धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 144

  1. [स] नकुलं रभसं युद्धे निघ्नन्तं वाहिनीं तव अभ्ययात सौबलः करुद्धस तिष्ठ तिष्ठेति चाब्रवीत ॥ 1 ॥

  2. कृतवैरॊ तु तौ वीराव अन्यॊन्यवधकाङ्क्षिणौ शरैः पूर्णायतॊत्सृष्टैर अन्यॊन्यम अभिजघ्नतुः ॥ 2 ॥

  3. यथैव सौबलः कषिप्रं शरवर्षाणि मुञ्चति तथैव नकुलॊ राजञ शिक्षां संदर्शयन युधि ॥ 3 ॥

  4. ताव उभौ समरे शूरौ शरकण्टकिनौ तदा वयराजेतां महाराज कण्टकैर इव शाल्मली ॥ 4 ॥

  5. सुजिह्मं परेक्षमाणौ च राजन विवृतलॊचनौ करॊधसंरक्तनयनौ निर्दहन्तौ परस्परम ॥ 5 ॥

  6. सयालस तु तव संक्रुद्धॊ माद्रीपुत्रं हसन्न इव कर्णिनैकेन विव्याध हृदये निशितेन ह ॥ 6 ॥

  7. नकुलस तु भृशं विद्धः सयालेन तव धन्विना निषसाद रथॊपस्थे कश्मलं चैनम आविशत ॥ 7 ॥

  8. अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं तथागतम ननाद शकुनी राजंस तपान्ते जलदॊ यथा ॥ 8 ॥

  9. परतिलभ्य ततः संज्ञां नकुलः पाण्डुनन्दनः अभ्ययात सौबलं भूयॊ वयात्तानन इवान्तकः ॥ 9 ॥

  10. संक्रुद्धः शकुनिं षष्ट्या विव्याध भरतर्षभ पुनश चैव शतेनैव नाराचानां सतनान्तरे ॥ 10 ॥

  11. ततॊ ऽसय स शरं चापं मुष्टिदेशे स चिच्छिदे धवजं च तवरितं छित्त्वा रथाद भूमाव अपातयत ॥ 11 ॥

  12. सॊ ऽतिविद्धॊ महाराज रथॊपस्थ उपाविशत तं विसंज्ञं निपतितं दृष्ट्वा सयालं तवानघ अपॊवाह रथेनाशु सारथिर धवजिनीमुखात ॥ 12 ॥

  13. ततः संचुक्रुशुः पार्था ये च तेषां पदानुगाः निर्जित्य च रणे शत्रून नकुलः शत्रुतापनः अब्रवीत सारथिं करुद्धॊ दरॊणानीकाय मां वह ॥ 13 ॥

  14. तस्य तद वचनं शरुत्वा माद्रीपुत्रस्य धीमतः परायात तेन रणे राजन्येन दरॊणॊ ऽनवयुध्यत ॥ 14 ॥

  15. शिखण्डिनं तु समरे दरॊण परेप्सुं विशां पते कृपः शारद्वतॊ यत्तः परत्युद्गच्छत सुवेगितः ॥ 15 ॥

  16. गौतमं दरुतम आयान्तं दरॊणान्तिकम अरिंदमम विव्याध नवभिर भल्लैः शिखण्डी परहसन्न इव ॥ 16 ॥

  17. तम आचर्यॊ महाराज विद्ध्वा पञ्चभिर आशुगैः पुनर विव्याध विंशत्या पुत्राणां परियकृत तव ॥ 17 ॥

  18. महद युद्धं तयॊर आसीद घॊररूपं विशां पते यथा देवासुरे युद्धे शम्बरामर राजयॊः ॥ 18 ॥

  19. शरजालावृतं वयॊम चक्रतुस तौ महारथौ परकृत्या घॊररूपं तद आसीद घॊरतरं पुनः ॥ 19 ॥

  20. रात्रिश च भरतश्रेष्ठ यॊधानां युद्धशालिनाम कालरात्रि निभा हय आसीद घॊररूपा भयावहा ॥ 20 ॥

