धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 154

  1. [स] निहत्यालायुधं रक्षः परहृष्टात्मा घटॊत्कचः ननाद विविधान नादान वाहिन्याः परमुखे सथितः ॥ 1 ॥

  2. तस्य तं तुमुलं शब्दं शरुत्वा कुञ्जरकम्पनम तावकानां महाराज भयम आसीत सुदारुणम ॥ 2 ॥

  3. अलायुध विषक्तं तु भैमसेनिं महाबलम दृष्ट्वा कर्णॊ महाबाहुः पाञ्चालान समुपाद्रवत ॥ 3 ॥

  4. दशभिर दशभिर बाणैर धृष्टद्युम्न शिखण्डिनौ दृढैः पूर्णायतॊत्सृष्टैर बिभेद नतपर्वभिः ॥ 4 ॥

  5. ततः परमनाराचैर युधामन्यूत्तमौजसौ सात्यकिं च रथॊदारं कम्पयाम आस मार्गणैः ॥ 5 ॥

  6. तेषाम अभ्यस्यतां तत्र सर्वेषां सव्यदक्षिणम मण्डलान्य एव चापानि वयदृश्यन्त जनाधिप ॥ 6 ॥

  7. तेषां जयातलनिर्घॊषॊ रथनेमि सवनश च ह मेघानाम इव घर्मान्ते बभूव तुमुलॊ निशि ॥ 7 ॥

  8. जयानेमिघॊषस्तनयित्नुमान वै; धनुस तडिन मण्डलकेतुशृङ्गः शरौघवर्षाकुल वृष्टिमांश च; संग्राममेघः स बभूव राजन ॥ 8 ॥

  9. तद उधतं शैल इवाप्रकम्प्यॊ; वर्षं महच छैलसमानसारः विध्वंसयाम आस रणे नरेन्द्र; वैकर्तनः शत्रुगणावमर्दी ॥ 9 ॥

  10. ततॊ ऽतुलैर वज्रनिपात कल्पैः; शितैः शरैः काञ्चनचित्रपुङ्खैः शत्रून वयपॊहत समरे महात्मा; वैकर्तनः पुत्र हिते रतस ते ॥ 10 ॥

  11. संछिन्नभिन्न धवजिनश च के चित; के चिच छरैर अर्दित भिन्नदेहाः के चिद विसूता विहयाश च के चिद; वैकर्तनेनाशु कृता बभूवुः ॥ 11 ॥

  12. अविन्दमानास तव अथ शर्म संख्ये; यौधिष्ठिरं ते बलम अन्वपद्यन तान परेक्ष्य भग्नान विमुखीकृतांश च; घटॊत्कचॊ रॊषम अतीव चक्रे ॥ 12 ॥

  13. आस्थाय तं काञ्चनरत्नचित्रं; रथॊत्तमं सिंह इवॊननाद वैकर्तनं कर्णम उपेत्य चापि; विव्याध वज्रप्रतिमैः पृषत्कैः ॥ 13 ॥

  14. तौ कर्णिनाराच शिलीमुखैश; च नालीकदण्डैश च स वत्सदन्तैः वराहकर्णैः स विषाण शृङ्गैः; कषुरप्र वर्षैश च विनेदतुः खम ॥ 14 ॥

  15. तद बाणधारावृतम अन्तरिक्षं; तिर्यग्गताभिः समरे रराज सुवर्णपुङ्ख जवलितप्रभाभिर; विचित्रपुष्पाभिर इव सरजाभिः ॥ 15 ॥

  16. समं हि ताव आप्रतिम परभावाव; अन्यॊन्यम आजघ्नतुर उत्तमास्त्रैः तयॊर हि वीरॊत्तमयॊर न कश चिद; ददर्श तस्मिन समरे विशेषम ॥ 16 ॥

  17. अतीव तच चित्रम अतीव रूपं; बभूव युद्धं रविभीम सून्वॊः समाकुलं शस्त्रनिपात घॊरं; दिवीव राह्वंशुमतॊः परतप्तम ॥ 17 ॥

  18. घटॊत्कचॊ यदा कर्णं न विशेषयते नृप तदा परादुश्चकारॊग्रम अस्त्रम अस्त्रविदां वरः ॥ 18 ॥

