[स] घटॊत्कचे तु निहते सूतपुत्रेण तां निशाम दुःखामर्ष वशं पराप्तॊ धर्मपुत्रॊ युधिष्ठिरः ॥ 1 ॥
दृष्ट्व भीमेन महतीं वार्यमाणां चमूं तव धृष्टद्युम्नम उवाचेदं कुम्भयॊनिं निवारय ॥ 2 ॥
तवं हि दरॊण विनाशाय समुत्पन्नॊ हुताशनात स शरः कवची खड्गी धन्वी च परतापनः अभिद्रव रणे हृष्टॊ न च ते भीः कथं चन ॥ 3 ॥
जनमेजयः शिखण्डी च दौर्मुखिश च यशॊ धनः अभिद्रवन्तु संहृष्टाः कुम्भयॊनिं समन्तताः ॥ 4 ॥
नकुलः सहदेवश च दरौपदेयाः परभद्रकाः दरुपदश च विराटश च पुत्रभ्रातृसमन्वितौ ॥ 5 ॥
सात्यकिः केकयाश चैव पाण्डवश च धनंजयः अभिद्रवन्तु वेगेन भारद्वाज वधेप्सया ॥ 6 ॥
तथैव रथिनः सर्वे हस्त्यश्वं यच च किं चन पादाताश च रणे दरॊणं परापयन्तु महारथम ॥ 7 ॥
तथाज्ञप्तास तु ते सर्वे पाण्डवेन महात्मना अभ्यद्रवन्त वेगेन कुम्भयॊनिं युयुत्सया ॥ 8 ॥
आगच्छतस तान सहसा सर्वॊद्यॊगेन पाण्डवान परतिजग्राह समरे दरॊणः शस्त्रभृतां वरः ॥ 9 ॥
ततॊ दुर्यॊधनॊ राजा सर्वॊद्यॊगेन पाण्डवान अभ्यद्रवत सुसंक्रुद्ध इच्छन दरॊणस्य जीवितम ॥ 10 ॥
ततः परववृते युद्धं शरान्तवाहन सैनिकम पाण्डवानां कुरूणां च गर्जताम इतरेतरम ॥ 11 ॥
निद्रान्धास ते महाराज परिश्रान्ताश च संयुगे नाभ्यपद्यन्त समरे कां चिच चेष्टां महारथाः ॥ 12 ॥
तरियामा रजनी चैषा घॊररूपा भयानका सहस्रयाम परतिमा बभूव पराणहारिणी वध्यतां च तथा तेषां कषतानां च विशेषतः ॥ 13 ॥
अहॊरात्रिः समाजज्ञे निद्रान्धानां विशेषतः सर्वे हय आसन निरुत्साहाः कषत्रिया दीनचेतसः तव चैव परेषां च गतास्त्रा विगतेषवः ॥ 14 ॥
ते तथा परयन्तश च हरीमन्तश च विशेषतः सवधर्मम अनुपश्यन्तॊ न जहुर सवाम अनीकिनीम ॥ 15 ॥
शस्त्राण्य अन्ये समुत्सृज्य निद्रान्धाः शेरते जनाः गजेष्व अन्ये रथेष्व अन्ये हयेष्व अन्ये च भारत ॥ 16 ॥
निध्रान्धा नॊ बुबुधिरे कां चिच चेष्टां नराधिपाः ते ऽनयॊन्यं समरे यॊधाः परेषयन्त यमक्षयम ॥ 17 ॥
सवप्नायमानास तव अपरे परान इति विचेतसः आत्मानं समरे जघ्नु सवान एव च परान अपि ॥ 18 ॥
नाना वाचॊ विमुञ्चन्तॊ निद्रान्धास ते महारणे यॊद्धव्यम इति तिष्ठन्तॊ निद्रा संसक्तलॊचनाः ॥ 19 ॥
संमर्द्यान्ये रणे के चिन निद्रान्धाश च परस्परम जघ्नुः शूरा रणे राजंस तस्मिंस तमसि दारुणे ॥ 20 ॥
हन्यमानं तथात्मानं परेभ्यॊ बहवॊ जनाः नाभ्यजानन्त समरे निद्रया मॊहिता भृशम ॥ 21 ॥
तेषाम एतादृशीं चेष्टां विज्ञाय पुरुषर्षभः उवाच वाक्यं बीभत्सुर उच्चैः संनादयन दिशः ॥ 22 ॥
शरान्ता भवन्तॊ निद्रान्धाः सर्व एव स वासवाः तमसा चावृते सैन्ये रजसा बहुलेन च ॥ 23 ॥
ते यूयं यदि मन्यध्वम उपारमत सैनिकाः निमीलयत चात्रैव रणभूमौ मुहूर्तकम ॥ 24 ॥
ततॊ विनिद्र विश्रान्ताश चन्द्रमस्य उदिते पुनः संसाधयिष्यथान्यॊन्यं सवर्गाय कुरुपाण्डवाः ॥ 25 ॥
