धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 162

  1. [स] ते तथैव महाराज दंशिता रणमूर्धनि संध्यागतं सहस्रांशुम आदित्यम उपतस्थिरे ॥ 1 ॥

  2. उदिते तु सहस्रांशौ तप्तकाञ्चनसप्रभे परकाशितेषु लॊकेषु पुनर युद्धम अवर्तत ॥ 2 ॥

  3. दवंद्वानि यानि तत्रासन संसक्तानि पुरॊदयात तान्य एवाभ्युदिते सूर्ये समसज्जन्त भारत ॥ 3 ॥

  4. रथैर हया हयैर नागाः पादाताश चापि कुञ्जरैः हया हयैः समाजग्मुः पादाताश च पदातिभिः संसक्ताश च वियुक्ताश च यॊधाः संन्यपतन रणे ॥ 4 ॥

  5. ते रात्रौ कृतकर्माणः शरान्ताः सूर्यस्य तेजसा कषुत्पिपासापरीताङ्गा विसंज्ञा बहवॊ ऽभवन ॥ 5 ॥

  6. शङ्खभेरि मृदङ्गानां कुञ्जराणां च गर्जताम विस्फारित विकृष्टानां कार्मुकाणां च कूजताम ॥ 6 ॥

  7. शब्दः समभवद राजन दिविस्पृग भरतर्षभ दरवतां च पदातीनां शस्त्राणां विनिपात्यताम ॥ 7 ॥

  8. हयानां हेषतां चैव रथानां च निवर्तताम करॊशतां गर्जतां चैव तदासीत तुमुलं महत ॥ 8 ॥

  9. विवृद्धस तुमुलः शब्दॊ दयाम अगच्छन महास्वनः नानायुध निकृत्तानां चेष्टताम आतुरः सवनः ॥ 9 ॥

  10. भूमाव अश्रूयत महांस तदासीत कृपणं महत पततां पतितानां च पत्त्यश्वरथहस्तिनाम ॥ 10 ॥

  11. तेषु सर्वेष्व अनीकेषु वयतिषक्तेष्व अनेकशः सवे सवाञ जघ्नुः परे सवांश च सवे परांश च परान परे ॥ 11 ॥

  12. वीरबाहुविसृष्टाश च यॊधेषु च गजेषु च असयः परत्यदृश्यन्त वाससां नेजनेष्व इव ॥ 12 ॥

  13. उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः स एव शब्दस तद रूपॊ वाससां निज्यताम इव ॥ 13 ॥

  14. अर्धासिभिस तथा खड्गैस तॊमरैः सपरश्वधैः निकृष्ट युद्धं संसक्तं महद आसीत सुदारुणम ॥ 14 ॥

  15. गजाश कायप्रभवां नरदेव परवाहिनीम शस्त्रमत्स्य सुसंपूर्णां मांसशॊणितकर्दमाम ॥ 15 ॥

  16. आर्तनादस्वनवतीं पताकावस्त्रफेनिलाम नदीं परावर्तयन वीराः परलॊकप्रवाहिनीम ॥ 16 ॥

  17. शरशक्त्यर्दिताः कलान्ता रात्रिमूढाल्प चेतसः विष्टभ्य सर्ग गात्राणि वयतिष्ठन गजवाजिनः संशुक्ष्क वदना वीराः शिरॊभिश चारुकुण्डलैः ॥ 17 ॥

  18. युद्धॊपकरणैश चान्यैर अत्र तत्र परकाशितैः करव्यादसंघैर आकीर्णं मृतैर अर्धमृतैर अपि नासीद रथपथस तत्र सर्वम आयॊधनं परति ॥ 18 ॥

  19. मज्जत्सु चक्रेषु रथान सत्त्वम आस्थाय वाजिनः कथं चिद अवहञ शरान्ता वेपमानाः शरार्दिताः कुलसत्त्वबलॊपेता वाजिनॊ वारणॊपमाः ॥ 19 ॥

  20. विह्वलं तत समुद्भ्रान्तं स भयं भारतातुरम बलम आसीत तदा सर्वम ऋते दरॊणार्जुनाव उभौ ॥ 20 ॥

  21. ताव एवास्तां निलयनं ताव आर्तायनम एव च ताव एवान्ये समासाद्य जग्मुर वैवस्तवक्षयम ॥ 21 ॥

  22. आविघ्नम अभवत सर्वं कौरवाणां महद बलम पाञ्चालानां च संसक्तं न पराज्ञायत किं चन ॥ 22 ॥

  23. अन्तकाक्रीड सदृशे भीरूणां भयवर्धने पृथिव्यां राजवंशानाम उत्थिते महति कषये ॥ 23 ॥

  24. न तत्र कर्णं न दरॊणं नार्जुनं न युधिष्ठिरम न भीमसेनं न यमौ न पाञ्चाल्यं न सात्यकिम ॥ 24 ॥

  25. न च दुःशासनं दरौणिं न दुर्यॊधन सौबलौ न कृपं मद्रराजं वा कृतवर्माणम एव च ॥ 25 ॥

  26. न चान्यान नैव चात्मानं न कषितिं न दिशस तथा पश्याम राजन संसक्तान सैन्येन रजसावृतान ॥ 26 ॥

