[स] हैडिम्बं निहतं दृष्ट्वा विकीर्णम इव पर्वतम पाण्डवा दीनमनसः सर्वे बाष्पाकुलेक्षणाः ॥ 1 ॥
वासुदेवस तु हर्षेण महताभिपरिप्लुतः ननाद सिंहवन नादं वयथयन्न इव भारत विनद्य च महानादं पर्यष्वजत फल्गुनम ॥ 2 ॥
स विनद्य महानादम अभीशून संनियम्य च ननर्त हर्षसंवीतॊ वातॊद्धूत इव दरुमः ॥ 3 ॥
ततॊ विनिर्भ्राम्य पुनः पार्थम आस्फॊट्य चासकृत रथॊपस्थ गतॊ भीमं पराणदत पुनर अच्युतः ॥ 4 ॥
परहृष्टमनसं जञात्वा वासुदेवं महाबलम अब्रवीद अर्जुनॊ राजन नातिहृष्टमना इव ॥ 5 ॥
अतिहर्षॊ ऽयम अस्थाने तवाद्य मधुसूदन शॊकस्थाने परे पराप्ते हैडिम्बस्य वधेन वै ॥ 6 ॥
विमुखानि च सैन्यानि हतं दृष्ट्वा घटॊत्कचम वयं च भृशम आविग्ना हैडिम्बस्य निपातनात ॥ 7 ॥
नैतत कारणम अल्पं हि भविष्यति जनार्दन तद अद्य शंस मे पृष्टः सत्यं सत्यवतां वर ॥ 8 ॥
यद्य एतन न रहस्यं ते वक्तुम अर्हस्य अरिंदम धैर्यस्य वैकृतं बरूहि तवम अद्य मधुसूदन ॥ 9 ॥
समुद्रस्येव संक्षॊभॊ मेरॊर इव विसर्पणम तथैतल लाघवं मन्ये तव कर्म जनार्दन ॥ 10 ॥
[वासु] अतिहर्षम इमं पराप्तं शृणु मे तवं धनंजय अतीव मनसः सद्यः परसादकरम उत्तमम ॥ 11 ॥
शक्तिं घटॊत्कचेनेमां वयंसयित्वा महाद्युते कर्णं निहतम एवाजौ विद्धि सद्यॊ धनंजय ॥ 12 ॥
शक्तिहस्तं पुनः कर्णं कॊ लॊके ऽसति पुमान इह य एनम अभितस तिष्ठेत कार्त्तिकेयम इवाहवे ॥ 13 ॥
दिष्ट्यापनीत कवचॊ दिष्ट्यापहृत कुण्डलः दिष्ट्या च वयंसिता शक्तिर अमॊघस्य घटॊत्कचे ॥ 14 ॥
यदि हि सत्यात स कवचस तथैव च सकुण्डलः सामरान अपि लॊकांस तरीन एकः कर्णॊ जयेद बली ॥ 15 ॥
वासवॊ वा कुबेरॊ वा वरुणॊ वा जलेश्वरः यमॊ वा नॊत्सहेत कर्णं रणे परतिसमासितुम ॥ 16 ॥
गाण्डीवम आयम्य भवांश चक्रं वाहं सुदर्शनम न शक्तौ सवॊ रणे जेतुं तथायुक्तं नरर्षभम ॥ 17 ॥
तवद्धितार्थं तु शक्रेण मायया हृतकुण्डलः विहीनकवचश चायं कृतः परपुरंजयः ॥ 18 ॥
उत्कृत्य कवचं यस्मात कुण्डले विमले च ते परादाच छक्राय कर्णॊ वै तेन वैकर्तनः समृतः ॥ 19 ॥
आशीविष इव करुद्धः सतम्भितॊ मन्त्रतेजसा तथाद्य भाति कर्णॊ मे शान्तज्वाल इवानलः ॥ 20 ॥
यदा परभृति कर्णाय शक्तिर दत्ता महात्मना वासवेन महाबाहॊ पराप्ता यासौ घटॊत्कचे ॥ 21 ॥
कुण्डलाभ्यां निमायाथ दिव्येन कवचेन च तां पराप्यामन्यत वृषा सततं तवां हतं रणे ॥ 22 ॥
एवंगते ऽपि शक्यॊ ऽयं हन्तुं नान्येन केन चित ऋते तवा पुरुषव्याघ्र शपे सत्येन चानघ ॥ 23 ॥
बरह्मण्यः सत्यवादी च तपस्वी नियतव्रतः रिपुष्व अपि दयावांश च तस्मात कर्णॊ वृषा समृपः ॥ 24 ॥
युद्धशौण्डॊ महाबाहुर नित्यॊद्यत शरासनः केसरीव वने मर्दन मत्तमातङ्गयूथपान विमदान रथशार्दूलान कुरुते रणमूर्धनि ॥ 25 ॥
मध्यं गत इवादित्यॊ यॊ न शक्यॊ निरीक्षितुम तवदीयैः पुरुषव्याघ्र यॊधमुख्यैर महात्मभिः शरजालसहस्रांशुः शरदीव दिवाकरः ॥ 26 ॥
तपान्ते तॊयदॊ यद्वच छरधाराः कषरत्य असौ दिव्यास्त्रजलदः कर्णः पर्जन्य इव वृष्टिमान सॊ ऽदय मानुषतां पराप्तॊ विमुक्तः शक्रदत्तया ॥ 27 ॥
एकॊ हि यॊगॊ ऽसय भवेद वधाय; छिद्रे हय एनं सवप्रमत्तः परमत्तम कृच्छ्रप्राप्तं रथचक्रे निमग्ने; हन्याः पूर्वं तवं तु संज्ञां विचार्य ॥ 28 ॥
जरासंधश चेदिराजॊ महात्मा; महाबलश चैकलब्यॊ निषादः एकैकशॊ निहताः सर्व एव; यॊगैस तैस तैस तवद्धितार्थं मयैव ॥ 29 ॥
अथापरे निहता राक्षसेन्द्रा; हिडिम्बकिर्मीरबकप्रधानाः अलायुधः परसैन्यावमर्दी; घटॊत्कचश चॊग्रकर्मा तरस्वी ॥ 30 ॥
द्रोणपर्व · Drona Parva
अध्याय 155
Reach this point to mark the section finished.
Continue to अध्याय 156