  19. तेनास्त्रेण हयान पूर्वं हत्वा कर्णस्य राक्षसः सारथिं चैव हैडिम्बः कषिप्रम अन्तरधीयत ॥ 19 ॥

  20. [धृ] तथा हय अन्तर्हिते तस्मिन कूटयॊधिनि राक्षसे मामकैः परतिपन्नं यत तन ममाचक्ष्व संजय ॥ 20 ॥

  21. [स] अन्तर्हितं राक्षसं तं विदित्वा; संप्राक्रॊशन कुरवः सर्व एव कथं नायं राक्षसः कूटयॊधी; हन्यात कर्णं समरे ऽदृश्यमानः ॥ 21 ॥

  22. ततः कर्णॊ लघुचित्रास्त्र यॊधी; सर्वा दिशॊ वयावृणॊद बाणजालैः न वै किं चिद वयापतत तत्र भूतं; तमॊ भूते सायकैर अन्तरिक्षे ॥ 22 ॥

  23. न चाददानॊ न च संदधानॊ; न चेषुधी सपृशमानः कराग्रैः अदृश्यद वै लाघवात सूतपुत्रः; सर्वं बाणैश छादयानॊ ऽनतरिक्षम ॥ 23 ॥

  24. ततॊ मायां विहिताम अन्तरिक्षे; घॊरां भीमां दारुणां राक्षसेन संपश्यामॊ लॊहिताभ्र परकाशां; देदीप्यन्तीम अग्निशिखाम इवॊग्राम ॥ 24 ॥

  25. ततस तस्या विद्युतः परादुरासन्न; उल्काश चापि जवलिताः कौरवेन्द्र घॊषश चान्यः परादुरासीत सुघॊरः; सहस्रशॊ नदतां दुन्दुभीनाम ॥ 25 ॥

  26. ततः शराः परापतन रुक्मपुङ्खाः; शक्त्याः परासा मुसलान्य आयुधानि परश्वधास तैलधौताश च खड्गाः; परदीप्ताग्राः पट्टिशास तॊमराश च ॥ 26 ॥

  27. मयूखिनः परिघा लॊहबद्धा; गदाश चित्राः शितधाराश च शूलाः गुर्व्यॊ गदा हेमपट्टावनद्धाः; शतघ्न्यश च परादुरासन समन्तात ॥ 27 ॥

  28. महाशिलाश चापतंस तत्र तत्र; सहस्रशः साशनयः सवज्राः चक्राणि चानेक शतक्षुराणि; परादुर्बभूवुर जवलनप्रभाणि ॥ 28 ॥

  29. तां शक्तिपाषाण परश्वधानां; परासासिवज्राशनिमुद्गराणाम वृष्टिं विशालां जवलितां पतन्तीं; कर्णः शरौघैर न शशाक हन्तुम ॥ 29 ॥

  30. शराहतानाम अततां हयानां; वज्राहतानां पततां गजानाम शिला हतानां च महारथानां; महान निनादः पततां बभूव ॥ 30 ॥

  31. सुभीम नानाविध शस्त्रपातैर; घटॊत्कचेनाभिहतं समन्तात दौर्यॊधनं तद बलम आर्तरूपम; आवर्तमानं ददृशे भरमन्तम ॥ 31 ॥

  32. हाहाकृतं संपरिवर्तमानं; संलीयमानं च विषण्णरूपम ते तव आर्य भावात पुरुषप्रवीराः; पराङ्मुखा न बभूवुस तदानीम ॥ 32 ॥

  33. तां राक्षसीं घॊरतरां सुभीमां; वृष्टिं महाशस्त्रमयीं पतन्तीम दृष्ट्वा बलौघांश च निपात्यमानान; महद भयं तव पुत्रान विवेश ॥ 33 ॥

  34. शिवाश च वैश्वानरदीप्तजिह्वाः; सुभीम नादाः शतशॊ नदन्त्यः रक्षॊगणान नर्दतश चाभिवीक्ष्य; नरेन्द्र यॊधा वयथिता बभूवुः ॥ 34 ॥

