[धृ] बहूनि सुविचित्राणि दवंद्व युद्धानि संजय तवयॊक्तानि निशम्याहं सपृहयामि स चक्षुषाम ॥ 1 ॥
आश्चर्यभूतं लॊकेषु कथयिष्यन्ति मानवाः कुरूणां पाण्डवानां च युद्धं देवासुरॊपमम ॥ 2 ॥
न हि मे तृप्तिर अस्तीह शृण्वतॊ युद्धम उत्तमम तस्माद आर्तायनेर युद्धं सौभद्रस्य च शंस मे ॥ 3 ॥
[स] सादितं परेक्ष्य यन्तारं शल्यः सर्वायषीं गदाम समुत्क्षिप्य नदन करुद्धः परचस्कन्द रथॊत्तमात ॥ 4 ॥
तं दीप्तम इव कालाग्निं दण्डहस्तम इवान्तकम जवेनाभ्यपतद भीमः परगृह्य महतीं गदाम ॥ 5 ॥
सौभद्रॊ ऽपय अशनिप्रख्यां परगृह्य महतीं गदाम एह्य एहीत्य अब्रवीच छल्यं यत्नाद भीमेन वारितः ॥ 6 ॥
वारयित्वा तु सौभद्रं भीमसेनः परतापवान शल्यम आसाद्य समरे तस्थौ गिरिर इवाचलः ॥ 7 ॥
तथैव मद्रराजॊ ऽपि भीमं दृष्ट्वा महाबलम ससाराभिमुखस तूर्णं शार्दूल इव कुञ्जरम ॥ 8 ॥
ततस तूर्यनिनादाश च शङ्खानां च सहस्रशः सिंहनादाश च संजज्ञुर भेरीणां च महास्वनाः ॥ 9 ॥
पश्यतां शतशॊ हय आसीद अन्यॊन्यसमचेतसाम पाण्डवानां कुरूणां च साधु साध्व इति निस्वनः ॥ 10 ॥
न हि मद्राधिपाद अन्यः सर्वराजसु भारत सॊढुम उत्सहते वेगं भीमसेनस्य संयुगे ॥ 11 ॥
तथा मद्राधिपस्यापि गदा वेगं महात्मनः सॊढुम उत्सहते लॊके कॊ ऽनयॊ युधि वृकॊदरात ॥ 12 ॥
पट्टैर जाम्बूनदैर बद्धा बभूव जनहर्षिणी परजज्वाल तथा विद्धा भीमेन महती गदा ॥ 13 ॥
तथैव चरतॊ मार्गान मण्डलानि विचेरतुः महाविद्युत परतीकाशा शल्यस्य शुशुभे गदा ॥ 14 ॥
तौ वृषाव इव नर्दन्तौ मण्डलानि विचेरतुः आवर्जितगदा शृङ्गाव उभौ शल्य वृकॊदरौ ॥ 15 ॥
मण्डलावर्त मार्गेषु गदा विहरणेषु च निर्विशेषम अभूद युद्धं तयॊः पुरुषसिंहयॊः ॥ 16 ॥
ताडिता भीमसेनेन शल्यस्य महती गदा साग्निज्वाला महारौद्रा गदा चूर्णम अशीर्यत ॥ 17 ॥
तथैव भीमसेनस्य दविषताभिहता गदा वर्षा परदॊषे खद्यॊतैर वृतॊ वृक्ष इवाबभौ ॥ 18 ॥
गदा कषिप्ता तु समरे मद्रराजेन भारत वयॊम संदीपयाना सा ससृजे पावकं बहु ॥ 19 ॥
तथैव भीमसेनेन दविषते परेषिता गदा तापयाम आस तत सैन्यं महॊल्का पतती यथा ॥ 20 ॥
ते चैवॊभे गदे शरेष्ठे समासाद्य परस्परम शवसन्त्यौ नागकन्येव ससृजाते विभावसुम ॥ 21 ॥
नखैर इव महाव्याघ्रौ दन्तैर इव महागजौ तौ विचेरतुर आसाद्य गदाभ्यां च परस्परम ॥ 22 ॥
ततॊ गदाग्राभिहतौ कषणेन रुधिरॊक्षितौ ददृशाते महात्मानौ पुष्पिताव इव किंशुकौ ॥ 23 ॥
शुश्रुवे दिक्षु सर्वासु तयॊः पुरुषसिंहयॊः गदाभिघात संह्रादः शक्राशनिर इवॊपमः ॥ 24 ॥
गदया मद्रराजेन सव्यदक्षिणमाहतः नाकम्पत तदा भीमॊ भिद्यमान इवाचलः ॥ 25 ॥
तथा भीम गदा वेगैस ताड्यमानॊ महाबलः धैर्यान मद्राधिपस तस्थौ वज्रैर गिरिर इवाहतः ॥ 26 ॥
आपेततुर महावेगौ समुच्छ्रितमहागदौ पुनर अन्तरमार्गस्थौ मण्डलानि विचेरतुः ॥ 27 ॥
अथाप्लुत्य पदान्य अष्टौ संनिपत्य गजाव इव सहसा लॊहदण्डाभ्याम अन्यॊन्यम अभिजघ्नतुः ॥ 28 ॥
तौ परस्परवेगाच च गदाभ्यां च भृशाहतौ युगपत पेततुर वीरौ कषिताव इन्द्रध्वजाव इव ॥ 29 ॥
ततॊ विह्वलमानं तं निःश्वसन्तं पुनः पुनः शल्यम अभ्यपतत तूर्णं कृतवर्मा महारथः ॥ 30 ॥
दृष्ट्वा चैनं महाराज गदयाभिनिपीडितम विचेष्टन्तं यथा नागं मूर्छयाभिपरिप्लुतम ॥ 31 ॥
ततः सगदम आरॊप्य मद्राणाम अधिपं रथम अपॊवाह रणात तूर्णं कृतवर्मा महारथः ॥ 32 ॥
कषीबवद विह्वलॊ वीरॊ निमेषात पुनर उत्थितः भीमॊ ऽपि सुमहाबाहुर गदापाणिर अदृश्यत ॥ 33 ॥
ततॊ मद्राधिपं दृष्ट्वा तव पुत्राः पराङ्मुखम स नागरथपत्त्यश्वाः समकम्पन्त मारिष ॥ 34 ॥
ते पाण्डवैर अर्द्यमानास तावका जितकाशिभिः भीता दिशॊ ऽनवपद्यन्त वातनुन्ना धना इव ॥ 35 ॥
निर्जित्य धार्तराष्ट्रांस तु पाण्डवेया महारथाः वयरॊचन्त रणे राजन दीप्यमाना यशस्विनः ॥ 36 ॥
सिंहनादान भृशं चक्रुः शङ्खान दध्मुश च हर्षिताः भेरीश च वारयाम आसुर मृदङ्गांश चानकैः सह ॥ 37 ॥
द्रोणपर्व · Drona Parva
अध्याय 14
Reach this point to mark the section finished.
Continue to अध्याय 15