धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 157

  1. [धृ] एकवीर वधे मॊघा शक्तिः सूतात्मजे यदा कस्मात सर्वान समुत्सृज्य स तां पार्थे न मुक्तवान ॥ 1 ॥

  2. तस्मिन हते हता हि सयुः सर्वे पाण्डव सृञ्जयाः एकवीर वधे कस्मान न युद्धे जयम आदधत ॥ 2 ॥

  3. आहूतॊ न निवर्तेयम इति तस्य महाव्रतम सवयम आह्वयितव्यः ससूतपुत्रेण फल्गुनः ॥ 3 ॥

  4. ततॊ दवैरथम आनीय फल्गुनं शक्रदत्तया न जघान वृषा कस्मात तन ममाचक्ष्व संजय ॥ 4 ॥

  5. नूनं बुद्धिविहीनश चाप्य असहायश च मे सुतः शत्रुभिर वयसितॊपायः कथं नु स जयेद अरीन ॥ 5 ॥

  6. या हय अस्य परमा शक्तिर जयस्य च परायणम सा शक्तिर वासुदेवेन वयंसितास्य घटॊत्कचे ॥ 6 ॥

  7. कुणेर यथा हस्तगतं हरियेद बिल्वं बलीयसा तथा शक्तिर अमॊघा सा मॊघी भूता घटॊत्कचे ॥ 7 ॥

  8. यथा वराहस्य शुनश च युध्यतॊस; तयॊर अभावे शवपचस्य लाभः मन्ये विद्वन वासुदेवस्य तद्वद; युद्धे लाभः कर्ण हैडिम्बयॊर वै ॥ 8 ॥

  9. घटॊत्कचॊ यदि हन्याद धि कर्णं; परॊ लाभः स भवेत पाण्डवानाम वैकर्तनॊ वा यदि तं निहन्यात; तथापि कृत्यं शक्तिनाशात कृतं सयात ॥ 9 ॥

  10. इति पराज्ञः परज्ञयैतद विचार्य; घटॊत्कचं सूतपुत्रेण युद्धे अयॊधयद वासुदेवॊ नृसिंहः; परियं कुर्वन पाण्डवानां हितं च ॥ 10 ॥

  11. एतच चिकीर्षितं जञात्वा कर्णे मधुनिहा नृप नियॊजयाम आस तदा दवैरथे राक्षसेश्वरम ॥ 11 ॥

  12. घटॊत्कचं महावीर्यं महाबुद्धिर जनार्दनः अमॊघाया विघातार्थं राजन दुर्मन्त्रिते तव ॥ 12 ॥

  13. तदैव कृतकार्या हि वयं सयाम कुरूद्वह न रक्षेद यदि कृष्णस तं पार्थं कर्णान महारथात ॥ 13 ॥

  14. साश्वध्वजरथः संख्ये धृतराष्ट्र पतेद भुवि विना जनार्दनं पार्थॊ यॊगानाम ईश्वरं परभुम ॥ 14 ॥

  15. तैस तैर उपायैर बहुभी रक्ष्यमाणः स पार्थिव जयत्य अभिमुखः शत्रून पार्थः कृष्णेन पालितः ॥ 15 ॥

  16. स विशेषं तव अमॊघायाः कृष्णॊ ऽरक्षत पाण्डवम हन्यात कषिप्ता हि कौन्तेयं शक्तिर वृक्षम इवाशनिः ॥ 16 ॥

  17. [धृ] विरॊधी च कुमन्त्री च पराज्ञमानी ममात्मजः यस्यैष समतिक्रान्तॊ वधॊपायॊ जयं परति ॥ 17 ॥

  18. तवापि समतिक्रान्तम एतद गावल्गणे कथम एतम अर्थं महाबुद्धे यत तवया नावबॊधितः ॥ 18 ॥

  19. [स] दुर्यॊधनस्य शकुनेर मम दुःशासनस्य च रात्रौ रात्रौ भवत्य एषा नित्यम एव समर्थना ॥ 19 ॥

  20. शवः सर्वसैन्यान उत्सृज्य जहि कर्ण धनंजयम परेष्यवत पाण्डुपाञ्चालान उपभॊक्ष्यामहे ततः ॥ 20 ॥

  21. अथ वा निहते पार्थे पाण्डुष्व अन्यतमं ततः सथापयेद युधि वार्ष्णेयस तस्मात कृष्णॊ निपात्यताम ॥ 21 ॥

  22. कृष्णॊ हि मूलं पाण्डूनां पार्थः सकन्ध इवॊद्गतः शाखा इवेतरे पार्थाः पाञ्चालाः पत्रसंज्ञिताः ॥ 22 ॥