  35. ते दीप्तजिह्वानन तीक्ष्णदंष्ट्रा; विभीषणाः शैलनिकाश कायाः नभॊगताः शक्तिविषक्त हस्ता; मेघा वयमुञ्चन्न इव वृष्टिमार्गम ॥ 35 ॥

  36. तैर आहतास ते शरशक्तिशूलैर; गदाभिर उग्रैः परिघैश च दीप्तैः वज्रैः पिनाकैर अशनिप्रहारैश; चक्रैः शतघ्न्युन्मथिताश च पेतुः ॥ 36 ॥

  37. हुडा भुशुण्ड्यॊ ऽशमगुडाः शतध्न्यः; सथूणाश च कार्ष्णायस पट्टनद्धाः अवाकिरंस तव पुत्रस्य सैन्यं; तथा रौद्रं कश्मलं परादुरासीत ॥ 37 ॥

  38. निष्कीर्णान्त्रा विहतैर उत्तमाङ्गैः; संभग्नाङ्गाः शेरते तत्र शूराः भिन्ना हयाः कुञ्जराश चावभग्नाः; संचूर्णिताश चैव रथाः शिलाभिः ॥ 38 ॥

  39. एवं महच छस्त्र वर्षं सृजन्तस; ते यातुधाना भुवि घॊररूपाः मायाः सृष्टास तत्र घटॊत्कचेन; नामुञ्चन वै याचमानं न भीतम ॥ 39 ॥

  40. तस्मिन घॊरे कुरुवीरावमर्दे; कालॊत्सृष्टे कषत्रियाणाम अभावे ते वै भग्नाः सहसा वयद्रवन्त; पराक्रॊशन्तः कौरवाः सर्व एव ॥ 40 ॥

  41. पलायध्वं कुरवॊ नैतद अस्ति; सेन्द्रा देवा घनन्ति नः पाण्डवार्थे तथा तेषां मज्जतां भारतानां; न सम दवीपस तत्र कश चिद बभूव ॥ 41 ॥

  42. तस्मिन संक्रन्दे तुमुले वर्तमाने; सैन्ये भग्ने लीयमाने कुरूणाम अनीकानां परविभागे ऽपरकाशे; न जञायन्ते कुरवॊ नेतरे वा ॥ 42 ॥

  43. निर्मर्यादे विद्रवे घॊररूपे; सर्वा दिशः परेक्षमाणाः सम शून्याः तां शस्त्रवृष्टिम उरसा गाहमानं; कर्णं चैकं तत्र राजन्न अपश्यम ॥ 43 ॥

  44. ततॊ बाणैर आवृणॊद अन्तरिक्षं; दिव्यां मायां यॊधयन राक्षसस्य हरीमान कुर्वन दुष्करम आर्य कर्म; नैवामुह्यत संयुगे सूतपुत्रः ॥ 44 ॥

  45. ततॊ भीताः समुदैक्षन्त कर्णं; राजन सर्वे सैन्धवा बाह्लिकाश च असंमॊहं पूजयन्तॊ ऽसय संख्ये; संपश्यन्तॊ विजयं राक्षसस्य ॥ 45 ॥

  46. तेनॊत्सृष्टा चक्रयुक्ता शतघ्नी; समं सर्वांश चतुरॊ ऽशवाञ जघान ते जानुभिर जगतीम अन्वपद्यन; गतासवॊ निर्दशनाक्षि जिह्वाः ॥ 46 ॥

  47. ततॊ हताश्वाद अवरुह्य वाहाद; अन्तर मनाः कुरुषु पराद्रवत्सु दिव्ये चास्त्रे मायया वध्यमाने; नैमामुह्यच चिन्तयन पराप्तकालम ॥ 47 ॥

  48. ततॊ ऽबरुवन कुरवः सर्व एव; कर्णं दृष्ट्वा घॊररूपां च मायाम शक्त्या रक्षॊ जहि कर्णाद य तूर्णं; नश्यन्त्य एते कुरवॊ धार्तराष्ट्राः ॥ 48 ॥

  49. करिष्यतः किं च नॊ भीम पार्थौ; पतन्तम एनं जहि रक्षॊ निशीथे यॊ नः संग्रामाद घॊररूपाद विमुच्येत; स नः पार्थान समरे यॊधयेत ॥ 49 ॥