तद वचः सर्वधर्मज्ञा धार्मिकस्य निशम्य ते अरॊचयन्त सैन्यानि तथा चान्यॊन्यम अब्रुवन ॥ 26 ॥
चुक्रुशुः कर्ण कर्णेति राजन दुर्यॊधनेति च उपारमत पाण्डूनां विरता हि वरूथिनी ॥ 27 ॥
तथा विक्रॊशमानस्य फल्गुनस्य ततस ततः उपारमत पाण्डूनां सेना तव च भारत ॥ 28 ॥
ताम अस्य वाचं देवाश च ऋषयश च महात्मनः सर्वसैन्यानि चाक्षुद्राः परहृष्टाः पत्यपूजयन ॥ 29 ॥
तत संपूज्य वचॊ ऽकरूरं सर्वसैन्यानि भारत मुहूतम अस्वपन राजञ शरान्तानि भरतर्षभ ॥ 30 ॥
सा तु संप्राप्य विश्रामं धवजिनी तव भारत सुखम आप्तवती वीरम अर्जुनं परत्यपूजयत ॥ 31 ॥
तवयि वेदास तथास्त्राणि तवयि बुद्धिपराक्रमौ धर्मस तवयि महाबाहॊ दया भूतेषु चानघ ॥ 32 ॥
यच चाश्वस्तास तवेच्छामः शर्म पार्थ तद अस्तु ते मनसश च परियान अर्थान वीर कषिप्रम अवाप्नुहि ॥ 33 ॥
इति ते तं नरव्याघ्रं परशंसन्तॊ महारथाः निद्रया समवाक्षिप्तास तूष्णीम आसन विशां पते ॥ 34 ॥
अश्वपृष्ठेषु चाप्य अन्ये रथनीडेषु चापरे गजस्कन्धगताश चान्ये शेरते चापरे कषितौ ॥ 35 ॥
सायुधाः सगदाश चैव स खड्गाः स परश्वधाः स परासकवचाश चान्ये नराः सुप्ताः पृथक पृथक ॥ 36 ॥
गजास ते पन्नगाभॊगैर हस्तैर भूरेणु रूषितैः निद्रान्धा वसुधां चक्रुर घराणनिःश्वासशीतलाम ॥ 37 ॥
गजाः शुशुभिरे तत्र निःश्वसन्तॊ महीतले विशीर्णा गिरयॊ यद्वन निःश्वसद्भिर महॊरगैः ॥ 38 ॥
समां च विषमां चक्रुः खुराग्रैर विक्षतां महीम हयाः काञ्चनयॊक्त्राश च केसरालम्बिभिर युगैः सुषुपुस तत्र राजेन्द्र युक्ता वाहेषु सर्वशः ॥ 39 ॥
तत तथा निद्रया भग्नम अवाचम अस्वपद बलम कुशलैर इव विन्यस्तं पटे चित्रम इवाद्भुतम ॥ 40 ॥
ते कषत्रियाः कुण्डलिनॊ युवानः; परस्परं सायकविक्षताङ्गाः कुम्भेषु लीनाः सुषुपुर गजानां; कुचेषु लग्ना इव कामिनीनाम ॥ 41 ॥
ततः कुमुदनाथेन कामिनी गण्डपाण्डुना नेत्रानन्देन चन्द्रेण माहेन्द्री दिग अलंकृता ॥ 42 ॥
ततॊ मुहूर्ताद भगवान पुरस्ताच छशलक्षणः अरुणं दर्शयाम आस गरसञ जयॊतिः परभं परभुः ॥ 43 ॥
अरुणस्य तु तस्यानु जातरूपसमप्रभम रश्मिजालं महच चन्द्रॊ मन्दं मन्दम अवासृजत ॥ 44 ॥
उत्सारयन्तः परभया तमस ते चन्द्ररश्मयः पर्यगच्छञ शनैः सर्वा दिशः खं च कषितिं तथा ॥ 45 ॥
ततॊ मुहूर्ताद भुवनं जयॊतिर भूतम इवाभवत अप्रख्यम अप्रकाशं च जगामाशु तमस तथा ॥ 46 ॥
परतिप्रकाशिते लॊके दिवा भूते निशाकरे विचेरुर न विचेरुश च राजन नक्तंचरास ततः ॥ 47 ॥
बॊध्यमानं तु तत सैन्यं राजंश चन्द्रस्य रश्मिभिः बुबुधे शतपत्राणां वनं महद इवाम्भसि ॥ 48 ॥
यथा चन्द्रॊदयॊद्भूतः कषुभितः सागरॊ भवेत तथा चन्द्रॊदयॊद्भूतः स बभूव बलार्णवः ॥ 49 ॥
ततः परववृते युद्धं पुनर एव विशां पते लॊके लॊकविनाशाय परं लॊकम अभीप्सताम ॥ 50 ॥
द्रोणपर्व · Drona Parva
अध्याय 159
Reach this point to mark the section finished.
Continue to अध्याय 160