धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 145

  1. [स] तस्मिन सुतुमुले युद्धे वर्तमाने भयावहे धृष्टद्युम्ने महाराज दरॊणम एवाभ्यवर्तत ॥ 1 ॥

  2. संमृजानॊ धनुःश्रेष्ठं जयां विकर्षन पुनः पुनः अभ्यवर्तत दरॊणस्य रथं रुक्मविभूषितम ॥ 2 ॥

  3. धृष्टद्युम्नं तदायान्तं दरॊणस्यान्त चिकीर्षया परिवव्रुर महाराज पाञ्चालाः पाण्डवैः सह ॥ 3 ॥

  4. तथा परिवृतं दृष्ट्वा दरॊणम आचार्य सत्तमम पुत्रास्त ते सर्वतॊ यत्ता ररक्षुर दॊर्णम आहवे ॥ 4 ॥

  5. बलार्णवौ ततस तौ तु समेयातां निशामुखे वातॊद्धूतौ कषुब्धसत्त्वौ भैरवौ सागराव इव ॥ 5 ॥

  6. ततॊ दरॊणं महाराज पाञ्चाल्यः पञ्चभिः शरैः विव्याध हृदये तूर्णं सिंहनादं ननाद च ॥ 6 ॥

  7. तं दरॊणं पञ्चविंशत्या विद्ध्वा भारत संयुगे चिच्छेदान्येन भल्लेन धनुर अस्य महाप्रभम ॥ 7 ॥

  8. धृष्टद्युम्नस तु निर्विद्धॊ दरॊणेन भरतर्षभ उत्ससर्ज धनुस तूर्णं संदश्य दशनच छदम ॥ 8 ॥

  9. ततः करुद्धॊ महाराज धृष्टद्युम्नः परतापवान आददे ऽनयद धनुःश्रेष्ठं दरॊणस्यान्त चिकीर्षया ॥ 9 ॥

  10. विकृष्य च धनुश चित्रम आकर्णात परवीरहा दरॊणस्यान्त करं घॊरं वयसृजत सायकं ततः ॥ 10 ॥

  11. स विसृष्टॊ बलवला शरॊ घॊरॊ महामृधे भासयाम आस तत सैन्यं दिवाकर इवॊदितः ॥ 11 ॥

  12. तं दृष्ट्वा तु शरं घॊरं देवगन्धर्वमानवाः सवस्त्य अस्तु समरे राजन दरॊणायेत्य अब्रुवन वचः ॥ 12 ॥

  13. तं तु सायकम अप्राप्तम आचार्यस्य रथं परति कर्णॊ दवादशधा राजंश चिच्छेद कृतहस्तवत ॥ 13 ॥

  14. स छिन्नॊ बहुधा राजन सूतपुत्रेण मारिष निपपात शरस तूर्णं निकृत्तः कर्ण सायकैः ॥ 14 ॥

  15. छित्त्वा तु समरे बाणं शरैः संनतपर्वभिः धृष्टद्युम्नं रणे कर्णॊ विव्याध दशभिः शरैः ॥ 15 ॥

  16. पञ्चभिर दरॊणपुत्रस तु सवयं दरॊणश च सप्तभिः शल्यश च नवभिर बाणैस तरिभिर दुःशासनस तथा ॥ 16 ॥

  17. दुर्यॊधनश च विंशत्या शकुनिश चापि पञ्चभिः पाञ्चाल्यं तवरिताविध्यन सर्व एव महारथाः ॥ 17 ॥

  18. स विद्धः सप्तभिर वीरैर दरॊण तराणार्थम आहवे सर्वान असंभ्रमाद राजन परत्यविध्यत तरिभिस तरिभिः दरॊणं दरौणिं च कर्णं च विव्याध तव चात्मजम ॥ 18 ॥

  19. ते विद्ध्वा धन्विना तेन धृष्टद्युम्नं पुनर मृधे विव्यधुः पञ्चभिस तूर्णम एकैकॊ रथिनां वरः ॥ 19 ॥

  20. दरुमसेनस तु संक्रुद्धॊ राजन विव्याध पत्रिणा तरिभिश चान्यैः शरैस तूर्णं तिष्ठ तिष्ठेति चाब्रवीत ॥ 20 ॥

  21. स तु तं परतिविव्याध तरिभिस तीक्ष्णैर अजिह्मगैः सवर्णपुङ्खैः शिला धौतैः पराणान्त करणैर युधि ॥ 21 ॥

  22. भल्लेनान्येन तु पुनः सुवर्णॊज्ज्वल कुण्डलम उन्ममाथ शिरः कायाद दरुमसेनस्य वीर्यवान ॥ 22 ॥

