धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 163

  1. [स] ततॊ दुःशासनः करुद्धः सहदेवम उपाद्रवत रथवेगेन तीव्रेण कम्पयन्न इव मेदिनीम ॥ 1 ॥

  2. तस्यापतत एवाशु भल्लेनामित्रकर्शनः माद्री सुतः शिरॊ यन्तुः स शिरस तराणम अच्छिनत ॥ 2 ॥

  3. नैनं दुःशासनः सूतं नापि कश चन सैनिकः हृतॊतमाग्नम आशुत्वात सहसेवेन बुद्धवान ॥ 3 ॥

  4. यदा तव अस्मगृहीतत्वात परयान्त्य अश्वा यथासुखम ततॊ दुःशासनः सूतं बुद्धवान गतचेतसम ॥ 4 ॥

  5. सहयान संनिगृह्याजौ सवयं हयविशारदः युयुधे रथिनां शरेष्ठश चित्रं लघु च सुष्ठु च ॥ 5 ॥

  6. तद अस्यापूजयन कर्म सवे परे चैव संयुगे हतसूत रथेनाजौ वयचरद यद अभीतवत ॥ 6 ॥

  7. सहदेवस तु तान अश्वांस तीक्ष्णैर बाणैर अवाकिरत पीड्यमानाः शरैश चाशु पराद्रवंस ते ततस ततः ॥ 7 ॥

  8. स रश्मिशु विषक्तत्वाद उत्ससर्ज शरासनम धनुषा कर्म कुर्वंस तु रश्मीन स पुनर उत्सृजत ॥ 8 ॥

  9. छिद्रेषु तेषु तं बाणैर माद्रीपुत्रॊ ऽभयवाकिरत परीप्संस तवत्सुतं कर्णस तदन्तरम अवापतत ॥ 9 ॥

  10. वृकॊदरॊ ऽतः कर्णं तरिभिर भल्लैः समाहितैः आकर्णपूर्णैर अभ्यघ्नन बाह्वॊर उरसि चानदत ॥ 10 ॥

  11. संन्यवर्तत तं कर्णः संघट्टित इवॊरगः तद अभूत तुमुलं युद्धं भीम राधेययॊर तदा ॥ 11 ॥

  12. तौ वृषाव इव संक्रुद्धौ विवृत्तनयनाव उभौ वेगेन महतान्यॊन्यं संरब्धाव अभिपेततुः ॥ 12 ॥

  13. अभिसंश्लिष्टयॊस तत्र तयॊर आहवशौण्डयॊः अभिन्न शरपातत्वाद गया युद्धम अवर्तत ॥ 13 ॥

  14. गदया भीमसेनस तु कर्णस्य रथकूबरम बिभेदाशु तदा राजंस तद अद्भुतम इवाभवत ॥ 14 ॥

  15. ततॊ भीमस्य राधेयॊ गदाम आदाय वीर्यवान अवासृजद रथे तां तु बिभेद गदया गदाम ॥ 15 ॥

  16. ततॊ भीमः पुनर गुर्वीं चिक्षेपाधिरथेर गदाम तां शरैर दशभिः कर्णः सुपुङ्खैः सुसमाहितैः परत्यविध्यत पुनश चान्यैः सा भीमं पुनर आव्रजत ॥ 16 ॥

  17. तस्याः परतिनिपातेन भीमस्य विपुलॊ धवजः पपात सारथिश चास्य मुमॊह गदया हतः ॥ 17 ॥

  18. स कर्णे सायकान अष्टौ वयसृजत करॊधमूर्छितः धवजे शरासने चैव शरावापे च भारत ॥ 18 ॥

  19. ततः पुनस तु राधेयॊ हयान अस्य रथेषुभिः ऋष्यवर्णाञ जघानाशु तथॊभौ पार्ष्णिसारथी ॥ 19 ॥

  20. स विपन्नरथॊ भीमॊ नकुलस्याप्लुतॊ रथम हरिर यथा गिरेः शृङ्गं समाक्रामद अरिंदमः ॥ 20 ॥

  21. तथा दरॊणार्जुनौ चित्रम अयुध्येतां महारथौ आचार्य शिष्यौ राजेन्द्र कृतप्रहरणौ युधि ॥ 21 ॥

  22. लघु संधानयॊगाभ्यां रथयॊश च रणेन च मॊहयन्तौ मनुष्याणां चक्षूंषि च मनांसि च ॥ 22 ॥

  23. उपारमन्त ते सर्वे यॊद्धा अस्माकं परे तथा अदृष्टपूर्वं पश्यन्तस तद युद्धं गुरु शिष्ययॊः ॥ 23 ॥

  24. विचित्रान पृतना मध्ये रथमार्गान उदीर्यतः अन्यॊन्यम अपसव्यं च कर्तुं वीरौ तदैषितः पराक्रमं तयॊर यॊधा ददृशुस तं सुविस्मिताः ॥ 24 ॥

  25. तयॊः समभवद युद्धं दरॊण पाण्डवयॊर महत आमिषार्थं महाराज गगने शयेनयॊर इव ॥ 25 ॥

  26. यद यच चकार दरॊणस तु कुन्तीपुत्र जिगीषया तत तत परतिजघानाशु परहसंस तस्य पाण्डवः ॥ 26 ॥

