धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 161

  1. [स] तरिभागमात्रशेषायां रात्र्यां युद्धम अवर्तत कुरूणां पाण्डवानां च संहृष्टानां विशां पते ॥ 1 ॥

  2. अथ चन्द्रप्रभां मुष्णन्न आदियस्य पुरःसरः अरुणॊ ऽभयुदयां चक्रे ताम्री कुर्वन्न इवाम्बरम ॥ 2 ॥

  3. ततॊ दवैधी कृते सैन्ये दरॊणः सॊमक पाण्डवान अभ्यद्रवत सपाञ्चालान दुर्यॊधन पुरॊगमः ॥ 3 ॥

  4. दवैधी भूतान कुरून दृष्ट्वा माधवॊ ऽरजुनम अब्रवीत सपत्नान सव्यतः कुर्मि सव्यसाचिन्न इमान कुरून ॥ 4 ॥

  5. स माधवम अनुज्ञाय कुरुष्वेति धनंजयः दरॊणकर्णौ महेष्वासौ सव्यतः पर्यवर्तत ॥ 5 ॥

  6. अभिप्रायं तु कृष्णस्य जञात्वा परपुरंजयः आजिशीर्ष गतं दृष्ट्वा भीमसेनं समासदत ॥ 6 ॥

  7. [भम] अर्जुनार्जुन बीभत्सॊ शृणु मे तत्त्वतॊ वचः यदर्थं कषत्रिया सूते तस्य कालॊ ऽयम आगतः ॥ 7 ॥

  8. अस्मिंश चेद आगतॊ काले शरेयॊ न परतिपत्स्यसे असंभावित रूपः सन्न आनृशंस्यं करिष्यसि ॥ 8 ॥

  9. सत्यश्री धर्मयशसां वीर्येणानृण्यम आप्नुहि भिन्ध्य अनीकं युधां शरेष्ठ सव्यसाचिन्न इमान कुरु ॥ 9 ॥

  10. [स] स सव्यसाची भीमेन चॊदितः केशवेन च कर्ण दरॊणाव अतिक्रम्य समन्तात पर्यवारयत ॥ 10 ॥

  11. तम आजिशीर्षम आयान्तं दहन्तं कषत्रियर्षभान पराक्रान्तं पराक्रम्य यतन्तः कषत्रियर्षभाः नाशक्नुवन वारयितुं वर्धमानम इवानलम ॥ 11 ॥

  12. अथ दुर्यॊधनः कर्णः शकुनिश चापि सौबलः अभ्यवर्षञ शरव्रातैः कुन्तीपुत्रं धनंजयम ॥ 12 ॥

  13. तेषाम अस्त्राणि सर्वेषाम उत्तमास्त्रविदां वरः कदर्थी कृत्यराजेन्द्र शरवर्षैर अवाकिरत ॥ 13 ॥

  14. अस्त्रैर अस्त्राणि संवार्य लघुहस्तॊ धनंजयः सर्वान अविध्यन निशितैर दशभिर दशभिः शरैः ॥ 14 ॥

  15. उद्धूता रजसॊ वृष्टिं शरवृष्टिस तथैव च तमश च घॊरं शब्दश च तदा समभवन महान ॥ 15 ॥

  16. न दयौर न भूमिर न दिशः पराज्ञायन्त तथागते सैन्येन रजसा मूढं सर्वम अन्धम इवाभवत ॥ 16 ॥

  17. नैव ते न वयं राजन परज्ञासिष्म परस्परम उद्देशेन हि तेन सम समयुध्यन्त पार्थिवाः ॥ 17 ॥

  18. विरथा रथिनॊ राजन समासाद्य परस्परम केषेशु समसज्जन्त कवचेषु भुजेषु च ॥ 18 ॥

  19. हताश्वा हतसूताश च निश्चेष्टा रथिनस तदा जीवन्त इव तत्र सम वयदृश्यन्त भयार्दिताः ॥ 19 ॥

  20. हतान गजान समाश्लिष्य पर्वतान इव वाजिनः गतसत्त्वा वयदृश्यन्त तथैव सह सादिभिः ॥ 20 ॥

  21. ततस तव अभ्यवसृत्यैव संग्रामाद उत्तरां दिशम अतिष्ठद आहवे दरॊणॊ विधूम इव पावकः ॥ 21 ॥

  22. तम आजिशीर्षाद एकान्तम अपक्रान्तं निशाम्य तु समकम्पन्त सैन्यानि पाण्डवानां विशां पते ॥ 22 ॥

  23. भराजमानं शरिया युक्तं जवलन्तम इव तेजसा दरॊणं दृष्ट्वारयस तरेसुश चेलुर मम्लुश च मारिष ॥ 23 ॥

  24. आह्वयन्तं परानीकं परभिन्नम इव वारणम नैनं शशंसिरे जेतुं दानवा वासवं यथा ॥ 24 ॥

  25. के चिद आसन निरुत्साहाः के चित करुद्धा मनस्विनः विस्त्मिताश चाभवन के चित के चिद आसन्न अमर्षिताः ॥ 25 ॥

  26. हस्तैर हस्ताग्रम अपरे परत्यपिंषन नराधिपाः अपरे दशनैर ओष्ठान अदशन करॊधमूर्छिताः ॥ 26 ॥

