम आत्मनः ॥ 94 ॥
सथिरा बुद्धिर हि दरॊणस्य न पार्थॊ वक्ष्यते ऽनृतम तरयाणाम अपि लॊकानाम ऐश्वर्यार्थे कथं चन ॥ 95 ॥
तस्मात तं परिपप्रच्छ नान्यं कं चिद विशेषतः तस्मिंस तस्य हि सत्याशा बाल्यात परभृति पाण्डवे ॥ 96 ॥
ततॊ निष्पाण्डवाम उर्वीं करिष्यन्तं युधां पतिम दरॊणं जञात्वा धर्मराजं गॊविन्दॊ वयथितॊ ऽबरवीत ॥ 97 ॥
यद्य अर्धदिवसं दरॊणॊ युध्यते मन्युम आस्थितः सत्यं बरवीमि ते सेना विनाशं समुपैष्यति ॥ 98 ॥
स भवांस तरातुनॊ दरॊणात सत्याज जयायॊ ऽनृतं भवेत अनृतं जीवितस्यार्थे वचन न सपृश्यते ऽनृतैः ॥ 99 ॥
तयॊः संवदतॊर एवं भीमसेनॊ ऽबरवीद इदम शरुत्वैव तं महाराज वधॊपायं महात्मनः ॥ 100 ॥
गाहमानस्य ते सेनां मालवस्येन्द्र वर्मणः अश्वत्थामेति विख्यातॊ गजः शक्र गजॊपमः ॥ 101 ॥
निहतॊ युधि विक्रम्य ततॊ ऽहं दरॊणम अब्रुवम अश्वत्थामा हतॊ बरह्मन निवर्तस्वाहवाद इति ॥ 102 ॥
नूनं नाश्रद्दधद वाक्यम एष मे पुरुषर्षभः स तवं गॊविन्द वाक्यानि मानयस्व जयैषिणः ॥ 103 ॥
दरॊणाय निहतं शंस राजञ शारद्वती सुतम तवयॊक्तॊ नैष युध्येत जातु राजन दविजर्षभः सत्यवान हि नृलॊके ऽसमिन भवान खयातॊ जनाधिप ॥ 104 ॥
तस्य तद वचनं शरुत्वा कृष्ण वाक्यप्रचॊदितः भावित्वाच च महाराज वक्तुं समुपचक्रमे ॥ 105 ॥
तम अतथ्य भये मग्नॊ जये सक्तॊ युधिष्ठिरः अव्यक्तम अब्रवीद राजन हतः कुञ्जर इत्य उत ॥ 106 ॥
तस्य पूर्वं रथः पृथ्व्याश चतुरङ्गुल उत्तरः बभूवैवं तु तेनॊक्ते तस्य वाहास्पृशन महीम ॥ 107 ॥
युधिष्ठिरात तु तद वाक्यं शरुत्वा दरॊणॊ महारथः पुत्रव्यसनसंतप्तॊ निराशॊ जीविते ऽभवत ॥ 108 ॥
आगः कृतम इवात्मानं पाण्डवानां महात्मनाम ऋषिवाक्यं च मन्वानः शरुत्वा च निहतं सुतम ॥ 109 ॥
विचेताः परमॊद्विग्नॊ धृष्टद्युम्नम अवेक्ष्य च यॊद्धुं नाशक्नुवद राजन यथापूर्वम अरिंदम ॥ 110 ॥
तं दृष्ट्वा परमॊद्विग्नं शॊकॊपहतचेतसम पाञ्चालराजस्य सुतॊ धृष्टद्युम्नः समाद्रवत ॥ 111 ॥
य इष्ट्वा मनुजेन्द्रेण दरुपदेन महामखे लब्ध्वा दरॊण विनाशाय समिद्धाद धव्यवाहनात ॥ 112 ॥
सधनुर जैत्रम आदाय घॊरं जलदनिस्वनम दृढज्यम अजरं दिव्यं शरांश चाशीविषॊपमान ॥ 113 ॥
संदधे कार्मुके तस्मिञ शरम आशीविषॊपमम दरॊणं जिघांसुः पाञ्चाल्यॊ महाज्वालम इवानलम ॥ 114 ॥
तस्य रूपं शरस्यासीद धनुर्ज्या मण्डलान्तरे दयॊततॊ भास्करस्येव घनान्ते परिवेशिनः ॥ 115 ॥
पार्षतेन परामृष्टं जवलन्तम इव तद धनुः अन्तकालम इव पराप्तं मेनिरे वीक्ष्य सैनिकाः ॥ 116 ॥