  23. तच्छिरॊ नयपतद भूमौ संदष्टौष्ठ पुटं रणे महावातसमुद्धूतं पक्वं तालफलं यथा ॥ 23 ॥

  24. तांश च विद्ध्वा पुनर वीरान वीरः सुनिशितैः शरैः राधेयस्याच्छिनद भल्लैः कार्मुकं चित्रयॊधिनः ॥ 24 ॥

  25. न तु तन ममृषे कर्णॊ धनुषश छेदनं तथा निकर्तनम इवात्युग्रॊ लाङ्गूलस्य यथा हरिः ॥ 25 ॥

  26. सॊ ऽनयद धनुः समादाय करॊधरक्तेक्षणः शवसन अभ्यवर्षच छरौघैस तं धृष्टद्युम्नं महाबलम ॥ 26 ॥

  27. दृष्ट्वा तु कर्णं संरब्धं ते वीराः षड रथर्षभाः पाञ्चाल्य पुत्रं तवरिताः परिवव्रुर जिघांसया ॥ 27 ॥

  28. षण्णां यॊधप्रवीराणां तावकानां पुरस्कृतम मृत्यॊर आस्यम अनुप्राप्तं धृष्टद्युम्नम अमंस्महि ॥ 28 ॥

  29. एतस्मिन्न एव काले तु दाशार्हॊ विकिरञ शरान धृष्टद्युम्नं पराक्रान्तं सात्यकिः परत्यपद्यत ॥ 29 ॥

  30. तम आयान्तं महेष्वासं सात्यकिं युद्धदुर्मदम राधेयॊ दशभिर बाणैः परत्यविध्यद अजिह्मगैः ॥ 30 ॥

  31. तं सात्यकिर महाराज विव्याध दशभिः शरैः पश्यतां सर्ववीराणां मागास तिष्ठेति चाब्रवीत ॥ 31 ॥

  32. स सात्यकेस तु बलिनः कर्णस्य च महात्मनः आसीत समागमॊ घॊरॊ बलिवासवयॊर इव ॥ 32 ॥

  33. तरासयंस तलघॊषेण कषत्रियान कषत्रियर्षभः राजीवलॊचनं कर्णं सात्यकिः परत्यविध्यत ॥ 33 ॥

  34. कम्पयन्न इव घॊषेण धनुषॊ वसुधां बली सूतपुत्रॊ महाराज सात्यकिं परत्ययॊधयत ॥ 34 ॥

  35. विपाठ कर्णिनाराचैर वत्स दान्तैः कषुरैर अपि कर्णः शरशतैश चापि शैनेयं परत्यविध्यत ॥ 35 ॥

  36. तथैव युयुधानॊ ऽपि वृष्णीनां परवरॊ रथः अभ्यवर्षच छरैः कर्णं तद युद्धम अभवत समम ॥ 36 ॥

  37. तावकाश च महाराज कर्ण पुत्रश च दंशितः सात्यकिं विव्यधुस तूर्णं समन्तान निशितैः शरैः ॥ 37 ॥

  38. अस्त्रैर अस्त्राणि संवार्य तेषां कर्णस्य चाभिभॊ अविध्यत सात्यकिः करुद्धॊ वृषसेनं सतनान्तरे ॥ 38 ॥

  39. तेन बाणेन निर्विद्धॊ वृषसेनॊ विशां पते नयपतत स रथे मूढॊ धनुर उत्सृज्य वीर्यवान ॥ 39 ॥

  40. ततः कर्णॊ हतं मत्वा वृषसेनं महारथः पुत्रशॊकाभिसंतप्तः सात्यकिं परत्यपीडयत ॥ 40 ॥

  41. पीड्यमानस तु कर्णेन युयुधानॊ महारथः विव्याध बहुभिः कर्णं तवरमाणः पुनः पुनः ॥ 41 ॥

  42. स कर्णं दशभिर विद्ध्वा वृषसेनं च सप्तभिः स हस्तावाप धनुषी तयॊश चिच्छेद सात्वतः ॥ 42 ॥

  43. ताव अन्ये धनुषी सज्ये कृत्वा शत्रुभयं करे युयुधानम अविध्येतां समन्तान निशितैः शरैः ॥ 43 ॥

  44. वर्तमाने तु संग्रामे तस्मिन वीरवरक्षये अतीव शुश्रुवे राजन गाण्डीवस्य महास्वनः ॥ 44 ॥

  45. शरुत्वा तु रथनिर्घॊषं गाण्डीवस्य च निस्वनम सूतपुत्रॊ ऽबरवीद राजन दुर्यॊधनम इदं वचः ॥ 45 ॥