  27. वयाक्षिपन्न आयुधान अन्ये ममृदुश चापरे भुजान अन्ये चान्वपतन दरॊणं तयक्तात्मानॊ महौजसः ॥ 27 ॥

  28. पाञ्चालास तु विशेषेण दरॊण सायकपीडिताः समसज्जन्त राजेन्द्र समरे भृशवेदनाः ॥ 28 ॥

  29. ततॊ विराटद्रुपदौ दरॊणं परतिययू रणे तथा चरन्तं संग्रामे भृशं समरदुर्जयम ॥ 29 ॥

  30. दरुपदस्य ततः पौत्रास तरय एव विशां पते चेदयश च महेष्वासा दरॊणम एवाभ्ययुर युधि ॥ 30 ॥

  31. तेषां दरुपद पौत्राणां तरयाणां निशितैः शरैः तरिभिर दरॊणॊ ऽहरत पराणांस ते हता नयपतन भुवि ॥ 31 ॥

  32. ततॊ दरॊणॊ ऽजयद युद्धे चेदिकेकयसृञ्जयान मत्स्यांश चैवाजयत सर्वान भारद्वाजॊ महारथः ॥ 32 ॥

  33. ततस तु दरुपदः करॊधाच छरवर्षम अवाकिरत दरॊणं परति महाराज विराटश चैव संयुगे ॥ 33 ॥

  34. ततॊ दरॊणः सुपीताभ्यां भल्लाभ्याम अरिमर्दनः दरुपदं च विराटं च परैषीद वैवस्तवक्षयम ॥ 34 ॥

  35. हते विराटे दरुपदे केकयेषु तथैव च तथैव चेदिमत्स्येषु पाञ्चालेषु तथैव च ॥ 35 ॥

  36. हतेषु तरिषु वीरेषु दरुपदस्य च नप्तृषु दरॊणस्य कर्म तद दृष्ट्वा कॊपदुःखसमन्वितः ॥ 36 ॥

  37. शशाप रथिनां मध्ये धृष्टद्युम्नॊ महामनाः इष्टापूर्तात तथा कषात्राद बराह्मण्याच च स नश्यतु दरॊणॊ यस्याद्य मुच्येत यॊ वा दरॊणात पराङ्मुखः ॥ 37 ॥

  38. इति तेषां परतिश्रुत्य मध्ये सर्वधनुष्मताम आयाद दरॊणं सहानीकः पाञ्चाल्यः परवीरहा पाञ्चालास तव एकतॊ दरॊणम अभ्यघ्नन पाण्डवान यतः ॥ 38 ॥

  39. दुर्यॊधनश च कर्णश च शकुनिश चापि सौबलः सॊदर्याश च यथामुख्यास ते ऽरक्षन दरॊणम आहवे ॥ 39 ॥

  40. रक्ष्यमाणं तथा दरॊणं समरे तैर महात्मभिः यतमानापि पाञ्चाला न शेकुः परतिवीक्षितुम ॥ 40 ॥

  41. तत्राक्रुध्यद भीमसेनॊ धृष्टद्युम्नस्य मारिष स एनं वाग्भिर उग्राभिस ततक्ष पुरुषर्षभ ॥ 41 ॥

  42. दरुपदस्य कुले जातः सर्वास्त्रेष्व अस्त्रवित्तमः कः कषत्रियॊ मन्यमानः परेक्षेतारिम अवस्थितम ॥ 42 ॥

  43. पितृपुत्र वधं पराप्य पुमान कः परिहापयेत विशेषतस तु शपथं शपित्वा राजसंसदि ॥ 43 ॥

  44. एष वैश्वानर इव समिद्धः सवेन तेजसा शरचापेन्धनॊ दरॊणः कषत्रं दहति तेजसा ॥ 44 ॥

  45. पुरा करॊति निःशेषां पाण्डवानाम अनीकिनीम सथिताः पश्यत मे कर्म दरॊणम एव वरजाम्य अहम ॥ 45 ॥

  46. इत्य उक्त्वा पराविशत करुद्धॊ दरॊणानीकं वृकॊदरः दृढैः पूर्णायतॊत्सृष्टैर दरावयंस तव वाहिनीम ॥ 46 ॥

  47. धृष्टद्युम्नॊ ऽपि पाञ्चाल्यः परविश्य महतीं चमूम आससाद रणे दरॊणं तदासीत तुमुलं महत ॥ 47 ॥

  48. नैव नस तादृशं युद्धं दृष्टपूर्वं न च शरुतम यथा सूर्यॊदये राजन समुत्पिञ्जॊ ऽभवन महान ॥ 48 ॥

  49. संसक्तानि वयदृश्यन्त रथवृन्दानि मारिष हतानि च विकीर्णानि शरीराणि शरीरिणाम ॥ 49 ॥

  50. के चिद अन्यत्र गच्छन्तः पथि चान्यैर उपद्रुताः विमुखाः पृष्ठतश चान्ये ताड्यन्ते पार्थिवॊ ऽपरे ॥ 50 ॥

  51. तथा संसक्तयुद्धं तद अभवद भृशदारुणम अतः संध्यागतः सूर्यः कषणेन समपद्यत ॥ 51 ॥

Reach this point to mark the section finished.

Continue to अध्याय 162

Previous: अध्याय 160