  21. शिखण्डी तु महाराज गौतमस्य महद धनुः अर्धचन्द्रेण चिच्छेद सज्यं स विशिखं तदा ॥ 21 ॥

  22. तस्य करुद्धः कृपॊ राजञ शक्तिं चिक्षेप दारुणाम सवर्णदण्डाम अकुण्ठाग्रां कर्मार परिमार्जिताम ॥ 22 ॥

  23. ताम आपतन्तीं चिच्छेद शिखण्डी बहुभिः शरैः सापतन मेदिनीं दीप्ता भसयन्ती महाप्रभा ॥ 23 ॥

  24. अथान्यद धनुर आदाय गौतमॊ रथिनां वरः पराच्छादयच छितैर बाणैर महाराज शिखण्डिनम ॥ 24 ॥

  25. स छाद्यमानः समरे गौतमेन यशस्विना वयषीदत रथॊपस्थे शिखण्डी रथिनां वरः ॥ 25 ॥

  26. सीदन्तं चैनम आलॊक्य कृपः शारद्वतॊ युधि आजघ्ने बहुभिर बाणैर जिघांसन्न इव भारत ॥ 26 ॥

  27. विमुखं तं रणे दृष्ट्वा याज्ञसेनिं महारथम पाञ्चालाः सॊमकाश चैव परिवव्रुः समन्ततः ॥ 27 ॥

  28. तथैव तव पुत्राश च परिवव्रुर दविजॊत्तमम महत्या सेनया सार्धं ततॊ युद्धम अभूत पुनः ॥ 28 ॥

  29. रथानां च रणे राजन्न अन्यॊन्यम अभिधावताम बभूव तुमुलः शब्दॊ मेघानां नदताम इव ॥ 29 ॥

  30. दरवतां सादिनां चैव गजानां च विशां पते अन्यॊन्यम अभितॊ राजन करूरम आयॊधनं बभौ ॥ 30 ॥

  31. पत्तीनां दरवतां चैव पदशब्देन मेदिनी अकम्पत महाराज भयत्रस्तेव चाङ्गना ॥ 31 ॥

  32. रथा रथान समासाद्य परद्रुता वेगवत्तरम नयगृह्णन बहवॊ राजञ शलभान वायसा इव ॥ 32 ॥

  33. तथा गजान परभिन्नांश च सुप्रभिन्ना महागजाः तस्मिन्न एव पदे यत्ता निगृह्णन्ति सम भारत ॥ 33 ॥

  34. सादी सादिनम आसाद्य पदाती च पदातिनम समासाद्य रणे ऽनयॊन्यं संरब्धा नातिचक्रमुः ॥ 34 ॥

  35. धावतां दरवतां चैव पुनरावर्तनाम अपि बभूव तत्र सैन्यानां शब्दः सुतुमुलॊ निशि ॥ 35 ॥

  36. दीप्यमानाः परदीपाश च रथवारणवाजिषु अदृश्यन्त महाराज महॊल्का इव खाच चयुताः ॥ 36 ॥

  37. सा निशा भरतश्रेष्ठ परदीपैर अवभासिता दिवसप्रतिमा राजन बभूव रणमूर्धनि ॥ 37 ॥

  38. आदित्येन यथा वयाप्तं तमॊ लॊके परणश्यति तथा नष्टं तमॊ घॊरं दीपैर दीप्तैर अलंकृतम ॥ 38 ॥

  39. शस्त्राणां कवचानां च मणीनां च महात्मनाम अन्तर्दधुः परभाः सर्वा दीपैस तैर अवभासिताः ॥ 39 ॥

  40. तस्मिन कॊलाहले युद्धे वर्तमाने निशामुखे अवधीत समरे पुत्रं पिता भरतसत्तम ॥ 40 ॥

  41. पुत्रश च पितरं मॊहात सखायं च सखा तथा संबन्धिनंच संबन्धी सवस्रीयं चापि मातुलः ॥ 41 ॥

  42. सवे सवान परे परांश चापि निजघ्नुर इतरेतरम निर्मर्यादम अभूद युद्धं रात्रौ घॊरं भयावहम ॥ 42 ॥

Reach this point to mark the section finished.

Continue to अध्याय 145

Previous: अध्याय 143