[धृ] यत्र वैकर्तनः कर्णॊ राक्षसश च घटॊत्कचः निशीथे समसज्जेतां तद युद्धम अभवत कथम ॥ 1 ॥
कीदृशं चाभवद युद्धं तस्य घॊरस्य रक्षसः रथश च कीदृशस तस्य मायाः सर्वायुधानि च ॥ 2 ॥
किंप्रमाणा हयास तस्य रथकेतुर धनुस तथा कीदृशं वर्म चैवास्य कण्ठत्राणं च कीदृशम पृष्ठस तवम एतद आचक्ष्व कुशलॊ हय असिसंजय ॥ 3 ॥
[घ] लॊहिताक्षॊ महाकायस ताम्रास्यॊ निम्नितॊदरः ऊर्ध्वरॊमा हरि शमश्रुः शङ्कुकर्णॊ महाहनुः ॥ 4 ॥
आकर्णाद दारितास्यश च तीक्ष्णदंष्ट्रः करालवान सुदीर्घ ताम्रजिह्वौष्ठॊ लम्बभ्रूः सथूलनासिकः ॥ 5 ॥
नीलाङ्गॊ लॊहितग्रीवॊ निरि वर्ष्मा भयंकरः महाकायॊ महाबाहुर महाशीर्षॊ महाबलः ॥ 6 ॥
विकचः परुषस्पर्शॊ विकटॊद्बद्ध पिण्डिकः सथूलस्फिग गूढनाभिश च शिथिलॊपचयॊ महान ॥ 7 ॥
तथैव हस्ताभरणी महामायॊ ऽङगदी तथा उरसा धारयन निष्कम अग्निमालां यथाचलः ॥ 8 ॥
तस्य हेममयं चित्रं बहुरूपाङ्गशॊभितम तॊरणप्रतिमं शुभ्रं किरीटं मूर्ध्न्य अशॊभत ॥ 9 ॥
कुण्डले बालसूर्याभे मालां हेममयीं शुभाम धारयन विपुलं कांस्यं कवचं च महाप्रभम ॥ 10 ॥
किङ्किणीशतनिर्घॊषं रक्तध्वजपताकिनम ऋक्षचर्मावनद्धाङ्गं नल्व मात्रं महारथम ॥ 11 ॥
सर्वायुधवरॊपेतम आस्थितॊ धवजमालिनम अष्टचक्रसमायुक्तं मेघगम्भीर निस्वनम ॥ 12 ॥
तत्र मातङ्गसंकाशा लॊहिताक्षा विभीषणाः कामवर्णजवा युक्ता बलवन्तॊ ऽवहन हयाः ॥ 13 ॥
राक्षसॊ ऽसय विरूपाक्षः सूतॊ दीप्तास्य कुण्डलः रश्मिभिः सूर्यरश्म्य आभैः संजग्राह हयान रणे स तेन सहितस तस्थाव अरुणेन यथा रविः ॥ 14 ॥
संसक्त इव चाभ्रेण यथाद्रिर महता महान दिवस्पृक सुमहान केतुः सयन्दने ऽसय समुच्छ्रितः रथॊत्तमाग्नः करव्यादॊ गृध्रः परमभीषणः ॥ 15 ॥
वासवाशनि निर्घॊषं दृढज्यम अभिविक्षिपन वयक्तं किष्कु परीणाहं दवादशारत्नि कार्मुकम ॥ 16 ॥
रथाक्षमात्रैर इषुभिः सर्वाः परच्छादयन दिशः तस्यां वीरापहारिण्यां निशायां कर्णम अभ्ययात ॥ 17 ॥
तस्य विक्षिपतश चापं रथे विष्टभ्य तिष्ठतः अश्रूयत धनुर घॊषॊ विस्फूर्जितम इवाशनेः ॥ 18 ॥
तेन वित्रास्यमानानि तव सैन्यानि भारत समकम्पन्त सर्वाणि सिन्धॊर इव महॊर्मयः ॥ 19 ॥
तम आपतन्तं संप्रेक्ष्य विरूपाक्षं विभीषणम उत्स्मयन्न इव राधेयस तवरमाणॊ ऽभयवारयत ॥ 20 ॥
ततः कर्णॊ ऽभययाद एनम अस्यन्न अस्यन्तम अन्तिकात मातङ्ग इव मातङ्गं यूथर्षभ इवर्षभम ॥ 21 ॥
