[स] संप्रेक्ष्य समरे भीमं रक्षसा गरस्तम अन्तिकात वासुदेवॊ ऽबरवीद वाक्यं घटॊत्कचम इदं तदा ॥ 1 ॥
पश्य भीमं महाबाहॊ रक्षसा गरस्तम अन्तिकात पश्यतां सर्वसैन्यानां तव चैव महाद्युते ॥ 2 ॥
स कर्णं तवं समुत्सृज्य राक्षसेन्द्रम अलायुधम जहि कषिप्रं महाबाहॊ पश्चात कर्णं वधिष्यसि ॥ 3 ॥
स वार्ष्णेय वचः शरुत्वा कर्णम उत्सृज्य वीर्यवान युयुधे राक्षसेन्द्रेण बकभ्रात्रा घटॊत्कचः तयॊः सुतुमुलं युद्धं बभूव निशि रक्षसॊः ॥ 4 ॥
अलायुधस्य यॊधांस तु राक्षसान भीमदर्शनान वेगेनापततः शूरान परगृहीतशरासनान ॥ 5 ॥
आत्तायुधः सुसंक्रुद्धॊ युयुधानॊ महारथः नकुलः सहदेवश च चिच्छिदुर निशितैः शरैः ॥ 6 ॥
सर्वांश च समरे राजन किरीटी कषत्रियर्षभान परिचिक्षेप बीभत्सुः सर्वथ परक्षिपञ शरान ॥ 7 ॥
कर्णश च समरे राजन वयद्रावयत पार्थिवान धृष्टद्युम्न शिखण्ड्यादीन पाञ्चालानां महारथान ॥ 8 ॥
तान वध्यमानान दृष्ट्वा तु भीमॊ भीमपराक्रमः अभ्ययात तवरितः कर्णं विशिखन्न विकिरन रणे ॥ 9 ॥
ततस ते ऽपय आययुर हत्वा राक्षसान्य अत्र सूतजः नकुलः सहदेवश च सात्यकिश च महारथः ते कर्णं यॊधयाम आसुः पाञ्चाला दरॊणम एव च ॥ 10 ॥
अलायुधस तु संक्रुद्धॊ घटॊत्कचम अरिंदमम परिघेणातिकायेन ताडयाम आस मूर्धनि ॥ 11 ॥
स तु तेन परहारेण भैमसेनिर महाबलः ईषन मूर्छान्वितॊ ऽऽतमानं संस्तम्भयत वीर्यवान ॥ 12 ॥
ततॊ दीप्ताग्निसंकाशां शतघण्टाम अलंकृताम चिक्षेप समरे तस्मै गदां काञ्चनभूषणाम ॥ 13 ॥
सा हयान सारथिं चैव रथं चास्य महास्वना चूर्णयाम आस वेगेन विसृष्टा भीमकर्मणा ॥ 14 ॥
स भग्नहयचक्राक्षॊ विशीर्णध्वजकूबरः उत्पपात रथात तूर्णं मायाम आस्थाय राक्षसीम ॥ 15 ॥
स समास्थाय मायां तु ववर्ष रुधिरं बहु विद्युद विभ्राजितं चासीत तिमिराभ्राकुलं नभः ॥ 16 ॥
ततॊ वज्रनिपाताश च साशनिस्तनयित्नवः महांश चटचटा शब्दस तत्रासीद धि महाहवे ॥ 17 ॥
तां परेक्ष्य विहितां मायां राक्षसॊ राक्षसेन तु ऊर्ध्वम उत्पत्य हैडिम्बस तां मायां माययावधीत ॥ 18 ॥
सॊ ऽभिवीक्ष्य हतां मायां मायावी माययैव हि अश्मवर्षं सुतुमुलं विससर्ज घटॊत्कचे ॥ 19 ॥
अश्मवर्षं स तद घॊरं शरवर्षेण वीर्यवान दिशॊ विध्वंसयाम आस तद अद्भुतम इवाभवत ॥ 20 ॥
