धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 156

  1. [अर्ज] कथम अस्मद्धितार्थं ते कैश च यॊगैर जनार्दन जरासंधप्रभृतयॊ घातिताः पृथिवीष्वराः ॥ 1 ॥

  2. [वासु] जरा संघश चेदिराजॊ नैषादिश च महाबलः यदि सयुर न हताः पूर्वम इदानीं सयुर भयंकराः ॥ 2 ॥

  3. सुयॊधनस तान अपश्यं कृषुयाद रथसत्तमान ते ऽसमाभिर नित्यसंदुष्टाः संश्रयेयुश च कौरवान ॥ 3 ॥

  4. ते हि वीरा महात्मानः कृतास्त्रा दृढयॊधिनः धार्तराष्ट्रीं चमूं कृत्स्नां रक्षेयुर अमरा इव ॥ 4 ॥

  5. सूतपुत्रॊ जरासंधश चेदिराजॊ निषादजः सुयॊधनं समाश्रित्य पतेरन पृथिवीम इमाम ॥ 5 ॥

  6. यॊगैर अपि हता यैस ते तान मे शृणु धनंजय अजय्या हि विना यॊगैर मृधे ते दैवतैर अपि ॥ 6 ॥

  7. एकैकॊ हि पृथक तेषां समस्तां सुरवाहिनीम यॊधयेत समरे पार्थ लॊकपालाभिरक्षिताम ॥ 7 ॥

  8. जरासंधॊ हि रुषितॊ रौहिणेय परधर्षितः अस्मद्वधार्थं चिक्षेप गदां वै लॊहिता मुखीम ॥ 8 ॥

  9. सीमन्तम इव कुर्वाणां नभसः पावकप्रभाम वयदृश्यतापतन्ती सा शक्र मुक्ता यथाशनिः ॥ 9 ॥

  10. ताम आपतन्तीं दृष्ट्वैव गदां रॊहिणिनन्दनः परतिघातार्थम अस्त्रं वै सथूणाकर्णम अवासृजत ॥ 10 ॥

  11. अस्त्रवेगप्रतिहता सा गदा परापतद भुवि दारयन्ती धरां देवीं कम्पयन्तीव पर्वतान ॥ 11 ॥

  12. तत्र सम राक्षसी घॊरा जरा नामाशु विक्रमा संधयाम आस तं जातं जराल्संधम अरिंदमम ॥ 12 ॥

  13. दवाभ्यां जातॊ हि मातृभ्याम अर्धदेहः पृथक पृथक तया स संधितॊ यस्माज जरासंधस ततः समृतः ॥ 13 ॥

  14. सा तु भूमिगता पार्थ हता स सुतबान्धवा गदया तेन चास्त्रेण सथूणाकर्णेन राक्षसी ॥ 14 ॥

  15. विना भूतः सगदया जरासंधॊ महामृधे निहतॊ भीमसेनेन पश्यतस ते धनंजय ॥ 15 ॥

  16. यदि हि सयाद गदापाणिर जरासंधः परतापवान सेन्द्रा देवा न तं हन्तुं रणे शक्ता नरॊत्तम ॥ 16 ॥

  17. तवद्धितार्थं हि नैषादिर अङ्गुष्ठेन वियॊजितः दरॊणेनाचार्यकं कृत्वा छद्मना सत्यविक्रमः ॥ 17 ॥

  18. स तु बद्धाङ्गुलि तराणॊ नैषादिर दृढविक्रमः अस्यन्न एकॊ वनचरॊ बभौ राम इवापरः ॥ 18 ॥

  19. एकलब्यं हि साङ्गुष्ठम अशक्ता देवदानवाः स राक्षसॊरगाः पार्थ विजेतुं युधि कर्हि चित ॥ 19 ॥

  20. किम उ मानुषमात्रेण शक्यः सयात परतिवीक्षितुम दृढमुष्टिः कृती नित्यम अस्यमानॊ दिवानिशम ॥ 20 ॥

  21. तवद्धितार्थं तु स मया हतः संग्राममूधनि चेदिराजश च विक्रान्तः परत्यक्षं निहतस तव ॥ 21 ॥

  22. स चाप्य अशक्यः संग्रामे जेतुं सर्वैः सुरासुरैः वधार्थं तस्य जातॊ ऽहम अन्येषां च सुरद्विषाम ॥ 22 ॥

  23. तवत्सहायॊ नरव्याघ्र लॊकानां हितकाम्यया हिडिम्बबककिर्मीरा भीमसेनेन पातिताः रावणेन समप्राणा बरह्म यज्ञविनाशनाः ॥ 23 ॥

  24. हतस तथैव मायावी हैडिम्बेनाप्य अलायुधः हैडिम्बश चाप्य उपायेन शक्त्या कर्णेन घातितः ॥ 24 ॥

  25. यदि हय एनं नाहनिष्यत कर्णः शक्त्या महामृधे मया वध्यॊ ऽभविष्यत स भैमसेनिर घटॊत्कचः ॥ 25 ॥

  26. मया न निहतः पूर्वम एष युष्पत परियेप्सया एष हि बराह्मण दवेषी यज्ञद्वेषी च राक्षसः ॥ 26 ॥

  27. धर्मस्य लॊप्ता पापात्मा तस्माद एष निपातितः वयंसिता चाप्य उपायेन शक्रदत्ता मयानघ ॥ 27 ॥

  28. ये हि धर्मस्य लॊप्तारॊ वध्यास ते मम पाण्डव धर्मसंस्थापनार्थं हि परतिज्ञैषा ममाव्यया ॥ 28 ॥

  29. बरह्मसत्यं दमः शौचं धर्मॊ हरीः शरीर धृतिः कषमा यत्र तत्र रमे नित्यम अहं सत्येन ते शपे ॥ 29 ॥

  30. न विषादस तवया कार्यः कर्म वैकर्तनं परति उपदेक्ष्याम्य उपायं ते येन तं परसहिष्यसि ॥ 30 ॥

  31. सुयॊधनं चापि रणे हनिष्यति वृकॊदरः तस्य चापि वधॊपायं वक्ष्यामि तव पाण्डवः ॥ 31 ॥

  32. वर्धते तुमुलस तव एष शब्दः परचमूं परति विद्रवन्ति च सैन्यानि तवदीयानि दिशॊ दश ॥ 32 ॥

  33. लब्धलक्ष्या हि कौरव्या विधमन्ति चमूं तव दहत्य एष च वः सैन्यं दरॊणः परहरतां वरः ॥ 33 ॥

Reach this point to mark the section finished.

Continue to अध्याय 157

Previous: अध्याय 155