स संनिपातस तुमुलस तयॊर आसीद विशां पते कर्ण राक्षसयॊ राजन्न इन्द्र शम्बरयॊर इव ॥ 22 ॥
तौ परगृह्य महावेगे धनुषी भीमनिस्वने पराच्छादयेताम अन्यॊन्यं तक्षमाणौ महेषुभिः ॥ 23 ॥
ततः पूर्णायतॊत्सृष्टैः शरैः संनतपर्वभिः नयवारयेताम अन्यॊन्यं कांस्ये निर्भिद्य वर्मणी ॥ 24 ॥
तौ नखैर इव शार्दूलौ दन्तैर इव महाद्विपौ रथशक्तिभिर अन्यॊन्यं विशिखैश च ततक्षतुः ॥ 25 ॥
संछिन्दन्तौ हि गात्राणि संदधानौ च सायकान धक्ष्यमाणौ शरव्रातैर नॊदीक्षितुम अशक्नुताम ॥ 26 ॥
तौ तु विक्षत सर्वाग्नौ रुधिरौघपरिप्लुतौ वयभ्राजेतां यथा वारि परस्रुतौ गौरिकाचलौ ॥ 27 ॥
तौ शराग्र विभिन्नाङ्गौ निर्भिन्दन्तौ परस्परम नाकम्पयेताम अन्यॊन्यं यतमानौ महाद्युती ॥ 28 ॥
तत परवृत्तं निशायुद्धं चरं समम इवाभवत पराणयॊर दीव्यतॊ राजन कर्ण राक्षसयॊर मृधे ॥ 29 ॥
तस्य संदधतस तीक्ष्णाञ शरांश चासक्तम अस्यतः धनुर घॊषेण वित्रस्ताः सवे परे च तदाभवन घटॊत्कचं यदा कर्णॊ विशेषयति नॊ नृप ॥ 30 ॥
ततः परादुष्करॊद दिव्यम अस्त्रम अस्त्रविदां वरः कर्णेन विहितं दृष्ट्वा दिव्यम अस्त्रं घटॊत्कचः परादुश्चक्रे महामायां राक्षसः पाण्डुनन्दनः ॥ 31 ॥
शूलम उद्गर धारिण्या शैलपादप हस्तया रक्षसां घॊररूपाणां महत्या सेनया वृतः ॥ 32 ॥
तम उद्यतमहाचापं दृष्ट्वा ते वयथिता नृपाः भूतान्तकम इवायान्तं कालदण्डॊग्र धारिणम ॥ 33 ॥
घटॊत्कच परमुक्तेन सिंहनादेन भीषिताः परसुस्रुवुर गजा मूत्रं विव्यथुश च नरा भृशम ॥ 34 ॥
ततॊ ऽशमवृष्टिर अत्युग्रा महत्य आसीत समन्ततः अर्धरात्रे ऽधिकबलैर विमुक्ता रक्षसां बलैः ॥ 35 ॥
आयसानि च चक्राणि भुशुण्ड्यः शक्तितॊमराः पतन्त्य अविरलाः शूलाः शतध्न्यः पट्टिशास तथा ॥ 36 ॥
तद उग्रम अतिरौद्रं च दृट्वा युद्धं नराधिपाः पुत्राश च तव यॊधाश च वयथिता विप्रदुद्रुवुः ॥ 37 ॥
तत्रैकॊ ऽसत्रबलश्लाघी कर्णॊ मानी न विव्यथे वयधमच च शरैर मायां घटॊत्कच विनिर्मिताम ॥ 38 ॥
मायायां तु परहीणायाम अमर्षात स घटॊत्कचः विससर्ज शरान घॊरान सूतपुत्रं त आविशन ॥ 39 ॥
ततस ते रुधिराभक्ता भित्त्वा कर्णं महाहवे विविशुर धरणीं बाणाः संक्रुद्धा इव पन्नगाः ॥ 40 ॥
सूतपुत्रस तुसंक्रुद्धॊ लघुहस्तः परतापवान घटॊत्कचम अतिक्रम्य बिभेद दशभिः शरैः ॥ 41 ॥
घटॊत्कचॊ विनिर्भिन्नः सूतपुत्रेण मर्मसु चक्रं दिव्यं सहस्रारम अगृह्णाद वयथितॊ भृशम ॥ 42 ॥