तम इषुं संहितं तेन भारद्वाजः परतापवान दृष्ट्वामन्यत देहस्य कालपर्यायम आगतम ॥ 117 ॥
ततः स यत्नम आतिष्ठद आचार्यस तस्य वारणे न चास्यास्त्राणि राजेन्द्र परादुरासन महात्मनः ॥ 118 ॥
तस्य तव अहानि चत्वारि कषपा चैकास्यतॊ गता तस्य चाह्नस तरिभागेन कषयं जग्मुः पतत्रिणः ॥ 119 ॥
स शरक्षयम आसाद्य पुत्रशॊकेन चार्दितः विविधानां च दिव्यानाम अस्त्राणाम अप्रसन्नताम ॥ 120 ॥
उत्स्रष्टुकामः शस्त्राणि विप्रवाक्याभिचॊदितः तेजसा परेर्यमाणश च युयुधे सॊ ऽतिमानुषम ॥ 121 ॥
अथान्यत स समादाय दिव्यम आङ्गिरसं धनुः शरांश च शरवर्षेण महता समवाकिरत ॥ 122 ॥
ततस तं शरवर्षेण महता समवाकिरत वयशातयच च संक्रुद्धॊ धृष्टद्युम्नम अमर्षणः ॥ 123 ॥
तं शरं शतधा चास्य दरॊणश चिच्छेद सायकैः धवजं धनुश च निशितैः सारथिं चाप्य अपातयत ॥ 124 ॥
धृष्टद्युम्नः परहस्यान्यत पुनर आदाय कार्मुकम शितेन चैनं बाणेन परत्यविध्यत सतनान्तरे ॥ 125 ॥
सॊ ऽतिविद्धॊ महेष्वासः संभ्रान्त इव संयुगे भल्लेन शितधारेण चिच्छेदास्य महद धनुः ॥ 126 ॥
यच चास्य बाणं विकृतं धनूंषि च विशां पते सर्वं संछिद्य दुर्धर्षॊ गदां खड्गम अथापि च ॥ 127 ॥
धृष्टद्युम्नं ततॊ ऽविध्यन नवभिर निशितैः शरैः जीवितान्तकरैः करुद्धैः करुद्ध रूपं परंतपः ॥ 128 ॥
धृष्टद्युम्न रथस्याश्वान सवरथाश्वैर महारथः अमिश्रयद अमेयात्मा बराह्मम अस्त्रम उदीरयन ॥ 129 ॥
ते मिश्रा बह्व अशॊभन्त जवना वातरंहसः पारावत सवर्णाश च शॊणाश च भरतर्षभ ॥ 130 ॥
यथा स विद्युतॊ मेघा नदन्तॊ जललागमे तथा रेजुर महाराज मिश्रिता रणमूर्धनि ॥ 131 ॥
ईषा बन्धं चक्रबन्धं रथबन्धं तथैव च परणाशयद अमेयात्मा धृष्टद्युम्नस्य स दविजः ॥ 132 ॥
स छिन्नधन्वा विरथॊ हताश्वॊ हतसारथिः उत्तमाम आपदं पराप्य गदां वीरः परामृशत ॥ 133 ॥
ताम अस्य विशिखैस तीक्ष्णैः कषिप्यमाणां महारथः निजघान शरैर दरॊणः करुद्धः सत्यपराक्रमः ॥ 134 ॥
तां दृष्ट्वा तु नरव्याघ्रॊ दरॊणेन निहतां शरैः विमलं खड्गम आदत्त शतचन्द्रं च भानुमत ॥ 135 ॥
असंशयं तथा भूते पाञ्चाल्यः साध्व अमन्यत वधम आचार्य मुख्यस्य पराप्तकालं महात्मनः ॥ 136 ॥
ततः सवरथनीडस्थः सवरथस्य रथेषया अगच्छद असिम उद्यम्य शतचन्द्रं च भानुमत ॥ 137 ॥
चिकीर्षुर दुष्करं कर्म धृष्टद्युम्नॊ महारथः इयेष वक्षॊ भेत्तुं च भारद्वाजस्य संयुगे ॥ 138 ॥
सॊ ऽतिष्ठद युगमध्ये वै युगसंनहनेषु च शॊणानां जघनार्धेषु तत सैन्याः समपूजयन ॥ 139 ॥