  46. एष सर्वाञ शिबीन हत्वा मुख्यशश च नरर्षभान पौरवांश च महेष्वासान गाण्डीवनिनदॊ महान ॥ 46 ॥

  47. शरूयते रथघॊषश च वासवस्येव नर्दतः करॊति पाण्डवॊ वयक्तं कर्मौपयिकम आत्मनः ॥ 47 ॥

  48. एषा विदीर्यते राजन बहुधा भारती चमूः विप्रकीर्णान्य अनीकानि नावतिष्ठन्ति कर्हि चित ॥ 48 ॥

  49. वातेनेव समुद्धूतम अभ्रजालं विदीर्यते सव्यसाचिनम आसाद्य भिन्ना नौर इव सागरे ॥ 49 ॥

  50. दरवतां यॊधमुख्यानां गाण्डीवप्रेषितैः शरैः विद्धानां शतशॊ राजञ शरूयते निनदॊ महान निशीथे राजशार्दूल सतनयित्नॊर इवाम्बरे ॥ 50 ॥

  51. हाहाकाररवांश चैव सिंहनादांश च पुष्कलान शृणु शब्दान बहुविधान अर्जुनस्य रथं परति ॥ 51 ॥

  52. अयं मध्ये सथितॊ ऽसमाकं सात्यकिः सात्वताधमः इह चेल लभ्यते लक्ष्यं कृत्स्नाञ जेष्यामहे परान ॥ 52 ॥

  53. एष पाञ्चालराजस्य पुत्रॊ दरॊणेन संगतः सर्वतः संवृतॊ यॊधै राजन पुरुषसत्तमैः ॥ 53 ॥

  54. सात्यकिं यदि हन्यामॊ धृट्ष दयुम्नं च पार्षतम असंशयं महाराज धरुवॊ नॊ विजयॊ भवेत ॥ 54 ॥

  55. सौभद्रवद इमौ वीरौ परिवार्य महारथौ परयतामॊ महाराज निहन्तुं वृष्णिपार्षतौ ॥ 55 ॥

  56. सव्यसाची पुरॊ ऽभयेति दरॊणानीकाय भारत संसक्तं सात्यकिं जञात्वा बहुभिः कुरुपुंगवैः ॥ 56 ॥

  57. तत्र गच्छन्तु बहवः परवरा रथसत्तमाः यावत पार्थॊ न जानाति सात्यकिं बहुभिर वृतम ॥ 57 ॥

  58. ते तवरध्वं यथा शूराः शराणां मॊक्षणे भृशम यथा तूर्णं वरजत्य एष परलॊकय माधवः ॥ 58 ॥

  59. कर्णस्य मतम आज्ञाय पुत्रस ते पराह सौबलम यथेन्द्रः समरे राजन पराह विष्णुं यशस्विनम ॥ 59 ॥

  60. वृतः सहस्रैर दशभिर गजानाम अनिवर्तिनाम रथैश च दशसाहस्रैर वृतॊ याहि धनंजयम ॥ 60 ॥

  61. दुःशासनॊ दुर्विषहः सुबाहुर दुष्प्रधर्षणः एते तवाम अनुयास्यन्ति पत्तिभिर बहुभिर वृताः ॥ 61 ॥

  62. जहि कृष्णौ महावाहॊ धर्मराजं च मातुल नकुलं सहदेवं च भीमसेनं च भारत ॥ 62 ॥

  63. देवानाम इव देवेन्द्रे जयाशा मे तवयि सथिता जहि मातुलकौन्तेयान असुरान इव पावकिः ॥ 63 ॥

  64. एवम उक्तॊ ययौ पार्थान पुत्रेण तव सौबलः महत्या सेनया सार्धं तव पुत्रैस तथा विभॊ ॥ 64 ॥

  65. परियार्थं तव पुत्राणां दिधक्षुः पाण्डुनन्दनान तत्र परववृते युद्धं तावकानां परैः सह ॥ 65 ॥

  66. परयाते सौबले राजन पाण्डवानाम अनीकिनीम बलेन महता युक्तः सूतपुत्रस तु सात्वतम ॥ 66 ॥

  67. अभ्ययात तवरितं युद्धे किरञ शरशतान बहून तथैव पाण्डवाः सर्वे सात्यकिं पर्यवारयन ॥ 67 ॥

  68. महद युद्धं तदासीत तु दरॊणस्य निशि भारत धृष्टद्युम्नेन शूरेण पाञ्चालैश च महात्मनः ॥ 68 ॥

Reach this point to mark the section finished.

Continue to अध्याय 146

Previous: अध्याय 144