धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 146

  1. [स] ततस ते पराद्रवन सर्वे तवरिता युद्धदुर्मदाः अमृष्यमाणाः संरब्धा युयुधान रथं परति ॥ 1 ॥

  2. ते रथैः कल्पितै राजन हेमरूप्य विभूषितैः सादिभिश च गजैश चैव परिवव्रुः सम सात्वतम ॥ 2 ॥

  3. अथैनं कॊष्ठकी कृत्यसर्वतस ते महारथाः सिंहनादांस तदा चक्रुस तर्जयन्तः सम सात्यकिम ॥ 3 ॥

  4. ते ऽभयवर्षञ शरैस तीक्ष्णैः सात्यकिं सत्यविक्रमम तवरमाणा महावीर्या माधवस्य वधैषिणः ॥ 4 ॥

  5. तान दृष्ट्वा पततस तूर्कं शैनेयः परवीहराः परत्यगृह्णान महाबाहुः परमुञ्चन विशिखान बहून ॥ 5 ॥

  6. तत्र वीरॊ महेष्वासः सात्यकिर युद्धदुर्मदः निचकर्त शिरांस्य उग्रैः शरैः संनतपर्वभिः ॥ 6 ॥

  7. हस्तिहस्तान हयग्रीवान बाहून अपि च सायुधान कषुरप्रैः पातयाम आस तावकानां स माधवः ॥ 7 ॥

  8. पतितैश चामरैश चैव शवेतच छत्रैश च भारत बभूव धरणी पूर्णा नक्षत्रैर दयौर इव परभॊ ॥ 8 ॥

  9. तेषां तु युयुधानेन युध्यतां युधि भारत बभूव तुमुलः शब्दः परेतानाम इव करन्दताम ॥ 9 ॥

  10. तेन शब्देन महता पूरितासीद वसुंधरा रात्रिः समभवच चैव तीव्ररूपा भयावहा ॥ 10 ॥

  11. दीर्यमाणं बलं दृष्ट्वा युयुधान शराहतम शरुत्वा च विपुलं नादं निशीथे लॊमहर्षणम ॥ 11 ॥

  12. सुतस तवाब्रवीद राजन सारथिं रथिनां वरः यत्रैष शब्दस तत्राश्वांश चॊदयेति पुनः पुनः ॥ 12 ॥

  13. तेन संचॊद्यमानस तु तत तांस तुरगॊत्तमान सूतः संचॊदयाम आस युयुधान रथं परथि ॥ 13 ॥

  14. ततॊ दुर्यॊधनः करुद्धॊ दृढधन्वा जितक्लमः शीघ्रहस्तश चित्रयॊधी युयुधानम उपाद्रवत ॥ 14 ॥

  15. ततः पूर्णायतॊत्सृष्टैर मांसशॊणितभॊजनैः दुर्यॊधनं दवादशभिर माधवः पत्यविध्यत ॥ 15 ॥

  16. दुर्यॊधनस तेन तथा पूर्वम एवार्दितः शरैः शैनेयं दशभिर बाणैः परत्यविध्यद अमर्षितः ॥ 16 ॥

  17. ततः समभवद युद्धम आकुलं भरतर्षभ पाञ्चालानां च सर्वेषां भारतानां च दारुणम ॥ 17 ॥

  18. शैनेयस तु रणे करुद्धस तव पुत्रं महारथम सायकानाम अशीत्या तु विव्याधॊरसि भारत ॥ 18 ॥

  19. ततॊ ऽसय वाहान समरे शरैर निन्ये यमक्षयम सारथिं च रथात तूर्णं पातयाम आस पत्रिणा ॥ 19 ॥

  20. हताश्वे तु रथे तिष्ठन पुत्रस तव विशां पते मुमॊच निशितान बाणाञ शैनेयस्य रथं परति ॥ 20 ॥

  21. शरान पञ्चाशतस तांस तु शैनेयः कृतहस्तवत चिच्छेद समरे राजन परेषितांस तनयेन ते ॥ 21 ॥

  22. अथापरेण भल्लेन मुष्टिदेशे महद धनुः चिच्छेद रभसॊ युद्धे तव पुत्रस्य मारिष ॥ 22 ॥

  23. विरथॊ विधनुष्कश च सर्वलॊकेश्वरः परभुः आरुरॊह रथं तूर्णं भास्वरं कृतवर्मणः ॥ 23 ॥

  24. दुर्यॊधने परावृत्ते शैनेयस तव वाहिनीम दरावयाम आस विशिखैर निशा मध्ये विशां पते ॥ 24 ॥

  25. शकुनिश चार्जुनं राजन परिवार्य समन्तथ रथैर अनेकसाहस्रैर गजैश चैव सहस्रशः तथा हयसहस्रैश च तुमुलं सर्वतॊ ऽकरॊत ॥ 25 ॥

  26. ते महास्त्राणि दिव्यानि विकिरन्तॊ ऽरजुनं परति अर्जुनं यॊधयन्ति सम कषत्रियाः कालचॊदिताः ॥ 26 ॥