  23. कृष्णाश्रयाः कृष्ण बलाः कृष्ण नाथाश च पाण्डवाः कृष्णः परायणं चैषां जयॊतिषाम इव चन्द्रमाः ॥ 23 ॥

  24. तस्मात पर्णानि शाखाश च सकन्धं चॊत्सृज्य सूतज कृष्णं निकृन्धि पाण्डूनां मूलं सर्वत्र सर्वदा ॥ 24 ॥

  25. हन्याद यदि हि दाशार्हं कर्णॊ यादवनन्दनम कृत्स्ना वसुमती राजन वशे ते सयान न संशयः ॥ 25 ॥

  26. यदि हि स निहतः शयीत भूमौ; यदुकुलपाण्डवनन्दनॊ महात्मा ननु तव वसुधा नरेन्द्र सर्वा; स गिरिसमुद्र वना वशं वरजेत ॥ 26 ॥

  27. सा तु बुद्धिः कृताप्य एवं जाग्रति तरिदशेश्वरे अप्रमेये हृषीकेशे युद्धकाले वयमुह्यत ॥ 27 ॥

  28. अर्जुनं चापि कौन्तेयं सदा रक्षति केशवः न हय एनम ऐच्छत परमुखे सौतेः सथापयितुं रणे ॥ 28 ॥

  29. अन्यांश चास्मै रथॊदारान उपस्थापयद अच्युतः अमॊघां तां कथं शक्तिं मॊघां कुर्याम इति परभॊ ॥ 29 ॥

  30. ततः कृष्णं महाबाहुः सात्यकिः सत्यविक्रमः पप्रच्छ रथशार्दूल कर्णं परति महारथम ॥ 30 ॥

  31. अयं च परत्ययः कर्णे शक्त्या चामितविक्रम किमर्थं सूतपुत्रेण न मुक्ता फल्गुने तु सा ॥ 31 ॥

  32. [वासु] दुःषासनश च कर्णश च शकुनिश च स सैन्धवः सततं मन्त्रयन्ति सम दुर्यॊधन पुरॊगमाः ॥ 32 ॥

  33. कर्ण कर्ण महेष्वास रणे ऽमितपराक्रम नान्यस्य शक्तिर एषा ते मॊक्तव्या जयतां वर ॥ 33 ॥

  34. ऋते महारथात पार्थात कुन्तीपुत्राद धनंजयात स हि तेषाम अतियशा देवानाम इव वासवः ॥ 34 ॥

  35. तस्मिन विनिहते सर्वे पाण्डवाः सृञ्जयैः सह भविष्यन्ति गतात्मानः सुरा इव निरग्नयः ॥ 35 ॥

  36. तथेति च परतिज्ञातं कर्णेन शिनिपुंगव हृदि नित्यं तु कर्णस्य वधॊ गाण्डीवधन्वनः ॥ 36 ॥

  37. अहम एव तु राधेयं मॊहयामि युधां वर यतॊ नावसृजच छक्तिं पाण्डवे शवेतवाहने ॥ 37 ॥

  38. फल्गुनस्य हि तां मृत्युम अवगम्य युयुत्सतः न निद्रा न च मे हर्षॊ मनसॊ ऽसति युधां वर ॥ 38 ॥

  39. घटॊत्कचे वयंसितां तु दृष्ट्वा तां शिनिपुंगव मृत्यॊर आस्यान्तरान मुक्तं पश्याम्य अद्य धनंजयम ॥ 39 ॥

  40. न पिता न च मे माता न यूयं भरातरस तथा न च पराणास तथा रक्ष्या यथा बीभत्सुर आहवे ॥ 40 ॥

  41. तरैलॊक्यराज्याद यत किं चिद भवेद अन्यत सुदुर्लभम नेच्छेयं सात्वताहं तद विना पार्थं धनंजयम ॥ 41 ॥

  42. अतः परहर्षः सुमहान युयुधानाद्य मे ऽभवत मृतं परत्यागतम इव दृष्ट्वा पार्थं धनंजयम ॥ 42 ॥

  43. अतश च परहितॊ युद्धे मया कर्णाय राक्षसः न हय अन्यः समरे रात्रौ शक्तः कर्णं परबाधितुम ॥ 43 ॥

  44. [स] इति सात्यकये पराह तदा देवकिनन्दनः धनंजय हिते युक्तस तत्प्रिये सततं रतः ॥ 44 ॥

Reach this point to mark the section finished.

Continue to अध्याय 158

Previous: अध्याय 156