[स] तम आगतम अभिप्रेक्ष्य भीमकर्माणम आहवे हर्षम आहारयां चक्रुः कुरवः सर्व एव ते ॥ 1 ॥
तथैव तव पुत्रास ते दुर्यॊधन पुरॊगमाः अप्लवाः पलवम आसाद्य तर्तुकामा इवार्णवम ॥ 2 ॥
पुनर्जातम इवात्मानं मन्वानाः पार्थिवास तदा अलायुधं राक्षसेन्द्रं सवागतेनाभ्यपूजयन ॥ 3 ॥
तस्मिंस तव अमानुषे युद्धे वर्तमाने भयावहे कर्ण राक्षसयॊर नक्तं दारुणप्रतिदर्शने ॥ 4 ॥
उपप्रैक्षन्त पाञ्चालाः समयमानाः सराजकाः तथैव तावका राजन घूर्णमानास ततस ततः ॥ 5 ॥
चुक्रुशुर नेदम अस्तीति दरॊण दरौणिकृपादयः तत कर्म दृष्ट्वा संभ्रान्ता हैडिम्बस्य रणाजिरे ॥ 6 ॥
सर्वम आविघ्नम अभवद धाहा भूतम अचेतनम तव सैन्यं महाराज निराशं कर्ण जीविते ॥ 7 ॥
दुर्यॊधनस तु संप्रेक्ष्य कर्णम आर्तिं परां गतम अलायुधं राक्षसेन्द्रम आहूयेदम अथाब्रवीत ॥ 8 ॥
एष वैकर्तनः कर्णॊ हैडिम्बेन समागतः कुरुते कर्म सुमहद यद अस्यौपयिकं मृधे ॥ 9 ॥
पश्यैतान पार्थिवाञ शूरान निहतान भैमसेनिना नानाशस्त्रैर अभिहतान पादपान इव दन्तिना ॥ 10 ॥
तवैष भागः समरे राजमध्ये मया कृतः तवैवानुमते वीर तं विक्रम्य निबर्हय ॥ 11 ॥
पुरा वैकर्तनं कर्णम एष पापॊ घटॊत्कचः मायाबलम उपाश्रित्य कर्शयत्य अरिकर्शनः ॥ 12 ॥
एवम उक्तः स राज्ञा तु राक्षसस तीव्रविक्रमः तथेत्य उक्त्वा महाबाहुर घटॊत्कचम उपाद्रवत ॥ 13 ॥
ततः कर्णं समुत्सृज्य भैमसेनिर अपि परभॊ परत्यमित्रम उपायान्तं मर्दयाम आस मार्गणैः ॥ 14 ॥
तयॊः समभवद युद्धं करुद्धयॊ राक्षसेन्द्रयॊः मत्तयॊर वाशिता हेतॊर दविपयॊर इव कानने ॥ 15 ॥
रक्षसा विप्रमुक्तस तु कर्णॊ ऽपि रथिनां वरः अभ्यद्रवद भीमसेनं रथेनादित्यवर्चसा ॥ 16 ॥
तम आयान्तम अनादृत्य दृष्ट्वा गरस्तं घटॊत्कचम अलायुधेन समरे सिंहेनेव गवां पतिम ॥ 17 ॥
रथेनादित्यवपुषा भीमः परहरतां वरः किरञ शरौघान परययाव अलायुध रथं परति ॥ 18 ॥
तम आयान्तम अभिप्रेक्ष्य स तदालायुधः परभॊ घटॊत्कचं समुत्सृज्य भीमसेनं समाह्वयत ॥ 19 ॥
तं भीमः सहसाभ्येत्य राक्षसान्त करः परभॊ सगणं राक्षसेन्द्रं तं शरवर्षैर अवाकिरत ॥ 20 ॥
तथैवालायुधॊ राजञ शिला धौतैर अजिह्मगैः अभ्यवर्षत कौन्तेयं पुनः पुनर अरिंदमः ॥ 21 ॥
तथा ते राक्षसाः सर्वे भीमसेनम उपाद्रवन नानाप्रहरणा भीमास तवत्सुतानां जयैषिणः ॥ 22 ॥
स ताड्यमानॊ बलिभिर भीमसेनॊ महाबलः पञ्चभिः पञ्चभिः सर्वांस तान अविध्यच छितैः शरैः ॥ 23 ॥
ते वध्यमाना हीमेन राक्षसाः खरयॊनयः विनेदुस तुमुलान नादान दुद्रुवुश च दिशॊ दश ॥ 24 ॥
तांस तरास्यमानान भीमेन दृष्ट्वा रक्षॊ महाबलम अभिदुद्राव वेगेन शरैश चैनम अवाकिरत ॥ 25 ॥