  27. संभ्रान्ते तुमुले घॊरे रजॊ मेधे समुत्थिते दवितीयाम इव संप्राप्ताम अमन्यन्त निशां तदा ॥ 27 ॥

  28. न जञायन्ते कौरवेया न पाञ्चाला न पाण्डवाः न दिशॊ न दिवं नॊर्वीं न समं विषमं तथा ॥ 28 ॥

  29. हस्तसंस्पर्शम आपन्नान परान वाप्य अथ वा सवकान नयपातयंस तदा युद्धे नराः सम विजयैषिणः ॥ 29 ॥

  30. उद्धूतत्वात तु रजसः परसेकाच छॊणितस्य च परशशाम रजॊ भौमं शीघ्रत्वाद अनिलस्य च ॥ 30 ॥

  31. तत्र नागा हया यॊधा रथिनॊ ऽथ पदातयः पारिजात वनानीव वयरॊचन रुधिरॊक्षिताः ॥ 31 ॥

  32. ततॊ दुर्यॊधनः कर्णॊ दरॊणॊ दुःशासनस तथा पाण्डवैः समसज्जन्त चतुर्भिश चतुरॊ रथाः ॥ 32 ॥

  33. दुर्यॊधनः सह भरात्रा यमाभ्यां समसज्जत वृकॊदरेण राधेयॊ भारद्वाजेन चार्जुनः ॥ 33 ॥

  34. तद घॊरं महद आश्चर्यं सर्वे परैक्षन समन्ततः रथर्षभाणाम उग्राणां संनिपातम अमानुषम ॥ 34 ॥

  35. रथमार्गैर विचित्रैश च विचित्ररथसंकुलम अपश्यन रथिनॊ युद्धं विचित्रं चित्रयॊधिनाम ॥ 35 ॥

  36. यतमानाः पराक्रान्ताः परस्परजिगीषवः जीमूता इव घर्मान्ते शरवर्षैर अवाकिरन ॥ 36 ॥

  37. ते रथान सूर्यसंकाशान आस्थिताः पुरुषर्षभाः अशॊभन्त यथा मेघाः शारदाः समुपस्थिताः ॥ 37 ॥

  38. सपर्धिनस ते महेष्वासाः कृतयत्ना धनुर्धराः अभ्यगच्छंस तथान्यॊन्यं मत्ता गजवृषा इव ॥ 38 ॥

  39. न नूनं देहभेदॊ ऽसति काले तस्मिन समागते यत्र सर्वे न युगपद वयशीर्यन्त महारथाः ॥ 39 ॥

  40. बाहुभिश चरणैश छिन्नैः शिरॊभिश चारुकुण्डलैः कार्मुकैर विशिखैः परासैः खड्गैः परशु पट्टिशैः ॥ 40 ॥

  41. नालीकक्षुर नाराचैर नखरैः शक्तितॊमरैः अन्यैश च विविधाकारैर धौतैः परहरणॊत्तमैः ॥ 41 ॥

  42. चित्रैश च विविधाकारैः शरीरावरणैर अपि विचित्रैश च रथैर भग्नैर हतैश च गजवाजिभिः ॥ 42 ॥

  43. शून्यैश च नगराकारैर हतयॊधध्वजै रथैः अमनुष्यैर हयैर तरस्तैः कृष्यमाणैस ततस ततः ॥ 43 ॥

  44. वातायमानैर असकृद धतवीरैर अलंकृतैः वयजनैः कङ्कटैश चैव धवजैश च विनिपातितैः ॥ 44 ॥

  45. छत्रैर आभरणैर वस्त्रैर माल्यैश च सुसुगन्धिभिः हारैः किरीटैर मुकुटैर उष्णीषैः किङ्किणी गणैः ॥ 45 ॥

  46. उरस्यैर मणिभिर निष्कैश चूडामणिभिर एव च आसीद आयॊधनं तत्र नभस तारागणैर इव ॥ 46 ॥

  47. ततॊ दुर्यॊधनस्यासीन नकुलेन समागमः अमर्षितेन करुद्धस्य करुद्धेनामर्षितस्य च ॥ 47 ॥

  48. अपसव्यं चकाराथ माद्रीपुत्रस तवात्मजम किरञ शरशतैर हृष्टस तत्र नादॊ महान अभूत ॥ 48 ॥

  49. अपसव्यं कृतः संख्ये भरातृव्येनात्यमर्षिणा सॊ ऽमर्षितस तम अप्य आजौ परतिचक्रे ऽपसव्यतः ॥ 49 ॥

  50. ततः परतिचिकीर्षन्तम अपसव्यं तु ते सुतम नयवारयत तेजस्वी नकुलश चित्रमार्गवित ॥ 50 ॥

  51. सर्वतॊ विनिवार्यैनं शरजालेन पीडयन विमुखं नकुलश चक्रे तत सैन्याः समपूजयन ॥ 51 ॥

  52. तिष्ठ तिष्ठेति नकुलॊ बभाषे तनयं तव संस्मृत्य सर्वदुःखानि तव दुर्मन्त्रितेन च ॥ 52 ॥

Reach this point to mark the section finished.

Continue to अध्याय 163

Previous: अध्याय 161