तिष्ठतॊ युगपालीषु शॊणान अप्य अधितिष्ठतः नापश्यद अन्तरं दॊणस तद अद्भुतम इवाभवत ॥ 140 ॥
कषिप्रं शयेनस्य चरतॊ यथैवामिष गृद्धिनः तद्वद आसीद अभीसारॊ दरॊणं परार्थयतॊ रणे ॥ 141 ॥
तस्याश्वान रथशक्त्यासौ तदा करुद्धः पराक्रमी सर्वान एकैकशॊ दरॊणः कपॊताभान अजीघनत ॥ 142 ॥
ते हता नयपतन भूमौ धृष्टद्युम्नस्य वाजिनः शॊणाश च पर्यमुच्यन्त रथबन्धाद विशां पते ॥ 143 ॥
तान हयान निहतान दृष्ट्वा दविजाग्र्येण स पार्षतः नामृष्यत युधां शरेष्ठॊ याज्ञसेनिर महारथः ॥ 144 ॥
विरथः स गृहीत्वा तु खड्गं खड्गभृतां वरः दरॊणम अभ्यपतद राजन वैनतेय इवॊरगम ॥ 145 ॥
तस्य रूपं बभौ राजन भारद्वाजं जिघांसतः यथा रूपं परं विष्णॊर हिरण्यकशिपॊर वधे ॥ 146 ॥
सॊ ऽचिरद विविधान मार्गान परकारान एकविंशतिम भरान्तम उद्भ्रान्तम आविद्धम आप्लुतं परसृतं सृतम ॥ 147 ॥
परिवृत्तं निवृत्तंच खड्गं चर्म च धारयन संपातं समुदीर्णं च दर्शयाम आस पार्षतः ॥ 148 ॥
ततः शरसहस्रेण शतचन्द्रम अपातयत खड्गं चर्म च संबाधे धृष्टद्युम्नस्य स दविजः ॥ 149 ॥
ते तु वैतस्तिका नाम शरा हय आसन्न घातिनः निकृष्ट युद्धे दरॊणस्य नान्येषां सन्ति ते शराः ॥ 150 ॥
शारद्वतस्य पार्थस्य दरौणेर वैकर्तनस्य च परद्युम्न युयुधानाभ्याम अभिमन्यॊश च ते शराः ॥ 151 ॥
अथास्येषुं समाधत्त दृढं परमसंशितम अन्तेवासिनम आचार्यॊ जिघांसुः पुत्र संमितम ॥ 152 ॥
तं शरैर दशभिस तीक्ष्णैश चिच्छेद शिनिपुंगवः पश्यतस तव पुत्रस्य कर्णस्य च महात्मनः गरस्तम आचार्य मुख्येन धृट्षद्युम्नम अमॊचयत ॥ 153 ॥
चरन्तं रथमार्गेषु सात्यकिं सत्यविक्रमम दरॊणकर्णान्तर गतं कृपस्यापि च भारत अपश्येतां महात्मानौ विष्वक्सेन धनंजयौ ॥ 154 ॥
अपूजयेतां वार्ष्णेयं बरुवाणौ साधु साध्व इति दिव्यान्य अस्त्राणि सर्वेषां युधि निघ्नन्तम अच्युतम अभिपत्य ततः सेनां विष्वक्सेन धनंजयौ ॥ 155 ॥
धनंजयस ततः कृष्णम अब्रवीत पश्य केशव आचार्य वरमुख्यानां मध्ये करीडन मधूद्वहः ॥ 156 ॥
आनन्दयति मां भूयः सात्यकिः सत्यविक्रमः माद्रीपुत्रौ च भीमं च राजानं च युधिष्ठिरम ॥ 157 ॥
यच छिक्षयानुद्धतः सन रणे चरति सात्यकिः महारथान उपक्रीडन वृष्णीनां कीर्तिवर्धनः ॥ 158 ॥
तम एते परतिनन्दन्ति सिद्धाः सैन्याश च विस्मिताः अजय्यं समरे दृष्ट्वा साहु साध्व इति सात्वतम यॊधाश चॊभयतः सर्वे कर्मभिः समपूजयन ॥ 159 ॥
द्रोणपर्व · Drona Parva
अध्याय 164
Reach this point to mark the section finished.
Continue to अध्याय 165