धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 158

  1. [धृ] कर्णदुर्यॊधनादीनां शकुनेः सौबलस्य च अपनीतं महत तात तव चैव विशेषतः ॥ 1 ॥

  2. यद आजानीत तां शक्तिम एकघ्नीं सततं रणे अनिवार्याम असह्यां च देवैर अपि स वासवैः ॥ 2 ॥

  3. सा किमर्थं न कर्णेन परवृत्ते समरे पुरा न देवकी सुते मुक्ता फल्गुने वापि संजय ॥ 3 ॥

  4. [स] संग्रामाद विनिवृत्तानां सर्वेषां यॊ विशां पते रात्रौ कुरु कुलश्रेष्ठ मन्त्रॊ ऽयं समजायत ॥ 4 ॥

  5. परभातमात्रे शवॊभूते केशवायार्जुनाय वा शक्तिर एष विमॊक्तव्या कर्ण कर्णेति नित्यशः ॥ 5 ॥

  6. ततः परभातसमये राजन कर्णस्य दैवतैः अन्येषां चैव यॊधानां सा बुद्धिर नश्यते पुनः ॥ 6 ॥

  7. दैवम एव परं मन्ये यत कर्णॊ हस्तसंस्थया न जघान रणे पार्थं कृषणं वा देवकी सुतम ॥ 7 ॥

  8. तस्य हस्तिस्थिता शक्तिः कालरात्रिर इवॊद्यता दैवॊपहतबुद्धित्वान न तां कर्णॊ विमुक्तवान ॥ 8 ॥

  9. कृष्णे वा देवकीपुत्रे मॊहितॊ देव मायया पार्थे वा शक्र कल्पे वै वधार्थं वासवी परभॊ ॥ 9 ॥

  10. [धृ] दैवेनैव हता यूयं सवबुद्ध्या केशवस्य च गता हि वासवी हत्वा तृणभूतं घटॊत्कचम ॥ 10 ॥

  11. कर्णश च मम पुत्राश च सर्वे चान्ये च पार्थिवाः अनेन दुष्प्रणीतेन गता वैवस्वतक्षयम ॥ 11 ॥

  12. भूय एव तु मे शंस यथा युद्धम अवर्तत कुरूणां पाण्डवानां च हैडिम्बे निहते तदा ॥ 12 ॥

  13. ये च ते ऽभयद्रवन दरॊणं वयाढानीकाः परहारिणः सृञ्जयाः सह पाञ्चालैस ते ऽपय अकुर्वन कथं रणम ॥ 13 ॥

  14. सौमदत्तेर वधाद दरॊणम आयस्तं सैधवस्य च अमर्षाज जीवितं तयक्त्वा गाहमानं वरूथिनीम ॥ 14 ॥

  15. जृम्भमाणम इव वयाघ्रं वयात्ताननम इवान्तकम कथं परत्युद्ययुर दरॊणम अस्यन्तं पाण्डुसृञ्जयाः ॥ 15 ॥

  16. आचार्यं ये च ते ऽरक्षन दुर्यॊधन पुरॊगमाः दरौणिकर्णकृपास तात ते ऽपय अकुर्वन किम आहवे ॥ 16 ॥

  17. भारद्वाजं जिघांसन्तौ सव्यसाचि वृकॊदरौ समार्छन मामका युद्धे कथं संजय शंस मे ॥ 17 ॥

  18. सिन्धुराजवधेनेमे घटॊत्कच वधेन ते अमर्षिताः सुसंक्रुद्धा रणं चक्रुः कथं निशि ॥ 18 ॥

  19. [स] हते घटॊत्कचे राजन कर्णेन निशि राक्षसे परणदत्सु च हृष्टेषु तावकेषु युयुत्सुषु ॥ 19 ॥

  20. आपतत्सु च वेगेन वध्यमाने बले ऽपि च विगाढायां रजन्यां च राजा दैन्यं परं गतः ॥ 20 ॥

  21. अब्रवीच च महाबाहुर भीमसेनं परंतपः आवारय महाबाहॊ धार्तराष्ट्रस्य वाहिनीम हैडिम्बस्याभिघातेन मॊहॊ माम आविशन महान ॥ 21 ॥

  22. एवं भीमं समादिश्य सवरथे समुपाविशत अश्रुपूर्णमुखॊ राजा निःश्वसंश च पुनः पुनः कश्मलं पराविशद घॊरं दृष्ट्वा कर्णस्य विक्रमम ॥ 22 ॥