  27. यदा दरॊणॊ न शक्नॊति पाण्डवस्य विशेषणे ततः परादुश्चकारास्त्रम अस्त्रमार्ग विशारदः ॥ 27 ॥

  28. ऐन्द्रं पाशुपतं तवाष्ट्रं वायव्यम अथ वारुणम मुक्तं मुक्तं दरॊण चापात तज जघान धनंजयः ॥ 28 ॥

  29. अस्त्राण्य अस्त्रैर यदा तस्य विधिवद धन्ति पाण्डवः ततॊ ऽसत्रैः परमैर दिव्यैर दरॊणः पार्थम अवाकिरत ॥ 29 ॥

  30. यद यद अस्त्रं स पार्थाय परयुङ्क्ते विजिगीषया तस्यास्त्रस्य विघातार्थं तत तत स कुरुते ऽरजुनः ॥ 30 ॥

  31. स वध्यमानेष्व अस्त्रेषु दिव्येष्व अपि यथाविधि अर्जुनेनार्जुनं दरॊणॊ मनसैवाभ्यपूजयत ॥ 31 ॥

  32. मेने चात्मानम अधिकं पृथिव्याम अपि भारत तेन शिष्येण सर्वेभ्यः शस्त्रविद्भ्यः समन्ततः ॥ 32 ॥

  33. वार्यमाणस तु पार्थेन तथा मध्ये महात्मनाम यतमानॊ ऽरजुनं परीत्या परत्यवारयद उत्स्मयन ॥ 33 ॥

  34. ततॊ ऽनतरिक्षे देवाश च गन्धर्वाश च सहस्रशः ऋषयः सिद्धसंघाश च वयतिष्ठन्त दिदृक्षया ॥ 34 ॥

  35. तद अप्सरॊभिर आकीर्णं यक्षराक्षस संकुलम शरीमद आकाशम अभवद भूयॊ मेघाकुलं यथा ॥ 35 ॥

  36. तत्र समान्तर्हिता वाचॊ वयचरन्त पुनः पुनः दरॊणस्य सतवसंयुक्ताः पार्थस्य च महात्मनः विसृज्यमानेष्व अस्त्रेषु जवालयत्सु दिशॊ दश ॥ 36 ॥

  37. नैवेदं मानुषं युद्धं नासुरं न च राक्षसम न दैवं न च गान्धर्वं बराह्मं धरुवम इदं परम विचित्रम इदम आश्चर्यं न नॊ दृष्टं न च शरुतम ॥ 37 ॥

  38. अति पाण्डवम आचार्यॊ दरॊणं चाप्य अति पाण्डवः नानयॊर अन्तरं दरष्टुं शक्यम अस्त्रेण केन चित ॥ 38 ॥

  39. यदि रुद्रॊ दविधाकृत्ययुध्येतात्मानम आत्मना तत्र शक्यॊपमा कर्तुम अन्यत्र तु न विद्यते ॥ 39 ॥

  40. जञानम एकस्थम आचार्ये जञानं यॊगश च पाण्डवे शौर्यम एकस्थम आचार्ये बलं शौर्यं च पाण्डवे ॥ 40 ॥

  41. नेमौ शक्यौ महेष्वासौ रणे कषेपयितुं परैः इच्छमानौ पुनर इमौ हन्येतां सामरं जगत ॥ 41 ॥

  42. इत्य अब्रुवन महाराज दृष्ट्वा तौ पुरुषर्षभौ अन्तर्हितानि भूतानि परकाशानि च संघशः ॥ 42 ॥

  43. ततॊ दरॊणॊ बराह्मम अस्त्रं परादुश्चक्रे महामतिः संतापयन रणे पार्थं भूतान्य अन्तर्हितानि च ॥ 43 ॥

  44. ततश चचाल पृथिवी स पर्वत वनद्रुमा ववौ च विषमॊ वायुः सागराश चापि चुक्षुभुः ॥ 44 ॥

  45. ततस तरासॊ महान आसीत कुरुपाण्डवसेनयॊः सर्वेषां चैव भूतानाम उद्यते ऽसत्रे महात्मना ॥ 45 ॥

  46. ततः पार्थॊ ऽपय असंभ्रान्तस तद अस्त्रं परतिजघ्निवान बरह्मास्त्रेणैव राजेन्द्र ततः सर्वम अशीशमत ॥ 46 ॥

  47. यदा न गम्यते पारं तयॊर अन्यतरस्य वा ततः संकुलयुद्धेन तद युद्धं वयकुली कृतम ॥ 47 ॥

  48. नाज्ञायत ततः किं चित पुनर एव विशां पते परवृत्ते तुमुले युद्धे दरॊण पाण्डवयॊर मृधे ॥ 48 ॥

  49. शरजालैः समाकीर्णे मेघजालैर इवाम्बरे न सम संपतते कश चिद अन्तरिक्षचरस तदा ॥ 49 ॥

Reach this point to mark the section finished.

Continue to अध्याय 164

Previous: अध्याय 162