[स] दृष्ट्वा घटॊत्कचं राजन सूतपुत्र रथं परति परयान्तं तवयरा युक्तं जिघांसुं कर्णम आहवे ॥ 1 ॥
अब्रवीत तव पुत्रस तु दुःशासनम इदं वचः एतद रक्षॊरणे तूर्णं दृष्ट्वा कर्णस्य विक्रमम ॥ 2 ॥
अभियाति दरुतं कर्णं तद वारय महारथम वृतः सैन्येन महता याहि यत्र महाबलः ॥ 3 ॥
कर्णॊ वैकर्तनॊ युद्धे राक्षसेन युयुत्सति रक्ष कर्णं रणे यत्तॊ वृतः सैन्येन मानद ॥ 4 ॥
एतस्मिन्न अन्तरे राजञ जटासुरसुतॊ बली दुर्यॊधनम उपागम्य पराह परहरतां वरः ॥ 5 ॥
दुर्यॊधन तवामित्रान परख्यातान युद्धदुर्मदान पाण्डवान हन्तुम इच्छामि तवयाज्ञप्तः सहानुगान ॥ 6 ॥
जटासुरॊ मम पिता रक्षसाम अग्रणीः पुरा परयुज्य कर्म रक्षॊघ्नं कषुद्रैः पार्थैर निपातितः तस्यापचितिम इच्छामि तवद दिष्टॊ गन्तुम ईश्वर ॥ 7 ॥
तम अब्रवीत ततॊ राजा परीयमाणः पुनः पुनः दरॊणकर्णादिभिः सार्धं पर्याप्तॊ ऽहं दविषद वधे तवं तु गच्छ मयाज्ञप्तॊ जहि युद्धं घटॊक्तचम ॥ 8 ॥
तथेत्य उक्त्वा महाकायः समाहूय घटॊत्कचम जटासुरिर भैमसेनिं नाना शस्तैर अवाकिरत ॥ 9 ॥
अलम्बलं च कर्णं च कुरुसैन्यं च दुस्तरम हैडिम्बः परममाथैकॊ महावातॊ ऽमबुदान इव ॥ 10 ॥
ततॊ मायामयं दृष्ट्वा रथं तूर्णम अलम्बलः घटॊत्कचं शरव्रातैर नाना लिङ्गैः समार्दयत ॥ 11 ॥
विद्ध्वा च बहुभिर बाणैर भैमसेनिम अलम्बलः वयद्रावयच छरव्रातैः पाण्डवानाम अनीकिनीम ॥ 12 ॥
तेन विद्राव्यमाणानि पाणु सैन्यानि मारिष निशीथे विप्रकीर्यन्ते वातनुन्ना घना इव ॥ 13 ॥
घटॊत्कच शरैर नुन्ना तथैव कुरु वाहिनी निशीथे पराद्रवद राजन्न उत्सृज्यॊल्काः सहस्रशः ॥ 14 ॥
अलम्बलस ततः करुद्धॊ भैमसेनिं महामृधे आजघ्ने निशितैर बाणैस तॊत्त्रैर इव महाद्विपम ॥ 15 ॥
तिलशस तस्य तद यानं सूतं सर्वायुधानि च घटॊत्कचः परचिच्छेद पराणदच चातिदारुणम ॥ 16 ॥
ततः कर्णं शरव्रातैः कुरून अन्यान सहस्रशः अलम्बलं चाभ्यवर्षन मेघॊमेरुम इवाचलम ॥ 17 ॥
ततः संचुक्षुभे सैन्यं कुरूणां राक्षसार्दितम उपर्य उपरि चान्यॊन्यं चतुरङ्गं ममर्द ह ॥ 18 ॥
जटासुरिर महाराज विरथॊ हतसारथिः घटॊत्कचं रणे करुद्धॊ मुष्टिनाभ्यहनद दृढम ॥ 19 ॥
मुष्टिनाभिहतस तेन परचचाल घटॊत्कचः कषितिकम्पे यथा शैलः स वृक्षगणगुल्मवान ॥ 20 ॥
ततः स परिघाभेन दविट संघघ्नेन बाहुना जटासुरिं भैमसेनिर अवधीन मुष्टिना भृशम ॥ 21 ॥
तं परमथ्य तथ करुद्धस तूर्णं हैडिम्बिर आक्षिपत दॊर्भ्याम इन्द्रध्वजाहाभ्यां निष्पिपेष महीतले ॥ 22 ॥
अलम्बलॊ ऽपि विक्षिप्य समुत्क्षिप्य च राक्षसम घटॊत्कचं रणे रॊषान निष्पिपेष महीतले ॥ 23 ॥
तयॊः समभवद युद्धं गर्जतॊर अतिकाययॊः घटॊत्कचालम्बलयॊस तुमुलं लॊमहर्षणम ॥ 24 ॥
विशेषयन्ताव अन्यॊन्यं मायाभिर अतिमायिनौ युयुधाते महावीर्याव इन्द्र वैरॊचनाव इव ॥ 25 ॥
पावकाम्बुनिधी भूत्वा पुनर गरुड तक्षकौ पुनर मेघमहावातौ पुनर वज्रमहाचलौ पुनः कुञ्जरशार्दूलौ पुनः सवर्भानु भास्करौ ॥ 26 ॥
एवं माया शतसृजाव अन्यॊन्यवधकाङ्क्षिणौ भृशं चित्रम अयुध्येताम अलम्बल घटॊत्कचौ ॥ 27 ॥
परिघैश च गदाभिश च परासमुद्गर पट्टिशैः मुसलैः परताग्रैश च ताव अन्यॊन्यं निजघ्नतुः ॥ 28 ॥
हयाभ्यां च गजाभ्यां च पदातिरथिनौ पुनः युयुधाते महामायौ राक्षस परवरौ युधि ॥ 29 ॥
ततॊ घटॊत्कचौ राजन्न अलम्बल वधेप्सया उत्पपात भृशं करुद्धः शयेनवन निपपात ह ॥ 30 ॥
गृहीत्वा च महाकायं राक्षसेन्द्रम अलम्बलम उद्यम्य नयवधीद भूमौ मयं विष्णुर इवाहवे ॥ 31 ॥
ततॊ घटॊत्कचः खड्गम उद्गृह्याद्भुत दर्शनम चकर्त कायाद धि शिरॊ भीमं विकृतदर्शनम ॥ 32 ॥
तच्छिरॊ रुधिराभ्यक्तं गृह्य केशेषु राक्षसः घटॊत्कचॊ ययाव आशु दुर्यॊधन रथं परति ॥ 33 ॥
अभ्येत्य च महाबाहुः समयमानः स राक्षसः रथे ऽसय निक्षिप्य शिरॊ विकृताननमूर्धजम पराणदद भैरवं नादं परावृषीव बलाहकः ॥ 34 ॥
अब्रवीच च ततॊ राजन दुर्यॊधनम इदं वचः एष ते निहतॊ बन्धुस तवया दृष्टॊ ऽसय विक्रमः पुनर दरष्टासि कर्णस्य निष्ठाम एतां तथात्मनः ॥ 35 ॥
एवम उक्त्वा ततः परायात कर्णं परति जनेश्वर किरञ शरशतांस तीक्ष्णान विमुञ्चन कर्ण मूर्धनि ॥ 36 ॥
ततः समभवद युद्धं घॊररूपं भयानकम विस्मापनं महाराज नरराक्षसयॊर मृधे ॥ 37 ॥
द्रोणपर्व · Drona Parva
अध्याय 149
Reach this point to mark the section finished.
Continue to अध्याय 150