कषुरान्तम बालसूर्याभं मणिरत्नविभूषितम चिक्षेपाधिरथेः करुद्धॊ भैम सेनिर जिघंसया ॥ 43 ॥
परविद्धम अतिवेगेन विक्षिप्तं कर्ण सायकैः अभाग्यस्येव संकल्पस तन मॊघम अपतद भुवि ॥ 44 ॥
घटॊत्कचस तु संक्रुद्धॊ दृष्ट्वा चक्रं निपातितम कर्णं पराच्छादयद बाणैः सवर्भानुर इव भास्करम ॥ 45 ॥
सूतपुत्रस तव असंभ्रान्तॊ रुद्रॊपेन्द्रेन्द्र विक्रमः घटॊत्कच रथं तूर्णं छादयाम आस पत्रिभिः ॥ 46 ॥
घटॊत्कचेन करुद्धेन गदा हेमाङ्गदा तदा कषिप्ता भराम्य शरैः सापि कर्णेनाभ्याहतापतत ॥ 47 ॥
ततॊ ऽनतरिक्षम उत्पत्य कालमेघ इवॊन्नदन परववर्ष महाकायॊ दरुमवर्षं नभस्तलात ॥ 48 ॥
ततॊ मायाविनं कर्णॊ भीमसेन सुतं दिवि मार्गणैर अभिविव्याध धनं सूर्य इवांशुभिः ॥ 49 ॥
तस्य सर्वान हयान हत्वा संछिद्य शतधा रथम अभ्यवर्षच छरैः कर्णः पर्जन्य इव वृष्टिमान ॥ 50 ॥
न चास्यासीद अनिर्भिन्नं गात्रे दव्यङ्गुलम अन्तरम सॊ ऽदृश्यत मुहूर्तेन शवाविच छललितॊ यथा ॥ 51 ॥
न हयान न रथं तस्य न धवजं न घटॊत्कचम दृष्टवन्तः सम समरे शरौघैर अभिसंवृतम ॥ 52 ॥
स तु कर्णस्य तद दिव्यम अस्त्रम अस्त्रेण शातयन मायायुद्धेन मायावी सूतपुत्रम अयॊधयत ॥ 53 ॥
सॊ ऽयॊधयत तदा कर्णं मायया लाघवेन च अलक्ष्यमाणॊ ऽथ दिवि शरजालेषु संपतन ॥ 54 ॥
भैमसेनिर महामायॊ मायया कुरुसत्तम परचकार महामायां मॊहयन्न इव भारत ॥ 55 ॥
स सम कृत्वा विरूपाणि वदनान्य अशुभाननः अग्रसत सूतपुत्रस्य दिव्यान्य अस्त्राणि मायया ॥ 56 ॥
पुनश चापि महाकायः संछिन्नः शतधा रणे गतसत्त्वॊ निरुत्साहः पतितः खाद वयदृश्यत हतं तं मन्यमानाः सम पराणदन कुरुपुंगवः ॥ 57 ॥
अथ देहैर नवैर अन्यैर दिक्षु सर्वास्व अदृश्यत पुनश चापि महाकायः शतशीर्षः शतॊदरः ॥ 58 ॥
वयदृश्यत महाबाहुर मैनाक इव पर्वतः अङ्गुष्ठ मात्रॊ भूत्वा च पुनर एव स राक्षसः सागरॊर्मिर इवॊद्धूतस तिर्यग ऊर्ध्वम अवर्तत ॥ 59 ॥
वसुधां दारयित्वा च पुनर अप्सु नयमज्जत अदृश्यत तदा तत्र पुनर उन्मज्जितॊ ऽनयतः ॥ 60 ॥
सॊ ऽवतीर्य पुनस तस्थौ रथे हेमपरिष्कृते कषितिं दयां च दिशश चैव माययावृत्य दंशितः ॥ 61 ॥
गत्वा कर्ण रथाभ्याशं विचलत कुण्डलाननः पराह वाक्यम असंभ्रान्तः सूतपुत्रं विशां पते ॥ 62 ॥
तिष्ठेदानीं न मे जीवन सूतपुत्र गमिष्यसि युद्धश्रद्धाम अहं ते ऽदय विनेष्यामि रणाजिरे ॥ 63 ॥
इत्य उक्त्वा रॊषताम्राक्षं रक्षः करूरपराक्रमम उत्पपातान्तरिक्षं च जहास च सुविस्वरम कर्णम अभ्याहनच चैव गजेन्द्रम इव केसरी ॥ 64 ॥
