[स] ततः स पाण्डवानीके जनयंस तुमुलं महत वयचरत पाण्डवान दरॊणॊ दहन कक्षम इवानलः ॥ 1 ॥
निर्दहन्तम अनीकानि साक्षाद अग्निम इवॊत्थितम दृष्ट्वा रुक्मरथं युद्धे समकम्पन्त सृञ्जयाः ॥ 2 ॥
परततं चास्यमानस्य धनुषॊ ऽसयाशु कारिणः जयाघॊषः शरूयते ऽतयर्थं विस्फूर्जितम इवाशनेः ॥ 3 ॥
रथिनः सादिनश चैव नागान अश्वान पदातिनः रौद्रा हस्तवता मुक्ताः परमथ्नन्ति सम सायकाः ॥ 4 ॥
नानद्यमानः पर्जन्यः सानिलः शुचि संक्षये अश्मवर्षम इवावर्षत परेषाम आवहद भयम ॥ 5 ॥
वयचरत स तदा राजन सेनां विक्षॊभयन परभुः वर्धयाम आस संत्रासं शात्रवाणाम अमानुषम ॥ 6 ॥
तस्य विद्युद इवाभ्रेषु चापं हेमपरिष्कृतम भरमद रथाम्बुदे तस्मिन दृश्यते सम पुनः पुनः ॥ 7 ॥
स वीरः सत्यवान पराज्ञॊ धर्मनित्यः सुदारुणः युगान्तकाले यन्तेव रौद्रां परास्कन्दयन नदीम ॥ 8 ॥
अमर्षवेगप्रभवां करव्यादगणसंकुलाम बलौघैः सर्वतः पूर्णां वीर वृक्षापहारिणीम ॥ 9 ॥
शॊणितॊदां रथावर्तां हस्त्यश्वकृतरॊधसम कवचॊडुप संयुक्तां मांसपङ्क समाकुलाम ॥ 10 ॥
मॊदॊ मज्जास्थि सिकताम उष्णीष वरफेनिलाम संग्रामजलदापूर्णां परासमत्स्यसमाकुलाम ॥ 11 ॥
नरनागाश्वसंभूतां शरवेगौघवाहिनीम शरीरदारु शृङ्गाटां भुजनागसमाकुलाम ॥ 12 ॥
उत्तमाङ्गॊपल तलां निस्त्रिंशझषसेविताम रथनागह्रदॊपेतां नानाभरणनीरजाम ॥ 13 ॥
महारथशतावर्तां भूमिरेणूर्मि मालिनीम महावीर्यवतां संख्ये सुतरां भीरु दुस्तराम ॥ 14 ॥
शूर वयालसमाकीर्णां पराणिवाणिज सेविताम छिन्नच छत्रमहाहंसां मुकुटाण्डज संकुलाम ॥ 15 ॥
चक्रकूर्मां गदा नक्रां शरक्षुद्र झषाकुलाम बड गृध्रसृगालानां घॊरसंघैर निषेविताम ॥ 16 ॥
निहतान पराणिनः संख्ये दरॊणेन बलिना शरैः वहन्तीं पितृलॊकाय शतशॊ राजसत्तम ॥ 17 ॥
शरीरशतसंबाधां केशशैवलशाद्वलाम नदीं परावर्तयद राजन भीरूणां भयवर्धिनीम ॥ 18 ॥
तं जयन्तम अनीकानि तानि तान्य एव भारत सरतॊ ऽभयद्रवन दरॊणं युधिष्ठिरपुरॊगमाः ॥ 19 ॥
तान अभिद्रवतः शूरांस तावका दृढकार्मुकाः सर्वतः परत्यगृह्णन्त तद अभूल लॊमहर्षणम ॥ 20 ॥
शतम आयुस तु शकुनिः सहदेवं समाद्रवत स नियन्तृध्वजरथं विव्याध निशितैः शरैः ॥ 21 ॥
तस्य माद्री सुतः केतुं धनुः सूतं हयान अपि नातिक्रुद्धः शरैश छित्त्वा षष्ट्या विव्याध मातुलम ॥ 22 ॥
सौबलस तु गदां गृह्य परचस्कन्द रथॊत्तमात स तस्य गदया राजन रथात सूतम अपातयत ॥ 23 ॥
ततस तौ विरथौ राजन गदाहस्तौ महाबलौ चिक्रीडतू रणे शूरौ स शृङ्गाव इव पर्वतौ ॥ 24 ॥
दरॊणः पाञ्चालराजानं विद्ध्वा दशभिर आशुगैः बहुभिस तेन चाभ्यस्तस तं विव्याध शताधिकैः ॥ 25 ॥
विविंशतिं भीमसेनॊ विंशत्या निशितैः शरैः विद्ध्वा नाकम्पयद वीरस तद अद्भुतम इवाभवत ॥ 26 ॥
विविंशतिस तु सहसा वयश्व केतुशरासनम बीमं चक्रे महाराज ततः सैन्यान्य पूजयन ॥ 27 ॥
स तन न ममृषे वीरः शत्रॊर विजयम आहवे ततॊ ऽसय गदया दान्तान हयान सर्वान अपातयत ॥ 28 ॥