  23. तं तथा वयथितं दृष्ट्वा कृष्णॊ वचनम अब्रवीत मा वयथां कुरु कौन्तेय नैतत तवय्य उपपद्यते वैक्लव्यं भरतश्रेष्ठ यथा पराकृतपूरुषे ॥ 23 ॥

  24. उत्तिष्ठ राजन युध्यस्व वह गुर्वीं धुरं विभॊ तवयि वैक्लव्यम आपन्नॊ संशयॊ विजये भवेत ॥ 24 ॥

  25. शरुत्वा कृष्णस्य वचनं धर्मराजॊ युधिष्ठिरः विमृज्य नेत्रे पाणिभ्यां कृष्णं वचनम अब्रवीत ॥ 25 ॥

  26. विदिता ते महाबाहॊ धर्माणां परमा गतिः बरह्महत्या फलं तस्य यः कृतं नावबुध्यते ॥ 26 ॥

  27. अस्माकं हि वनस्थानां हैडिम्बेन महात्मना बलेनापि सता तेन कृतं साह्यं जनार्दन ॥ 27 ॥

  28. अस्त्रहेतॊर गतं जञात्वा पाण्डवं शवेतवाहनम असौ कृष्ण महेष्वासः काम्यके माम उपस्थितः उषितश च सहास्माभिर यावन नासीद धनंजयः ॥ 28 ॥

  29. गन्धमादन यात्रायां दुर्गेभ्यश च सम तारिताः पाञ्चाली च परिश्रान्ता पृष्ठेनॊढा महात्मना ॥ 29 ॥

  30. आरम्भाच चैव युद्धानां यद एष कृतवान परभॊ मदर्थं दुष्करं कर्मकृतं तेन महात्मना ॥ 30 ॥

  31. सवभावाद या च मे परीतिः सहदेवे जनार्दन सैव मे दविगुणा परीती राक्षसेन्द्रे घटॊत्कचे ॥ 31 ॥

  32. भक्तश च मे महाबाहुः परियॊ ऽसयाहं परियश च मे येन विन्दामि वार्ष्णेय कश्मलं शॊकतापितः ॥ 32 ॥

  33. पश्य सैन्यानि वार्ष्णेय दराव्यमाणानि कौरवैः दरॊणकर्णौ च संयत्तौ पश्य युद्धे महारथौ ॥ 33 ॥

  34. निशीथे पाण्डवं सैन्यम आभ्यां पश्य परमर्दितम गजाभ्याम इव मत्ताभ्यां यथा नडवनं महत ॥ 34 ॥

  35. अनादृत्य बलं बाह्वॊर भीमसेनस्य माधव चित्रास्त्रतां च पार्थस्य विक्रमन्ते सम कौरवाः ॥ 35 ॥

  36. एष दरॊणश च कर्णश च राजा चैव सुयॊधनः निहत्य राक्षसं युद्धे हृष्टा नर्दन्ति संयुगे ॥ 36 ॥

  37. कथम अस्मासु जीवत्सु तवयि चैव जनार्दन हैडिम्बः पराप्तवान मृत्युं सूतपुत्रेण संगतः ॥ 37 ॥

  38. कदर्थी कृत्यनः सर्वान पश्यतः सव्यसाचिनः निहतॊ राक्षसः कृष्ण भैमसेनिर महाबलः ॥ 38 ॥

  39. यदाभिमन्युर निहतॊ धार्तराष्ट्रैर दुरात्मभिः नासीत तत्र रणे कृष्ण सव्यसाची महारथः ॥ 39 ॥

  40. निरुद्धाश च वयं सर्वे सैन्धवेन दुरात्मना निमित्तम अभवद दरॊणः सपुत्रस तत्र कर्मणि ॥ 40 ॥

  41. उपदिष्टॊ वधॊपायः कर्णस्य गुरुणा सवयम वयायच्छतश च खड्गेन दविधा खड्गं चकार ह ॥ 41 ॥

  42. वयसने वर्तमानस्य कृतवर्मा नृशंसवत अश्वाञ जघान सहसा तथॊभौ पार्ष्णिसारथी तथेतरे महेष्वासाः सौभद्रं युध्य अपातयन ॥ 42 ॥

  43. अल्पे च कारणे कृष्णे हतॊ गाण्डीवधन्वना सैन्धवॊ यादव शरेष्ठ तच च नातिप्रियं मम ॥ 43 ॥

