[स] ततः कर्णॊ रणे दृष्ट्वा पार्षतं परवीरहा आजघानॊरसि शरैर दशभिर मर्मभेदिभिः ॥ 1 ॥
परतिविव्याध तं तूर्णं धृष्टद्युम्नॊ ऽपि मारिष पञ्चभिः सायकैर हृष्टस तिष्ठ तिष्ठेति चाब्रवीत ॥ 2 ॥
ताव अन्यॊन्यं शरैः संख्ये संछाद्य सुमहारथौ पुनः पूर्णायतॊत्सृष्टैर विव्यधाते परस्परम ॥ 3 ॥
ततः पाञ्चाल मुख्यस्य धृष्टद्युम्नस्य संयुगे सारथिं चतुरश चाश्वान कर्णॊ विव्याध सायकैः ॥ 4 ॥
कार्मुकप्रवरं चास्य परचिच्छेद शितैः शरैः सारथिं चास्य भल्लेन रथनीडाद अपातयत ॥ 5 ॥
धृष्टद्युम्नस तु विरथॊ हताश्वॊ हतसारथिः गृहीत्वा परिघं घॊरं कर्णस्याश्वान अपीपिषत ॥ 6 ॥
विद्धश च बहुभिस तेन शरैर आशीविषॊपमैः ततॊ युधिष्ठिरानीकं पद्भ्याम एवान्ववर्तत आरुरॊह रथं चापि सहदेवस्य मारिष ॥ 7 ॥
कर्णस्यापि रथे वाहान अन्यान सूतॊ नययॊजयत शङ्खवर्णान महावेगान सैन्धवान साधु वाहिनः ॥ 8 ॥
लब्धलक्ष्यस तु राधेयः पाञ्चालानां महारथान अभ्यपीडयद आयस्तः शरैर मेघ इवाचलान ॥ 9 ॥
सा पीड्यमाना कर्णेन पाञ्चालानां महाचमूः संप्राद्रवत सुसंत्रस्ता सिंहेनेवार्दिता मृगी ॥ 10 ॥
पतितास तुरगेभ्यश च गजेभ्यश च महीतले रथेभ्यश च नरास तूर्णम अदृश्यन्त ततस ततः ॥ 11 ॥
धावमानस्य यॊधस्य कषुरप्रैः स महामृधे बाहू चिच्छेद वै कर्णः शिरश चैव सकुण्डलम ॥ 12 ॥
ऊरू चिच्छेद चान्यस्य गजस्थस्य विशां पते वाजिपृष्ठ गतस्यापि भूमिष्ठस्य च मारिष ॥ 13 ॥
नाज्ञासिषुर धावमाना बहवश च महारथाः संछिन्नान्य आत्मगात्राणि वाहनानि च संयुगे ॥ 14 ॥
ते वध्यमानाः समरे पाञ्चालाः सृञ्जयैः सह तृणप्रस्पन्दनाच चापि सूतपुत्रं सम मेनिरे ॥ 15 ॥
अपि सवं समरे यॊधं धावमानं विचेतसः कर्णम एवाभ्यमन्यन्त ततॊ भीता दरवन्ति ते ॥ 16 ॥
तान्य अनीकानि भग्नानि दरवमाणानि भारत अभ्यद्रवद दरुतं कर्णः पृष्ठतॊ विकिरञ शरान ॥ 17 ॥
अवेक्षमाणास ते ऽनयॊन्यं सुसंमूढा विचेतसः नाशक्नुवन्न अवस्थातुं काल्यमाना महात्मना ॥ 18 ॥
कर्णेनाभ्याहता राजन पाञ्चालाः परमेषुभिः दरॊणेन च दिशः सर्वा वीक्षमाणाः परदुद्रुवुः ॥ 19 ॥
ततॊ युधिष्ठिरॊ राजा सवसैन्यं परेक्ष्य विद्रुतम अपयाने मतिं कृत्वा फल्गुनं वाक्यम अब्रवीत ॥ 20 ॥
पश्य कर्णं महेष्वासं धनुष्पाणिम अवस्थितम निशीथे दारुणे काले तपन्तम इव भास्करम ॥ 21 ॥