शल्यस तु नकुलं वीरः सवस्रीयं परियम आत्मनः विव्याध परहसन बाणैर लाडयन कॊपयन्न इव ॥ 29 ॥
तस्याश्वान आतपत्रं च धवजं सूतम अथॊ धनुः निपात्य नकुलः संख्ये शङ्खं दध्मौ परतापवान ॥ 30 ॥
धृष्टकेतुः कृपेनास्तांश छित्त्वा बहुविधाञ शरान कृपं विव्याध सप्तत्या लक्ष्म चास्याहरत तरिभिः ॥ 31 ॥
तं कृपः शरवर्षेण महता समवाकिरत निवार्य च रणे विप्रॊ धृष्टकेतुम अयॊधयत ॥ 32 ॥
सात्यकिः कृतवर्माणं नाराचेन सतनान्तरे विद्ध्वा विव्याध सप्तत्या पुनर अन्यैः समयन्न इव ॥ 33 ॥
सप्त सप्ततिभिर भॊजस तं विद्ध्वा निशितैः शरैः नाकम्पयत शैनेयं शीघ्रॊ वायुर इवाचलम ॥ 34 ॥
सेनापतिः सुशर्माणं शीघ्रं मर्मस्व अताडयत स चापि तं तॊमरेण जत्रु देशे अताडयत ॥ 35 ॥
वैकर्तनं तु समरे विराटः परत्यवारयत सह मत्स्यैर महावीर्यैस तद अद्भुतम इवाभवत ॥ 36 ॥
तत पौरुषम अभूत तत्र सूतपुत्रस्य दारुणम यत सैन्यं वारयाम आस शरैः संनतपर्वभिः ॥ 37 ॥
दरुपदस तु सवयं राजा भगदत्तेन संगतः तयॊर युद्धं महाराज चित्ररूपम इवाभवत भूतानां तरासजननं चक्राते ऽसत्रविशारदौ ॥ 38 ॥
भूरिश्रवा रणे राजन याज्ञसेनिं महारथम महता सायकौघेन छादयाम आस वीर्यवान ॥ 39 ॥
शिखण्डी तु ततः करुद्धः सौमदत्तिं विशां पते नवत्या सायकानां तु कम्पयाम आस भारत ॥ 40 ॥
राक्षसौ भीमकर्माणौ हैडिम्बालम्बुसाव उभौ चक्राते ऽतयद्भुतं युद्धं परस्परवधैषिणौ ॥ 41 ॥
माया शतसृजौ दृप्तौ मायाभिर इतरेतरम अन्तर्हितौ चेरतुस तौ भृशं विस्मयकारिणौ ॥ 42 ॥
चेकितानॊ ऽनुविन्देन युयुधे तव अतिभैरवम यथा देवासुरे युद्धे बलशक्रौ महाबलौ ॥ 43 ॥
लक्ष्मणः कषत्रदेवेन विमर्दम अकरॊद भृशम यथा विष्णुः पुरा राजन हिरण्याक्षेण संयुगे ॥ 44 ॥
ततः परजविताश्वेन विधिवत कल्पितेन च रथेनाभ्यपतद राजन सौभद्रं पौरवॊ नदन ॥ 45 ॥
ततॊ ऽभियाय तवरितॊ युद्धाकाङ्क्षी महाबलः तेन चक्रे महद युद्धम अभिमन्युर अरिंदमः ॥ 46 ॥
पौरवस तव अथ सौभद्रं शरव्रातैर अवाकिरत तस्यार्जुनिर धवजं छत्रं धनुश चॊर्व्याम अपातयत ॥ 47 ॥
सौभद्रः पौरवं तव अन्यैर विद्ध्वा सप्तभिर आशुगैः पञ्चभिस तस्य विव्याध हयान सूतं च सायकैः ॥ 48 ॥
ततः संहर्षयन सेनां सिंहवद विनदन मुहुः समादत्तार्जुनिस तूर्णं पौरवान्त करं शरम ॥ 49 ॥
दवाभ्यां शराभ्यां हार्दिक्यश चकर्त स शरं धनुः तद उत्सृज्य धनुश छिन्नं सौभद्रः परवीरहा उद्बबर्ह सितं खड्गम आददानः शरावरम ॥ 50 ॥
स तेनानेक तारेण चर्मणा कृतहस्तवत भरान्तासिर अचरन मार्गान दर्शयन वीर्यम आत्मनः ॥ 51 ॥
भरामितं पुनर उद्भ्रान्तम आधूतं पुनर उच्छ्रितम चर्म निस्त्रिंशयॊ राजन निर्विशेषम अदृश्यत ॥ 52 ॥
स पौरव रथस्येषाम आप्लुत्य सहसा नदन पौरवं रथम अस्थाय केशपक्षे परामृशत ॥ 53 ॥
जघानास्य पदा सूतम असिनापातयद धवजम विक्षॊभ्याम्भॊ निधिं तार्क्ष्यस तं नागम इव चाक्षिपत ॥ 54 ॥