तं भीमसेनः समरे तीक्ष्णाग्रैर अक्षिणॊच छरैः अलायुधस तु तान अस्तान भीमेन विशिखान रणे चिच्छेद कांश चित समरे तवरया कांश चिद अग्रहीत ॥ 26 ॥
स तं दृष्ट्वा राक्षसेन्द्रं भीमॊ भीमपराक्रमः गदां चिक्षेप वेगेन वज्रपातॊपमां तदा ॥ 27 ॥
ताम आपतन्तीं वेगेन गदां जवालाकुलां ततः गदया ताडयाम आस सा गदा भीमम आव्रजत ॥ 28 ॥
स राक्षसेन्द्रं कौन्तेयः शरवर्षैर अवाकिरत तान अप्य अस्याकरॊन मॊघान राक्षसॊ निशितैः शरैः ॥ 29 ॥
ते चापि राक्षसाः सर्वे सैनिका भीमरूपिणः शासनाद राक्षसेन्द्रस्य निजघ्नू रथकुञ्जरान ॥ 30 ॥
पाञ्चालाः सृञ्जयाश चैव वाजिनः परमद्विपाः न शान्तिं लेभिरे तत्र रक्षसैर भृशपीडिताः ॥ 31 ॥
तं तु दृष्ट्वा महाघॊरं वर्तमानं महाहवे अब्रवीत पुरुषश्रेष्ठॊ धनंजयम इदं वचः ॥ 32 ॥
पश्यं भीमं महाबाहॊ राक्षसेन्द्र वशंगतम पदवीम अस्य गच्छ तवं मा विचारय पाण्डव ॥ 33 ॥
धृष्टद्युम्नः शिखण्डी च युधामन्यूत्तमौजसौ सहिता दरौपदेयाश च कर्णं यान्तु महारथाः ॥ 34 ॥
नकुलः सहदेवश च युयुधानश च वीर्यवान इतरान राक्षसान घनन्तु शासनात तव पाण्डव ॥ 35 ॥
तवम अपीमां महाबाहॊ चमूं दरॊण पुरस्कृताम वारयस्व नरव्याघ्र महद धि भयम आगतम ॥ 36 ॥
एवम उक्ते तु कृष्णेन यथॊद्दिष्टा महारथाः जग्मुर वैकर्तनं कर्णं राक्षसांश चेतरान रणे ॥ 37 ॥
अथ पूर्णायतॊत्सृष्टैः शरैर आशीविषॊपमैः धनुश चिच्छेद भीमस्य राक्षसेन्द्रः परतापवान ॥ 38 ॥
हयांश चास्य शितैर बाणैः सारथिं च महाबलः जघान मिषतः संख्ये भीमसेनस्य भारत ॥ 39 ॥
सॊ ऽवतीर्य रथॊपस्थाद धताश्वॊ हतसारथिः तस्मै गुर्वीं गदां घॊरां स विनद्यॊत ससर्ज ह ॥ 40 ॥
ततस तां भीमनिर्घॊषाम आपतन्तीं महागदाम गदया राक्षसॊ घॊरॊ निजघान ननाद च ॥ 41 ॥
तद दृष्ट्वा राक्षसेन्द्रस्य घॊरं कर्म भयावहम भीमसेनः परहृष्टात्मा गदाम आशु परामृशत ॥ 42 ॥
तयॊः समभवद युद्धं तुमुलं नररक्षसॊः गदा निपातसंह्रादैर भुवं कम्पयतॊर भृशम ॥ 43 ॥
गदा विमुक्तौ तौ भूयः समासद्येतरेतरम मुष्टिभिर वज्रसंह्रादैर अन्यॊन्यम अभिजघ्नतुः ॥ 44 ॥
रथचक्रैर युगैर अक्षैर अधिष्ठानैर उपस्करैः यथासन्नम उपादाय निजघ्नतुर अमर्षणौ ॥ 45 ॥
तौ विक्षरन्तौ रुधिरं समासाद्येतरेतरम मत्ताव इव महानागाव अकृष्येतां पुनः पुनः ॥ 46 ॥
तम अपश्यद धृषीकेशः पाण्डवानां हिते रतः स भीमसेन रक्षार्थं हैडिम्बं परत्यचॊदयत ॥ 47 ॥
द्रोणपर्व · Drona Parva
अध्याय 152
Reach this point to mark the section finished.
Continue to अध्याय 153