कर्ण सायकनुन्नानां करॊशताम एष निस्वनः अनिशं शरूयते पार्थ तवद्बन्धूनाम अनाथवत ॥ 22 ॥
यथा विसृजतश चास्य संदधानस्य चाशुगान पश्यामि जय विक्रान्तं कषपयिष्यति नॊ धरुवम ॥ 23 ॥
यद अत्रानन्तरं कार्यं पराप्तकालं परपश्यसि कर्णस्य वधसंयुक्तं तत कुरुष्व धनंजय ॥ 24 ॥
एवम उक्तॊ महाबाहुः पार्थः कृष्णम अथाब्रवीत भीतः कुन्तीसुतॊ राजा राधेयस्यातिविक्रमात ॥ 25 ॥
एवंगते पराप्तकालं कर्णानीके पुनः पुनः भवान वयवस्यतां कषिप्रं दरवते हि वरूथिनी ॥ 26 ॥
दरॊण सायकनुन्नानां भग्नानां मधुसूदन कर्णेन तरास्यमानानाम अवस्थानं न विद्यते ॥ 27 ॥
पश्यामि च तथा कर्णं विचरन्तम अभीतवत दरवमाणान रथॊदारान किरन्तं विशिखैः शितैः ॥ 28 ॥
नैतद अस्यॊत्सहे सॊढुं चरितं रणमूर्धनि परत्यक्षं वृष्णिशार्दूल पादस्पर्शम इवॊरगः ॥ 29 ॥
स भवान अत्र यात्वाशु यत्र कर्णॊ महारथः अहम एनं वधिष्यामि मां वैष मधुसूदन ॥ 30 ॥
[वासु] पश्यामि कर्णं कौन्तेय देवराजम इवाहवे विचरन्तं नरव्याघ्रम अतिमानुष विक्रमम ॥ 31 ॥
नैतस्यान्यॊ ऽसमि समरे परत्युद्यात धनंजय ऋते तवां पुरुषव्याघ्र राक्षसाद वा घटॊत्कचात ॥ 32 ॥
न तु तावद अहं मन्ये पराप्तकालं तवानघ समागमं महाबाहॊ सूतपुत्रेण संयुगे ॥ 33 ॥
दीप्यमाना महॊल्केव तिष्ठत्य अस्य हि वासवी तवदर्थं हि महाबाहॊ रौद्ररूपं बिभर्ति च ॥ 34 ॥
घटॊत्कचस तु राधेयं परत्युद्यातु महाबलः स हि भीमेन बलिना जातः सुरपराक्रमः ॥ 35 ॥
तस्मिन्न अस्त्राणि दिव्यानि राक्षसान्य असुराणि च सततं चानुरक्तॊ वॊ हितैषी च घटॊत्कचः विजेष्यति रणे कर्णम इति मे नात्र संशयः ॥ 36 ॥
[वासु] एवम उक्त्वा महाबाहुः पार्थं पुष्कर लॊचनः आजुहावाथ तद रक्षस तच चासीत परादुर अग्रतः ॥ 37 ॥
कवची स शरी खड्गी सधन्वा च विशां पते अभिवाद्य ततः कृष्णं पाण्डवं च धनंजयम अब्रवीत तं तदा हृष्टस तव अयम अस्म्य अनुशाधि माम ॥ 38 ॥
ततस तं मेघसंकाशं दीप्तास्यं दीप्तकुण्डलम अभ्यभाषत हैडिम्बं दाशार्हः परहसन्न इव ॥ 39 ॥
घटॊत्कच विजानीहि यत तवां वक्ष्यामि पुत्रक पराप्तॊ विक्रमकालॊ ऽयं तव नान्यस्य कस्य चित ॥ 40 ॥
स भवान मज्जमानानां बन्धूनां तवं पलवॊ यथा विविधानि तवास्त्राणि सन्ति माया च राक्षसी ॥ 41 ॥
पश्य कर्णेन हैडिम्ब पाण्डवानाम अनीकिनी काल्यमाना यथा गावः पालेन रणमूर्धनि ॥ 42 ॥