  50. तस्माद एनं राक्षसं घॊररूपं; जहि शक्त्या दत्तया वासवेन मा कौरवाः सर्व एवेन्द्र कल्पा; रात्री मुखे कर्ण नेशुः स यॊधाः ॥ 50 ॥

  51. स वध्यमानॊ रक्षसा वै निशीथे; दृष्ट्वा राजन नश्यमानं बलं च महच च शरुत्वा निनदं कौरवाणां; मतिं दध्रे शक्तिमॊक्षाय कर्णः ॥ 51 ॥

  52. स वै करुद्धः सिंह इवात्यमर्षी; नामर्षयत परतिघातं रणे तम शक्तिं शरेष्ठां वैजयन्तीम असह्यां; समाददे तस्य वधं चिकीर्षन ॥ 52 ॥

  53. यासौ राजन निहिता वर्षपूगान; वधायाजौ सत्कृता फल्गुनस्य यां वै परादात सूतपुत्राय शक्रः; शक्तिं शरेष्ठां कुण्डलाभ्यां निमाय ॥ 53 ॥

  54. तां वै शक्तिं लेलिहानां परदीप्तां; पाशैर युक्ताम अन्तकस्येव रात्रिम मृत्यॊः सवसारं जवलिताम इवॊल्कां; वैकर्तनः पराहिणॊद राक्षसाय ॥ 54 ॥

  55. ताम उत्तमां परकायापहन्त्रीं; दृष्ट्वा सौतेर बाहुसंस्थां जवलन्तीम भीतं रक्षॊ विप्रदुद्राव राजन; कृत्वात्मानं विन्ध्यपादप्रमाणम ॥ 55 ॥

  56. दृष्ट्वा शक्तिं कर्ण बाह्वन्तरस्थां; नेदुर भूतान्य अन्तरिक्षे नरेन्द्र ववुर तावास तुमुलाश चापि राजन; स निर्घाता चाशानिर गां जगाम ॥ 56 ॥

  57. सा तां मायां भस्मकृत्वा जवलन्ती; भित्त्वा गाढं हृदयं राक्षसस्य ऊर्ध्वं ययौ दीप्यमाना निशायां; नक्षत्राणाम अन्तराण्य आविशन्ती ॥ 57 ॥

  58. युद्ध्वा चित्रैर विविधैः शस्त्रपूगैर; दिव्यैर वीरॊ मानुषै राक्षसैश च नदन नादान विविधान भैरवांश च; पराणान इष्टांस तयाजितः शक्र शक्त्या ॥ 58 ॥

  59. इदं चान्यच चित्रम आश्चर्यरूपं; चकारासौ कर्म शत्रुक्षयाय तस्मिन काले शक्तिनिर्भिन्न मर्मा; बभौ राजन मेघशैलप्रकाशः ॥ 59 ॥

  60. ततॊ ऽनतरिक्षाद अपतद गतासुः; स राक्षसेन्द्रॊ भुवि भिन्नदेहः अवाक्शिराः सतब्धगात्रॊ विजिह्वॊ; घटॊत्कचॊ महद आस्थाय रूपम ॥ 60 ॥

  61. स तद रूपं भैरवं भीमकर्मा; भीमं कृत्वा भैमसेनिः पपात हतॊ ऽपय एवं तव सैन्य एकदेशम; अपॊथयत कौरवान भीषयाणः ॥ 61 ॥

  62. ततॊ मिश्राः पराणदन सिंहनादैर; भेर्यः शङ्खा मुरजाश चानकाश च दग्धां मायां निहतं राक्षसं च; दृष्ट्वा हृष्टाः पराणदन कौरवेयाः ॥ 62 ॥

  63. ततः कर्णः कुरुभिः पूज्यमानॊ; यथा शक्रॊ वृत्रवधे मरुद्भिः अन्वारूढस तव पुत्रं रथस्यं; हृष्टश चापि पराविशत सवं स सैन्यम ॥ 63 ॥

Reach this point to mark the section finished.

Continue to अध्याय 155

Previous: अध्याय 153