[स] विद्रुतं सवबलं दृष्ट्वा वध्यमानं महात्मभिः करॊधेन महताविष्टः पुत्रस तव विशां पते ॥ 1 ॥
अभ्येत्य सहसा कर्णं दरॊणं च जयतां वरम अमर्षवशम आपन्नॊ वाक्यज्ञॊ वाक्यम अब्रवीत ॥ 2 ॥
भवद्भ्याम इह संग्रामॊ करुद्धाभ्यां संप्रवर्तितः आहवे निहतं दृष्ट्वा सैन्धवं सव्यसाचिना ॥ 3 ॥
निहन्यमानां पाण्डूनां बलेन मम वाहिनीम भूत्वा तद विजये शक्ताव अशक्ताव इव पश्यतः ॥ 4 ॥
यद्य अहं भवतॊस तयाज्यॊ न वाच्यॊ ऽसिं तदैव हि आवां पाण्डुसुतान संख्ये जेष्याव इति मानदौ ॥ 5 ॥
तदैवाहं वचः शरुत्वा भवद्भ्याम अनुसंमतम कृतवान पाण्डवैः सार्धं वैरं यॊधविनाशनम ॥ 6 ॥
यदि नाहं परित्याज्यॊ भवद्भ्यां पुरुषर्षभौ युध्येताम अनुरूपेण विक्रमेण सुविक्रमौ ॥ 7 ॥
वाक परतॊदेन तौ वीरौ परणुन्नौ तनयेन ते परावर्तयेतां तौ युद्धं घट्टिताव इव पन्नगौ ॥ 8 ॥
ततस तौ रथिनां शरेष्ठौ सर्वलॊकधनुर्धरौ शैनेय परमुखान पार्थान अभिदुद्रुवतू रणे ॥ 9 ॥
तथैव सहिताः पार्थाः सवेन सैन्येन संवृताः अभ्यवर्तन्त तौ वीरौ नर्दन्मानौ मुहुर मुहुः ॥ 10 ॥
अथ दरॊणॊ महेष्वासॊ दशभिः शिनिपुंगवम अविध्यत तवरितं करुद्धः सर्वशस्त्रभृतां वरः ॥ 11 ॥
कर्णश च दशभिर बाणैः पुत्रश च तव सप्तभिः दशभिर वृषसेनश च सौबलश चापि सप्तभिः एते कौरव संक्रन्दे शैनेयं पर्यवारयन ॥ 12 ॥
दृष्ट्वा च समरे दरॊणं निघ्नन्तं पाण्डवीं चमूम विव्यधुः सॊमकास तूर्णं समन्ताच छरवृष्टिभिः ॥ 13 ॥
ततॊ दरॊणॊ ऽहरत पराणान कषत्रियाणां विशां पते रश्मिभिर भास्करॊ राजंस तमसाम इव भारत ॥ 14 ॥
दरॊणेन वध्यमानानां पाञ्चालानां विशां पते शुश्रुवे तुमुलः शब्दः करॊशताम इतरेतरम ॥ 15 ॥
पुत्रान अन्ये पितॄन अन्ये भरातॄन अन्यच मातुलान भागिनेयान वयस्यांश च तथा संबन्धिबान्धवान उत्सृज्यॊत्सृज्य गच्छन्ति तवरिता जीवितेप्सवः ॥ 16 ॥
अपरे मॊहिता मॊहात तम एवाभिमुखा ययुः पाण्डवानां रणे यॊधाः परलॊकं तथापरे ॥ 17 ॥
सा तथा पाण्डवी सेना वध्यमाना महात्मभिः निशि संप्राद्रवद राजन्न उत्सृज्यॊल्काः सहस्रशः ॥ 18 ॥
पश्यतॊ भीमसेनस्य विजयस्याच्युतस्य च यमयॊर धर्मपुत्रस्य पार्षतस्य च पश्यतः ॥ 19 ॥
तमसा संवृते लॊके न पराज्ञायत किं चन कौरवाणां परकाशेन दृश्यन्ते तु दरुताः परे ॥ 20 ॥
दरवमाणं तु तत सैन्यं दरॊणकर्णौ महारथौ जघ्नतुः पृष्ठतॊ राजन किरन्तौ सायकान बहून ॥ 21 ॥
पाञ्चालेषु परभग्नेषु दीर्यमाणेषु सर्वशः जनार्दनॊ दीनमनाः परत्यभाषत फल्गुनम ॥ 22 ॥
दरॊणकर्णौ महेष्वासाव एतौ पार्षत सात्यकी पाञ्चालांश चैव सहितौ जघ्नतुः सायकैर भृशम ॥ 23 ॥
एतयॊः शरवर्षेण परभग्ना नॊ महारथाः वार्यमाणापि कौन्तेय पृतना नावतिष्ठते ॥ 24 ॥
एताव आवां सर्वसैन्यैर वयूढैः सम्यग उदायुधैः दरॊणं च सूतपुत्रं च परयतावः परबाधितुम ॥ 25 ॥
एतौ हि बलिनौ शूरौ कृतास्त्रौ जितकाशिनौ उपेक्षितौ बलं करुद्धौ नाशयेतां निशाम इमाम एष भीमॊ ऽभियात्य उग्रः पुनरावर्त्य वाहिनीम ॥ 26 ॥
वृकॊदरं तथायान्तं दृष्ट्वा तत्र जनार्दनः पुनर एवाब्रवीद राजन हर्षयन्न इव पाण्डवम ॥ 27 ॥
एष भीमॊ रणश्लाघी वृतः सॊमक पाण्डवैः रुषितॊ ऽभयेति वेगेन दरॊणकर्णौ महाबलौ ॥ 28 ॥
एतेन सहितॊ युध्य पाञ्चालैश च महारथैः आश्वासनार्थं सर्वेषां सैन्यानां पाण्डुनन्दन ॥ 29 ॥
ततस तौ पुरुषव्याघ्राव उभौ माधव पाण्डवौ दरॊणकर्णौ समासाद्य दिष्ठितौ रणमूर्धनि ॥ 30 ॥
ततस तत पुनर आवृत्तं युधिष्ठिरबलं महत ततॊ दरॊणश च कर्णश च परान ममृदतुर युधि ॥ 31 ॥
स संप्रहारस तुमुलॊ निशि परत्यभवन महान यथा सागरयॊ राजंश चन्द्रॊदयविवृद्धयॊः ॥ 32 ॥
तत उत्सृज्य पाणिभ्यः परदीपांस तव वाहिनी युयुधे पाण्डवैः सार्धम उन्मत्तवद अहः कषये ॥ 33 ॥
रजसा तमसा चैव संवृते भृशदारुणे केवलं नामगॊत्रेण परायुध्यन्त जयैषिणः ॥ 34 ॥
अश्रूयन्त हि नामानि शराव्यमाणानि पार्थिवैः परहरद्भिर महाराज सवयंवर इवाहवे ॥ 35 ॥
निःशब्दम आसीत सहसा पुनः शब्दॊ महान अभूत करुद्धानां युध्यमानानां जयतां जीयताम अपि ॥ 36 ॥
यत्र यत्र सम दृश्यन्ते परदीपाः कुरुसत्तम तत्र तत्र सम ते शूरा निपतन्ति पतंगवत ॥ 37 ॥
तथा संयुध्यमानानां विगाढाहून महानिशा पाण्डवानां च राजेन्द्र कौरवाणां च सर्वशः ॥ 38 ॥
द्रोणपर्व · Drona Parva
अध्याय 147
Reach this point to mark the section finished.
Continue to अध्याय 148