  27. तान्य अर्जुनः सहस्राणि रथवारणवाजिनाम परत्यवारयद आयस्तः परकुर्वन विपुलं कषयम ॥ 27 ॥

  28. ततस तु समरे शूरः शकुनिः सौबलस तदा विव्याध निशितैर बाणैर अर्जुनं परहसन्न इव ॥ 28 ॥

  29. पुनश चैव शतेनास्य संरुरॊध महारथम तम अर्जुनस तु विंशत्या विव्याध युधि भारत ॥ 29 ॥

  30. अथेतरान महेष्वासांस तरिभिस तरिभिर अविध्यत संवार्य तान बाणगणैर युधि राजन धनंजयः अवधीत तावकान यॊधान वज्रपाणिर इवासुरान ॥ 30 ॥

  31. भुजैश छिन्नैर महाराज शरीरैश च सहस्रशः समास्तीर्णा धरा तत्र बभौ पुष्पैर इवाचिताः ॥ 31 ॥

  32. स विद्ध्वा शकुनिं भूयः पञ्चभिर नतपर्वभिः उलूकं तरिभिर आजघ्ने तरिभिर एव महायसैः ॥ 32 ॥

  33. तम उलूकस तथा विद्ध्वा वासुदेवम अताडयत ननाद च महानादं पूरयन वसुधातलम ॥ 33 ॥

  34. अर्जुनस तु दरुतं गत्वा शकुनेर धनुर आच्छिनत निन्ये च चतुरॊ वाहान यमस्य सदनं परति ॥ 34 ॥

  35. ततॊ रथाद अवप्लुत्य सौबलॊ भरतर्षभ उलूकस्य रथं तूर्णम आरुरॊह विशां पते ॥ 35 ॥

  36. ताव एकरथम आरूढौ पिता पुत्रौ महारथौ पार्थं सिषिचतुर बाणैर गिरिं मेघाव इवॊत्थितौ ॥ 36 ॥

  37. तौ तु विद्ध्वा महाराज पाण्डवॊ निशितैः शरैः विद्रावयंस तव चमूं शतशॊ वयधमच छरैः ॥ 37 ॥

  38. अनिलेन यथाभ्राणि विच्छिन्नानि समन्ततः विच्छिन्नानि तथा राजन बलान्य आसन विशां पते ॥ 38 ॥

  39. तद बलं भरतश्रेष्ठ वध्यमानं तथा निशि परदुद्राव दिशः सर्वा वीक्षमाणं भयार्दितम ॥ 39 ॥

  40. उत्सृज्य वाहान समरे चॊदयन्तस तथापरे संभ्रान्ताः पर्यधावन्त तस्मिंस तमसि दारुणे ॥ 40 ॥

  41. विजित्य समरे यॊधांस तावकान भरतर्षभ दध्मतुर मुदितौ शङ्खौ वासुदेवधनंजयौ ॥ 41 ॥

  42. धृष्टद्युम्नॊ महाराज दरॊणं विद्ध्वा तरिभिः शरैः चिच्छेद धनुषस तूर्णं जयां शरेण शितेन ह ॥ 42 ॥

  43. तन निधाय धनुर नीडे दरॊणः कषत्रिय मर्दनः आददे ऽनयद धनुः शूरॊ वेगवत सारवत्तरम ॥ 43 ॥

  44. धृष्टद्युम्नं ततॊ दरॊणॊ विद्ध्वा सप्तभिर आशुगैः सारथिं पञ्चभिर बाणै राजन विव्याध संयुगे ॥ 44 ॥

  45. तं निवार्य शरैस तूर्णं धृष्टद्युम्नॊ महारथः वयधमत कौरवीं सेनां शतशॊ ऽथ सहस्रशः ॥ 45 ॥

  46. वध्यमाने बले तस्मिंस तव पुत्रस्य मारिष परावर्तत नदी घॊरा शॊणितौघतरङ्गिणी ॥ 46 ॥

  47. उभयॊः सेनयॊर मध्ये नराश्वद्विपवाहिनी यथा वैतरणी राजन यम राष्ट्रपुरं परति ॥ 47 ॥

  48. दरवयित्वा तु तत सैन्यं धृष्टद्युम्नः परतापवान अत्यराजत तेजस्वी शक्रॊ देवगणेष्व इव ॥ 48 ॥

  49. अथ दध्मुर महाशङ्खान धृष्टद्युम्न शिखण्डिनौ यमौ च युयुधानश च पाण्डवश च वृकॊदरः ॥ 49 ॥

  50. जित्वा रथसहस्राणि तावकानां महारथाः सिंहनाद रवांश चक्रुः पाण्डवा जितकाशिनः ॥ 50 ॥

  51. पश्यतस तव पुत्रस्य कर्णस्य च मदॊत्कटाः तथा दरॊणस्य शूरस्य दरौणेश चैव विशां पते ॥ 51 ॥

Reach this point to mark the section finished.

Continue to अध्याय 147

Previous: अध्याय 145