धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 151

  1. [स] तस्मिंस तथा वर्तमाने कर्ण राक्षसयॊर मृधे अलायुधॊ राक्षसेन्द्रॊ वीर्यवान अभ्यवर्तत ॥ 1 ॥

  2. महत्या सेनया युक्तः सुयॊधनम उपागमत राक्षसानां विरूपाणां सहस्रैः परिवारितः नानारूपधरैर वीरैः पूर्ववैरम अनुस्मरन ॥ 2 ॥

  3. तस्य जञातिर हि विक्रान्तॊ बराह्मणादॊ बकॊ हतः किर्मीरश च महातेजा हिडिम्बश च सखा तथा ॥ 3 ॥

  4. स दीर्घकालाध्युषितं पूर्ववैरम अनुस्मरन विज्ञायैतन निशायुद्धं जिघांसुर भीमम आहवे ॥ 4 ॥

  5. स मत्त इव मातङ्गः संक्रुद्ध इव चॊरगः दुर्यॊधनम इदं वाक्यम अब्रवीद युद्धलालसः ॥ 5 ॥

  6. विदितं ते महाराज यथा भीमेन राक्षसाः हिडिम्बबककिर्मीरा निहता मम बान्धवाः ॥ 6 ॥

  7. परामर्शश च कन्याया हिडिम्बायाः कृतः पुरा किम अन्यद राक्षसान अन्यान अस्मांश च परिभूय ह ॥ 7 ॥

  8. तम अहं सगणं राजन स वाजिरथकुञ्जरम हैडिम्बं च सहामात्यं हन्तुम अभ्यागतः सवयम ॥ 8 ॥

  9. अद्य कुन्तीसुतान सर्वान वासुदेव पुरॊगमान हत्वा संभक्षयिष्यामि सर्वैर अनुचरैः सह निवारय बलं सर्वं वयं यॊत्स्याम पाण्डवान ॥ 9 ॥

  10. तस्य तद वचनं शरुत्वा हृष्टॊ दुर्यॊधनस तदा परतिपूज्याब्रवीद वाक्यं भरातृभिः परिवारितः ॥ 10 ॥

  11. तवां पुरस्कृत्य सगणं वयं यॊत्स्यामहे परान न हि वैरान्त मनसः सथास्यन्ति मम सैनिकाः ॥ 11 ॥

  12. एवम अस्त्व इति राजानम उक्त्वा राक्षसपुंगवः अभ्ययात तवरितॊ भीमं सहितः पुरुषाशनैः ॥ 12 ॥

  13. दीप्यमानेन वपुषा रथेनादित्यवर्चसा तादृशेनैव राजेन्द्र यादृशेन घटॊत्कचः ॥ 13 ॥

  14. तस्याप्य अतुलनिर्घॊषॊ बहु तॊरणचित्रितः ऋक्षचर्मावनद्धाङ्गॊ नल्व मात्रॊ महारथः ॥ 14 ॥

  15. तस्यापि तुरगाः शीघ्रा हस्तिकायाः खरस्वनाः शतं युक्ता महाकाया मांसशॊणितभॊजनाः ॥ 15 ॥

  16. तस्यापि रथनिर्घॊषॊ महामेघरवॊपमः तस्यापि सुमहच चापं दृढज्यं बलवत्तरम ॥ 16 ॥

  17. तस्याप्य अक्षसमा बाणा रुक्मपुङ्खाः शिलाशिताः सॊ ऽपि वीरॊ महाबाहुर यथैव स घटॊत्कचः ॥ 17 ॥

  18. तस्यापि गॊमायुबडाभिगुप्तॊ; बभूव केतुर जवलनार्कतुल्यः स चापि रूपेण घटॊत्कचस्य; शरीमत्तमॊ वयाकुलदीपितास्यः ॥ 18 ॥

  19. दीप्ताङ्गदॊ दीप्तकिरीट माली; बद्धस्रग उष्णीष निबद्धखड्गः गदी भुशुण्डी मुसली हरी च; शरासनी वारणतुल्यवर्ष्मा ॥ 19 ॥

  20. रथेन तेनानल वर्चसा च; विद्रावयन पाण्डव वाहिनीं ताम रराज संख्ये परिवर्तमानॊ; विद्युन्माली मेघ इवान्तरिक्षे ॥ 20 ॥

  21. ते चापि सर्वे परवरा नरेन्द्रा; महाबला वर्मिणश चर्मिणश च हर्षान्विता युयुधुस तत्र राजन; समन्ततः पाण्डव यॊधवीराः ॥ 21 ॥

Reach this point to mark the section finished.

Continue to अध्याय 152

Previous: अध्याय 150