एष कर्णॊ महेष्वासॊ मतिमान दृढविक्रमः पाण्डवानाम अनीकेषु निहन्ति कषत्रियर्षभान ॥ 43 ॥
किरन्तः शरवर्षाणि महान्ति दृढधन्विनः न शक्नुवन्त्य अवस्थातुं पीड्यमानाः शरार्चिषा ॥ 44 ॥
निशीथे सूतपुत्रेण शरवर्षेण पीडिताः एते दरवन्ति पाञ्चालाः सिंहस्येव भयान मृगाः ॥ 45 ॥
एतस्यैवं परवृद्धस्य सूतपुत्रस्य संयुगे निषेद्धा विद्यते नान्यस तवदृते भीमविक्रम ॥ 46 ॥
स तवं कुरु महाबाहॊ कर्म युक्तम इहात्मनः मातुलानां पितॄणां च तेजसॊ ऽसत्रबलस्य च ॥ 47 ॥
एतदर्थं हि हैडिम्ब पुत्रान इच्छन्ति मानवाः कथं नस तारयेद दुःखात स तवं तारय बान्धवान ॥ 48 ॥
तव हय अस्त्रबलं भीमं मायाश च तव दुस्तराः संग्रामे युध्यमानस्य सततं भीमनन्दन ॥ 49 ॥
पाण्डवानां परभग्नानां कर्णेन शितसायकैः मज्जतां धार्तराष्ट्रेषु भव पारं परंतप ॥ 50 ॥
रात्रौ हि राक्षसा भूयॊ भवन्त्य अमितविक्रमाः बलवन्तः सुदुर्धर्षाः शूरा विक्रान्तचारिणः ॥ 51 ॥
जहि कर्णं महेष्वासं निशीथे मायया रणे पार्था दरॊणं वधिष्यन्ति धृष्टद्युम्नपुरॊगमाः ॥ 52 ॥
केशवस्य वचः शरुत्वा बीभत्सुर अपि राक्षसम अभ्यभाषत कौरव्य घटॊत्कचम अरिंदमम ॥ 53 ॥
घटॊत्कच भवांश चैव दीर्घबाहुश च सात्यकिः मतौ मे सर्वसैन्येषु भीमसेनश च पाण्डवः ॥ 54 ॥
स भवान यातु कर्णेन दवैरथं युध्यतां निशि सात्यकिः पृष्ठगॊपस ते भविष्यति महारथः ॥ 55 ॥
जहि कर्णं रणे शूरं सात्वतेन सहायवान यथेन्द्रस तारकं पूर्वं सकन्देन सह जघ्निवान ॥ 56 ॥
[घ] अलम एवास्मि कर्णाय दरॊणायालं च सत्तम अन्येषां कषत्रियाणां च कृतास्त्राणां महात्मनाम ॥ 57 ॥
अद्य दास्यामि संग्रामं सूतपुत्राय तं निशि यं जनाः संप्रवक्ष्यन्ति यावद भूमिर धरिष्यति ॥ 58 ॥
न चात्र शूरान मॊक्ष्यामि न भीतान न कृताञ्जलीन सर्वाम एव वधिष्यामि राक्षसं धर्मम आस्थितः ॥ 59 ॥
[घ] एवम उक्त्वा महाबाहुर हैडिम्बः परवीरहा अभ्ययात तुमुले कर्णं तव सैन्यं विभीषयन ॥ 60 ॥
तम आपतन्तं संक्रुद्धं दीप्तास्यम इव पन्नगम अभ्यस्यन परमेष्वासः परतिजग्राह सूतजः ॥ 61 ॥
तयॊः समभवद युद्धं कर्ण राक्षसयॊर निशि गर्जतॊ राजशार्दूल शक्र परह्रादयॊर इव ॥ 62 ॥
द्रोणपर्व · Drona Parva
अध्याय 148
Reach this point to mark the section finished.
Continue to अध्याय 149