  44. यदि शत्रुवधे नयाय्यॊ भवेत कर्तुं च पाण्डवैः दरॊणकर्णौ रणे पूर्वं हन्तव्याव इति मे मतिः ॥ 44 ॥

  45. एतौ मूलं हि दुःखानाम अस्माकं पुरुषर्षभ एतौ रणे समासाद्य पराश्वस्तः सुयॊधनः ॥ 45 ॥

  46. यत्र वध्यॊ भवेद दरॊणः सूतपुत्रश च सानुगः तत्रावधीन महाबाहुः सैन्धवं दूरवासिनम ॥ 46 ॥

  47. अवश्यं तु मया कार्यः सूतपुत्रस्य निग्रहः ततॊ यास्याम्य अहं वीर सवयं कर्ण जिघांसया भीमसेनॊ महाबाहुर दरॊणानीकेन संगतः ॥ 47 ॥

  48. एवम उक्त्वा ययौ तूर्णं तवरमाणॊ युधिष्ठिरः स विस्फार्य महच चापं शङ्खं परध्माप्य भैरवम ॥ 48 ॥

  49. ततॊ रथसहस्रेण गजानां च शतैस तरिभिः वाजिभिः पञ्च साहस्रैस तरिसाहस्रैः परभद्रकैः वृतः शिखण्डी तवरितॊ राजानं पृष्ठतॊ ऽनवयात ॥ 49 ॥

  50. ततॊ भेरीः समाजघ्नुः शङ्खान दध्मुश च दंशिताः पाञ्चालाः पाण्डवाश चैव युधिष्ठिरपुरॊगमाः ॥ 50 ॥

  51. ततॊ ऽबरवीन महाबाहुर वासुदेवॊ धनंजयम एष परयाति तवरितॊ करॊधाविष्टॊ युधिष्ठिरः जिघांसुः सूतपुत्रस्य तस्यॊपेक्षा न युज्यते ॥ 51 ॥

  52. एवम उक्त्वा हृषीकेशः शीघ्रम अश्वान अचॊदयत दूरं च यात्म राजानम अन्वगच्छज जनार्दनः ॥ 52 ॥

  53. तं दृष्ट्वा सहसा यान्तं सूतपुत्र जिघांसया शॊकॊपहतसंकल्पं दह्यमानम इवाग्निना अभिगम्याब्रवीद वयासॊ धर्मपुत्रं युधिष्ठिरम ॥ 53 ॥

  54. कर्णम आसाद्य संग्रामे दिष्ट्या जीवति फल्गुनः सव्यसाचि वधाकाङ्क्षी शक्तिं रक्षितवान हि सः ॥ 54 ॥

  55. न चागाद वैरथं जिष्णुर दिष्ट्या तं भरतर्षभ सृजेतां सपर्धिनाव एतौ दिव्यान्य अस्त्राणि सर्वशः ॥ 55 ॥

  56. वध्यमानेषु चास्त्रेषु पीडितः सूतनन्दनः वासवीं समरे शक्तिं धरुवं मुञ्चेद युधिष्ठिर ॥ 56 ॥

  57. ततॊ भवेत ते वयसनं घॊरं भरतसत्तम दिष्ट्या रक्षॊ हतं युद्धे सूतपुत्रेण मानद ॥ 57 ॥

  58. वासवीं कारणं कृत्वा कालेनापहतॊ हय असौ तवैव कारणाद रक्षॊ निहतं तात संयुगे ॥ 58 ॥

  59. मा करुधॊ भरतश्रेष्ठ मा च शॊके मनः कृथाः पराणिनाम इह सर्वेषाम एषा निष्ठा युधिष्ठिर ॥ 59 ॥

  60. भरातृभिः सहितः सर्वैः पार्थिवैश च महात्मभिः कौरवान समरे राजन्न अभियुध्यस्व भारत पञ्चमे दिवसे चैव पृथिवी ते भविष्यति ॥ 60 ॥

  61. नित्यं च पुरुषव्याघ्र धर्मम एव विचिन्तय आनृशंस्यं तपॊ दानं कषमां सत्यं च पाण्डव ॥ 61 ॥

  62. सेवेथाः परमप्रीतॊ यतॊ धर्मस ततॊ जयः इत्य उक्त्वा पाण्डवं वयासत तत्रैवान्तरधीयत ॥ 62 ॥

Reach this point to mark the section finished.

Continue to अध्याय 159

Previous: अध्याय 157