तम आकलितकेशान्तं ददृशुः सर्वपार्थिवाः उक्षाणम इव सिंहेन पात्यमानम अचेतनम ॥ 55 ॥
तम आर्जुनिवशं पराप्तं कृष्यमाणम अनाथवत पौरवं पतितं दृष्ट्वा नामृष्यत जयद्रथः ॥ 56 ॥
स बर्हिणमहावाजं किङ्किणीशतजालवत चर्म चादाय खड्गं च नद्न पर्यपतद रथात ॥ 57 ॥
ततः सैन्धवम आलॊक्य कार्ष्णिर उत्सृज्य पौरवम उत्पपात रथात तूर्णं शयेनवन निपपात च ॥ 58 ॥
परासपट्टिशनिस्त्रिंशाञ शत्रुभिः संप्रवेरितान चिच्छेदाथासिना कार्ष्णिश चर्मणा संरुरॊध च ॥ 59 ॥
स दर्शयित्वा सैन्यानां सवबाहुल्बलम आत्मनः तम उद्यम्य महाखड्गं चर्म चाथ पुनर बली ॥ 60 ॥
वृद्धक्षत्रस्य दायादं पितुर अत्यन्तवैरिणम ससाराभिमुखः शूरः शार्दूल इव कुञ्जरम ॥ 61 ॥
तौ परस्परम आसाद्य खड्गदन्त नखायुधौ हृष्टवत संप्रजह्राते वयाघ्रकेसरिणाव इव ॥ 62 ॥
संपातेष्व अभिपातेषु निपातेष्व असि चर्मणॊः न तयॊर अन्तरं कश चिद ददर्श नरसिंहयॊः ॥ 63 ॥
अवक्षेपॊ ऽसि निर्ह्रादः शस्त्रान्तर निदर्शनम बाह्यान्तर निपातश च निर्विशेषम अदृश्यत ॥ 64 ॥
बाह्यम आभ्यन्तरं चैव चरन्तौ मार्गम उत्तमम ददृशाते महात्मानौ स पक्षाव इव पर्वतौ ॥ 65 ॥
ततॊ विक्षिपतः खड्गं सौभद्रस्य यशस्विनः शरावरण पक्षान्ते परजहार जयद्रथः ॥ 66 ॥
रुक्मपक्षान्तरे सक्तस तस्मिंश चर्मणि भास्वरे सिन्धुराजबलॊधूतः सॊ ऽभज्यत महान असिः ॥ 67 ॥
भग्नम आज्ञाय निस्त्रिंशम अवप्लुत्य पडानि षट सॊ ऽदृश्यत निमेषेण सवरथं पुनर आस्थितः ॥ 68 ॥
तं कार्ष्णिं समरान मुक्तम आस्थितं रथम उत्तमम सहिताः सर्वराजानः परिवव्रुः समन्ततः ॥ 69 ॥
ततश चर्म च खड्गं च समुत्क्षिप्य महाबलः ननादार्जुन दायादः परेक्षमाणॊ जयद्रथम ॥ 70 ॥
सिन्धुराजं परित्यज्य सौभद्रः परवीरहा तापयाम आस तत सैन्यं भुवनं भास्करॊ यथा ॥ 71 ॥
तस्य सर्वायसीं शक्तिं शल्यः कनकभूषणाम चिक्षेप समरे घॊरां दीप्ताम अग्निशिखाम इव ॥ 72 ॥
ताम अवप्लुत्य जग्राह स कॊशं चारदॊरसिम वैनतेयॊ यथा कार्ष्णिः पतन्तम उरगॊत्तमम ॥ 73 ॥
तस्य लाघवम आज्ञाय सत्तं चामिततेजसः सहिताः सर्वराजानः सिंहनादम अथानदन ॥ 74 ॥
ततस ताम एव शल्यस्य सौभद्रः परवीरहा मुमॊच भुजवीर्येण वैडूर्य विकृताजिराम ॥ 75 ॥
सा तस्य रथम आसाद्य निर्मुक्तभुजगॊपमा जघान सूतं शल्यस्य रथाच चैनम अपातयत ॥ 76 ॥
ततॊ विराटद्रुपदौ धृष्टकेतुर युधिष्ठिरः सात्यकिः केकया भीमॊ धृष्टद्युम्न शिखण्डिनौ यमौ च दरौपदेयाश च साधु साध्व इति चुक्रुशुः ॥ 77 ॥
बाणशब्दाश च विविधाः सिंहनादाश च पुष्कलाः परादुरासन हर्षयन्तः सौभद्रम अपलायिनम तन नामृष्यन्त पुत्रास ते शत्रॊर विजयलक्षणम ॥ 78 ॥
अथैनं सहसा सर्वे समन्तान निशितैः शरैः अभ्याकिरन महाराज जलदा इव पर्वतम ॥ 79 ॥
तेषां च परियम अन्विच्छन सूतस्य च पराभवात आर्तायनिर अमित्रघ्नः करुद्धः सौभद्रमाभ्ययात ॥ 80 ॥
द्रोणपर्व · Drona Parva
अध्याय 13
Reach this point to mark the section finished.
Continue to अध्याय 14