रथाक्षमात्रैर इषुभिर अभ्यवर्षद घटॊत्कचः रथिनाम ऋषभं कर्णं धाराभिर इव तॊयदः शरवृष्टिं च तां कर्णॊ दूरप्राप्ताम अशातयत ॥ 65 ॥
दृष्ट्वा च विहतां मायां कर्णेन भरतर्षभ घटॊत्कचस ततॊ मायां ससर्जान्तर्हितः पुनः ॥ 66 ॥
सॊ ऽभवद गिरिर इत्य उच्चः शिखरैस तरुसंकटैः शूलप्रासासि मुसलजलप्रस्रवणॊ महान ॥ 67 ॥
तम अञ्जन चयप्रख्यं कर्णॊ दृष्ट्वा महीधरम परपातैर आयुधान्य उग्राण्य उद्वहन्तं न चुक्षुभे ॥ 68 ॥
समयन्न इव ततः कर्णॊ दिव्यम अस्त्रम उदीरयत ततः सॊ ऽसत्रेण शैलेन्द्रॊ विक्षिप्तॊ वै वयनश्यत ॥ 69 ॥
ततः स तॊयदॊ भूत्वा नीलः सेन्द्रायुधॊ दिवि अश्मवृष्टिभिर अत्युग्रः सूतपुत्रम अवाकिरत ॥ 70 ॥
अथ संधाय वायव्यम अस्त्रम अस्त्रविदां वरः वयधमत कालमेघं तं कर्णॊ वैकर्तनॊ वृषा ॥ 71 ॥
स मार्गणगणैः कर्णॊ दिशः परच्छाद्य सर्वशः जघानास्त्रं महाराज घटॊत्कच समीरितम ॥ 72 ॥
ततः परहस्य समरे भैमसेनिर महाबलः परादुश्चक्रे महामायां कर्णं परति महारथम ॥ 73 ॥
स दृष्ट्वा पुनर आयान्तं रथेन रथिनां वरम घटॊत्कचम असंभ्रान्तं राक्षसैर बहुभिर वृतम ॥ 74 ॥
सिंहशार्दूलसदृशैर मत्तद्विरदविक्रमैः गजस्थैश च रथस्थैश च वाजिपृष्ठ गतैस तथा ॥ 75 ॥
नानाशस्त्रधरैर घॊरैर नाना कवचभूषणैः वृतं घटॊत्कचं करूरैर मरुद्भिर इव वासवम दृष्ट्वा कर्णॊ महेष्वासॊ यॊधयाम आस राक्षसम ॥ 76 ॥
घटॊत्कचस ततः कर्णं विद्ध्वा पञ्चभिर आशुगैः ननाद भैरवं नादं भीषयन सर्वपार्थिवान ॥ 77 ॥
भूयश चाञ्जलिकेनाथ स मार्गणगणं महत कर्ण हस्तस्थितं चापं चिच्छेदाशु घटॊत्कचः ॥ 78 ॥
अथान्यद धनुर आदाय दृढं भारसहं महत वयकर्षत बलात कर्ण इन्द्रायुधम इवॊच्छ्रितम ॥ 79 ॥
ततः कर्णॊ महाराज परेषयाम आस सायकान सुवर्णपुङ्खाञ शत्रुघ्नान खचरान राक्षसान परति ॥ 80 ॥
तद बाणैर अर्दितं यूथं रक्षसां पीनवक्षसाम सिंहेनेवार्दितं वन्यं गजानाम आकुलं कुलम ॥ 81 ॥
विधम्य राक्षसान बाणैः साश्वसूत गजान विभुः ददाह भगवान वह्निर भूतानीव युगक्षये ॥ 82 ॥
स हत्वा राक्षसीं सेनां शुशुभे सूतनन्दनः पुरेव तरिपुरं दग्ध्वा दिवि देवॊ महेश्वरः ॥ 83 ॥
तेषु राजसहस्रेषु पाण्डवेयेषु मारिष नैनं निरीक्षितुम अपि कश चिच छक्नॊति पार्थिव ॥ 84 ॥
ऋते घटॊत्कचाद राजन राक्षसेन्द्रान महाबलात भीमवीर्यबलॊपेतात करुद्धाद वैवस्वताद इव ॥ 85 ॥