ततॊ नानाप्रहरणैर अन्यॊन्यम अभिवर्षताम आयसैः परिघैः शूलैर गदामुसलमुद्गलैः ॥ 21 ॥
पिनाकैः करवालैर्श च तॊमरप्रासकम्पनैः नाराचैर निशितैर भल्लैः शरैश चक्रैः परश्वधैः ॥ 22 ॥
अयॊ गुडैर भिण्डिपालैर गॊशीर्षॊलूखलैर अपि उत्पाट्य च महाशाखैर विविधैर जगती रुहैः ॥ 23 ॥
शमी पीलु करीरैश च शम्याकैश चैव भारत इङ्गुदैर बदरीभिश च कॊविदारैश च पुष्पितैः ॥ 24 ॥
पलाशैर अरिमेदैश च पलक्षन्यग्रॊधपिप्पलैः मयद्भिः समरे तस्मिन्न अन्यॊन्यम अभिजघ्नतुः ॥ 25 ॥
विविधैः पर्वताग्रैश च नानाधातुभिर आचितैः तेषां शब्धॊ महान आसीद वज्राणां भिद्यताम इव ॥ 26 ॥
युद्धं तद अभवद घॊरं भैम्य अलायुधयॊर नृप हरीन्द्रयॊर यथा राजन वालिसुग्रीवयॊः पुरा ॥ 27 ॥
तौ युद्ध्वा विविधैर घॊरैर आयुधैर विशिखैस तथा परगृह्य निशितौ खड्गाव अन्यॊन्यम अभिजघ्नतुः ॥ 28 ॥
ताव अन्यॊन्यम अभिद्रुत्य केशेषु सुमहाबलौ भुजाभ्यां पर्यगृह्णीतां महाकायौ महाबलौ ॥ 29 ॥
तौ भिन्नगात्रौ परस्वेदं सुस्रुवाते जनाधिप रुधिरं च महाकायाव अभिवृष्टाव इवाचलौ ॥ 30 ॥
अथाभिपत्य वेगेन समुद्भ्राम्य च राक्षसम बलेनाक्षिप्य हैडिम्बश चकर्तास्य शिरॊमहत ॥ 31 ॥
सॊ ऽपहृत्य शिरस तस्य कुण्डलाभ्यां विभूषितम तदा सुतुमुलं नादं ननाद सुमहाबलः ॥ 32 ॥
हतं दृष्ट्वा महाकायं बकज्ञातिम अरिंदमम पाञ्चालाः पाण्डवाश चैव सिंहनादान विनेदिरे ॥ 33 ॥
ततॊ भेरीसहस्राणि शङ्खानाम अयुतानि च अवादयन पाण्डवेयास तस्मिन रक्षसि पातिते ॥ 34 ॥
अतीव सा निशा तेषां बभूव विजयावहा विद्यॊतमाना विबभौ समन्ताद दीपमालिनी ॥ 35 ॥
अलायुधस्य तु शिरॊ भैमसेनिर महाबलः दुर्यॊधनस्य परमुखे चिक्षेप गतचेतनम ॥ 36 ॥
अथ दुर्यॊधनॊ राजा दृष्ट्वा हतम अलायुधम बभूव परमॊद्विग्नः सह सैन्येन भारत ॥ 37 ॥
तेन हय अस्य परतिज्ञातं भीमसेनम अहं युधि हन्तेति सवयम आगम्य समरता वैरम उत्तमम ॥ 38 ॥
धरुवं स तेन हन्तव्य इत्य अमन्यन्त पार्थिवः जीवितं चिरकालाय भरातॄणां चाप्य अमन्यत ॥ 39 ॥
स तं दृष्ट्वा विनिहतं भीमसेनात्मजेन वै परतिज्ञां भीमसेनस्य पूर्णाम एवाभ्यमन्यत ॥ 40 ॥
द्रोणपर्व · Drona Parva
अध्याय 153
Reach this point to mark the section finished.
Continue to अध्याय 154