[स] ततॊ दुर्यॊधनॊ दरॊणम अभिगम्येदम अब्रवीत अमर्षवशम आपन्नॊ जनयन हर्षतेजसी ॥ 1 ॥
न मर्षणीयाः संग्रामे विश्रमन्तः शरमान्विताः सपत्ना गलान मनसॊ लब्धलक्ष्या विशेषतः ॥ 2 ॥
तत तु मर्षितम अस्माभिर भवतः परियकाम्यया त एते परिविश्रान्ताः पाण्डवा बलवत्तराः ॥ 3 ॥
सर्वथा परिहीनाः सम तेजसा च बलेन च भवता पाल्यमानास ते विवर्धन्ते पुनः पुनः ॥ 4 ॥
दिव्यान्य अस्त्राणि सर्वाणि बरह्मास्त्रादीनि यान्य अपि तानि सर्वाणि तिष्ठन्ति भवत्य एव विशेषतः ॥ 5 ॥
न पाण्डवेया न वयं नान्ये लॊके धनुर्धराः युध्यमानस्य ते तुल्याः सत्यम एतद बरवीमि ते ॥ 6 ॥
स सुरासुरगन्धर्वान इमाँल लॊकान दविजॊत्तम सर्वास्त्रविद भवान हन्याद दिव्यैर अस्त्रैर न संशयः ॥ 7 ॥
स भवान मर्षयत्य एनांस तवत्तॊ भीतान विशेषतः शिष्यत्वं वा पुरस्कृत्य मम वा मन्दभाग्यताम ॥ 8 ॥
एवम उद्धर्षितॊ दरॊणः कॊपितश चात्मजेन ते स मन्युर अब्रवीद राजन दुर्यॊधनम इदं वचः ॥ 9 ॥
सथविरः सन परं शक्त्या घटे दुर्यॊधनाहवे अतः परं मया कार्यं कषुद्रं विजयगृद्धिना अनस्त्रविद अयं सर्वॊ हन्तव्यॊ ऽसत्रविदा जनः ॥ 10 ॥
यद भवान मन्यते चापि शुभं वा यदि वाशुभम तद वै कर्तास्मि कौरव्य वचनात तव नान्यथा ॥ 11 ॥
निहत्य सर्वपाञ्चालान युद्धे कृत्वा पराक्रमम विमॊक्ष्ये कवचं राजन सत्येनायुधम आलभे ॥ 12 ॥
मन्यसे यच च कौन्तेयम अर्जुनं शरान्तम आहवे तस्य वीर्यं महाबाहॊ शृणु सत्येन कौरव ॥ 13 ॥
तं न देवा न गन्धर्वा न यक्षा न च राक्षसाः उत्सहन्ते रणे सॊढुं कुपितं सव्यसाचिनम ॥ 14 ॥
खाण्डवे येन भगवान परत्युद्यातः सुरेश्वरः सायकैर वारितश चापि वर्षमाणॊ महात्मना ॥ 15 ॥
यक्षा नागास तथा दैत्या ये चान्ये बलगर्विताः निहताः पुरुषेन्द्रेण तच चापि विदितं तव ॥ 16 ॥
गन्धर्वा घॊषयात्रायां चित्रसेनादयॊ जिताः यूयं तैर हरियमाणाश च मॊक्षिता दृढधन्विना ॥ 17 ॥
निवातकवचाश चापि देवानां शत्रवस तथा सुरैर अवध्याः संग्रामे तेन वीरेण निर्जिताः ॥ 18 ॥
दानवानां सहस्राणि हिरण्यपुरवासिनाम विजिग्ये पुरुषव्याघ्रः स शक्यॊ मानुषैः कथम ॥ 19 ॥
परत्यक्षं चैव ते सर्वं यथाबलम इदं तव कषपितं पाण्डुपुत्रेण चेष्टतां नॊ विशां पते ॥ 20 ॥
तं तथाभिप्रशंसन्तम अर्जुनं कुपितस तदा दरॊणं तव सुतॊ राजन पुनर एवेदम अब्रवीत ॥ 21 ॥
अहं दुःशासनः कर्णः शकुनिर मातुलश च मे हनिष्यामॊ ऽरजुनं संख्ये दवैधी कृत्याद्य भारतीम ॥ 22 ॥
तस्य तद वचनं शरुत्वा भारद्वाजॊ हसन्न इव अन्ववर्तत राजानं सवस्ति ते ऽसत्व इति चाब्रवीत ॥ 23 ॥
कॊ हि गाण्डीवधन्वानं जवलन्तम इव तेजसा अक्षयं कषपयेत कश चित कषत्रियः कषत्रियर्षभम ॥ 24 ॥
तं न वित्तपतिर नेन्द्रॊ न यमॊ न जलेश्वरः नासुरॊरग रक्षांसि कषपयेयुः सहायुधम ॥ 25 ॥
मूढास तव एतानि भाषन्ते यानीमान्य आत्थ भारत युद्धे हय अर्जुनम आसाद्य सवस्तिमान कॊ वरजेद गृहान ॥ 26 ॥
तवं तु सर्वातिशङ्कित्वान निष्ठुरः पापनिश्चयः शरेयसस तवद्धिते युक्तांस तत तद वक्तुम इहेच्छसि ॥ 27 ॥
गच्छ तवम अपि कौन्तेयम आत्मार्थेभ्यॊ हि माचिरम तवम अप्य आशंससे यॊद्धुं कुलजः कषत्रियॊ हय असि ॥ 28 ॥
इमान किं पार्थिवान सर्वान घातयिष्यस्य अनागसः तवम अस्य मूलं वैरस्य तस्माद आसादयार्जुनम ॥ 29 ॥
एष ते मातुलः पराज्ञः कषत्रधर्मम अनुव्रतः दूर्द्यूत देवी गान्धारिः परयात्व अर्जुनम आहवे ॥ 30 ॥
एषॊ ऽकषकुशलॊ जिह्मॊ दयूतकृत कितवः शठः देविता निकृतिप्रज्ञॊ युधि जेष्यति पाण्डवान ॥ 31 ॥
तवया कथितम अत्यन्तं कर्णेन सह हृष्टवत असकृच छून्यवन मॊहाद घृतराष्ट्रस्य शृण्वतः ॥ 32 ॥
अहं च तात कर्णश च भराता दुःशासनश च मे पाण्डुपुत्रान हनिष्यामः सहिताः समरे तरयः ॥ 33 ॥
इति ते कत्थमानस्य शरुतं संसदि संसदि अनुतिष्ठ परतिज्ञां तां सत्यवाग भव तैः सह ॥ 34 ॥
एष ते पाण्डवः शत्रुर अविषह्यॊ ऽगरतः सथितः कषत्रधर्मम अवेक्षस्व शलाघ्यस तव वधॊ जयात ॥ 35 ॥
दत्तं भुक्तम अधीतं च पराप्तम ऐश्वर्यम ईप्सितम कृतकृत्यॊ ऽनृणश चासि मा भैर युध्यस्व पाण्डवम ॥ 36 ॥
इत्य उक्त्वा समरे दरॊणॊ नयवर्तत यतः परे दवैधी कृत्यततः सेनां युद्धं समभवत तदा ॥ 37 ॥
द्रोणपर्व · Drona Parva
अध्याय 160
Reach this point to mark the section finished.
Continue to अध्याय 161