तस्य करुद्धस्य नेत्राभ्यां पावकः समजायत महॊल्काभ्यां यथा राजन सार्चिषः सनेहबिन्दवः ॥ 86 ॥
तलं तलेन संहत्य संदश्य दशनच छदम रथम आस्थाय च पुनर मायया निर्मितं पुनः ॥ 87 ॥
युक्तं गजनिभैर वाहैः पिशाचवचनैः खरैः ससूतम अब्रवीत करुद्धः सूतपुत्राय मा वह ॥ 88 ॥
स ययौ घॊररूपेण रथेन रथिनां वरः दवैरथं सूतपुत्रेण पुनर एव विशां पते ॥ 89 ॥
स चिक्षेप पुनः करुद्धः सूतपुत्राय राक्षसः अष्टचक्रां महाघॊराम अशनिं रुद्र निर्मिताम ॥ 90 ॥
ताम अवप्लुत्य जग्राह कर्णॊ नयस्य रथे धनुः चिक्षेप चैनां तस्यैव सयन्दनात सॊ ऽवपुप्लुवे ॥ 91 ॥
साश्वसूत धवजं यानं भस्मकृत्वा महाप्रभा विवेश वसुधां भित्त्वा सुरास तत्र विसिस्मियुः ॥ 92 ॥
कर्णं तु सर्वभूतानि पूजयाम आसुर अञ्जसा यद अवप्लुत्य जग्राह देव सृष्टां महाशनिम ॥ 93 ॥
एवं कृत्वा रणे कर्ण आरुरॊह रथं पुनः ततॊ मुमॊच नाराचान सूतपुत्रः परंतपः ॥ 94 ॥
अशक्यं कर्तुम अन्येन सर्वभूतेषु मानद यद अकार्षीत तदा कर्णः संग्रामे भीमदर्शने ॥ 95 ॥
स हन्यमानॊ नाराचैर धाराभिर इव पर्वतः गन्धर्वनगराकारः पुनर अन्तरधीयत ॥ 96 ॥
एवं स वै महामायॊ मायया लाघवेन च अस्त्राणि तानि दिव्यानि जघान रिपुसूदनः ॥ 97 ॥
निहन्यमानेष्व अस्त्रेषु मायया तेन रक्षसा असंभ्रान्तस ततः कर्णस तद रक्षः परत्ययुध्यत ॥ 98 ॥
ततः करुद्धॊ महाराज भैमसेनिर महाबलः चकार बहुधात्मानं भीषयाणॊ नराधिपान ॥ 99 ॥
ततॊ दिग्भ्यः समापेतुः सिंहव्याघ्र तरक्षवः अग्निजिह्वाश च भुजगा विहगाश चाप्य अयॊमुखाः ॥ 100 ॥
स कीर्यमाणॊ निशितैः कर्ण चापच्युतैः शरैः नगराद्रिवनप्रख्यस तत्रैवान्तरधीयत ॥ 101 ॥
राक्षसाश च पिशाचाश च यातुधानाः शलावृकाः ते कर्णं भक्षयिष्यन्तः सर्वतः समुपाद्रवन अथैनं वाग्भिर उग्राभिस तरासयां चक्रिरे तदा ॥ 102 ॥
उद्यतैर बहुभिर घॊरैर आयुधैः शॊणितॊक्षितैः तेषाम अनेकैर एकैकं कर्णॊ दिव्याध चाशुगैः ॥ 103 ॥
परतिहत्य तु तां मायां दिव्येनास्त्रेण राक्षसीम आजघान हयान अस्य शरैः संनतपर्वभिः ॥ 104 ॥
ते भग्ना विकृताङ्गाश च छिन्नपृष्ठाश च सायकैः वसुधाम अन्वपद्यन्त पश्यतस तस्य रक्षसः ॥ 105 ॥
स भग्नमायॊ हैडिम्बः कर्णं वैकर्तनं ततः एष ते विदधे मृत्युम इत्य उक्त्वान्तरधीयत ॥ 106 ॥
द्रोणपर्व · Drona Parva
अध्याय 150
Reach this point to mark the section finished.
Continue to अध्याय 151