[स] वर्तमाने तथा युद्धे घॊररूपे भयावहे तमसा संवृते लॊके रजसा च महीपते नापश्यन्त रणे यॊधाः परस्परम अवस्थिताः ॥ 1 ॥
अनुमानेन संज्ञाभिर युद्धं तद ववृते महत नरनागाश्वमथनं परमं लॊमहर्षणम ॥ 2 ॥
दरॊणकर्णकृपा वीरा भीमपार्षत सात्यकाः अन्यॊन्यं कषॊभयाम आसुः सैन्यानि नृपसत्तमः ॥ 3 ॥
वध्यमानानि सैन्यानि समन्तात तैर महारथैः तमसा रजसा चैव समन्ताद विप्रदुद्रुवुः ॥ 4 ॥
ते सर्वतॊ विद्रवन्तॊ यॊधा वित्रस्तचेतसः अहन्यन्त महाराज धावमानाश च संयुगे ॥ 5 ॥
महारतः सहस्राणि जघ्नुर अन्यॊन्यम आहवे अन्धे तमसि मूढानि पुत्रस्य तव मन्त्रिते ॥ 6 ॥
ततः सर्वाणि सैन्यानि सेना गॊपाश च भारत वयमुह्यन्त रणे तत्र तमसा संवृते सति ॥ 7 ॥
[धृ] तेषां संलॊड्यमानानां पाण्डवैर निहतौजसाम अन्धे तमसि मग्नानाम आसीक का वॊ मतिस तदा ॥ 8 ॥
कथं परकाशस तेषां वा मम सैन्येषु वा पुनः बभूव लॊके तमसा तथा संजय संवृते ॥ 9 ॥
[धृ] ततः सर्वाणि सैन्यानि हतशिष्टानि यानि वै सेना गॊप्तॄन अथादिश्य पुनर वयूहम अकल्पयत ॥ 10 ॥
दरॊणः पुरस्ताज जघने तु शल्यस; तथा दरौणिः पार्श्वतः सौबलश च सवयं तु सर्वाणि बलानि राजन; राजाभ्ययाद गॊपयन वै निशायाम ॥ 11 ॥
उवाच सर्वांश च पदातिसंघान; दुर्यॊधनः पार्थिव सान्त्वपूर्वम उत्सृज्य सर्वे परमायुधानि; गृह्णीत हस्तैर जवलितान परदीपान ॥ 12 ॥
ते चॊदिताः पार्थिव सत्तमेन; ततः परहृष्टा जगृहुः परदीपान सा भूय एव धवजिनी विभक्ता; वयरॊचताभिप्रभया निशायाम ॥ 13 ॥
महाधनैर आभरणैश च दिव्यैः; शस्त्रैः परदीप्तैर अभिसंपतद्भिः कषणेन सर्वे विहिताः परदीपा; वयदीपयंश च धवजनीं तद आशु ॥ 14 ॥
सर्वास तु सेना वयतिसेव्यमानाः; पदातिभिः पावकतैलहस्तैः परकाश्यमाना ददृशुर निशायां; यथान्तरिक्षे जलदास तडिद्भिः ॥ 15 ॥
परकाशितायां तु तथा धवजिन्यां; दरॊणॊ ऽगनिकल्पः परतपन समन्तात रराज राजेन्द्र सुवर्णवर्मा; मध्यं गतः सूर्य इवांशुमाली ॥ 16 ॥
जाम्बूनदेष्व आभरषेषु चैव; निष्केषु शुद्धेषु शरावरेषु पीतेषु शस्त्रेषु च पावकस्य; परतिप्रभास तत्र ततॊ बभूवुः ॥ 17 ॥
गदाश च शैक्याः परिघाश च शुभ्रा; रथेषु शक्त्यश च विवर्तमानाः परतिप्रभा रश्मिभिर आजमीढ; पुनः पुनः संजनयन्ति दीप्ताः ॥ 18 ॥
छत्राणि बालव्यजनानुषङ्गा; दीप्ता महॊल्काश च तथैव राजन वयाघूर्णमानाश च सुवर्णमाला; वयायच्छतां तत्र तदा विरेजुः ॥ 19 ॥
शस्त्रप्रभाभिश च विराजमानं; दीपप्रभाभिश च तदा बलं तत परकाशितं चाभरण परभाभिर; भृशं परकाशं नृपते बभूव ॥ 20 ॥
पीतानि शस्त्राण्य असृग उक्षितानि; वीरावधूतानि तनु दरुहाणि दीप्तां परभां पराजनयन्त तत्र; तपात्यये विद्युद इवान्तरिक्षे ॥ 21 ॥
परकम्पितानाम अभिघात वेगैर; अभिघ्नतां चापतताम जवेन वक्त्राण्य अशॊभन्त तदा नराणां; वाय्वीरितानीव महाम्बुजानि ॥ 22 ॥
महावने दाव इव परदीप्ते; यथा परभा भास्करस्यापि नश्येत तथा तवासीद धवजिनी परदीप्ता; महाभये भारत भीमरूपा ॥ 23 ॥
तत संप्रदीप्तं बलम अस्मदीयं; निशाम्य पार्थस तवरितास तथैव सर्वेषु सैन्येषु पदातिसंघान; अचॊदयंस ते ऽथ चक्रुः परदीपान ॥ 24 ॥
गजे गजे सप्त कृताः परदीपा; रथे रथे चैव दश परदीपाः दवाव अश्वपृष्ठे परिपार्श्वतॊ ऽनये; धवजेषु चान्ये जघनेषु चान्ये ॥ 25 ॥
सेनासु सर्वासु च पार्श्वतॊ ऽनये; पश्चात पुरस्ताच च समन्ततश च मध्ये तथान्ये जवलिताग्निहस्ताः; सेना दवये ऽपि सम नरा विचेरुः ॥ 26 ॥
सर्वेषु सैन्येषु पदातिसंघा; वयामिश्रिता हस्तिरथाश्ववृन्दैः मध्ये तथान्ये जवलिताग्निहस्ता; वयदीपयन पाण्डुसुतस्य सेनाम ॥ 27 ॥
तेन परदीप्तेन तथा परदीप्तं; बलं तद आसीद बलवद बलेन भाः कुर्वता भानुमता गरहेण; दिवाकरेणाग्निर इवाभितप्तः ॥ 28 ॥
तयॊः परभाः पृथिवीम अन्तरिक्षं; सर्वा वयतिक्रम्य दिशश च वृद्धाः तेन परकाशेन भृशं परकाशं; बभूव तेषां तव चैव सैन्यम ॥ 29 ॥
तेन परकाशेन दिवं गमेन; संबॊधिता देवगणाश च राजन गन्धर्वयक्षासुरसिद्धसंघाः; समागमन्न अप्सरसश च सर्वाः ॥ 30 ॥
तद देवगन्धर्वसमाकुलं च; यक्षासुरेन्द्राप्सरसां गणैश च हतैश च वीरैर दिवम आरुहद्भिर; आयॊधनं दिव्यकल्पं बभूव ॥ 31 ॥
रथाश्वनागाकुल दीपदीप्तं; संरब्ध यॊधाहत विद्रुताश्वम महद बलं वयूढरथाश्वनागं; सुरासुरव्यूह समं बभूव ॥ 32 ॥
तच छक्ति संघाकुल चण्डवातं; महारथाभ्रं रथवाजि घॊषम शस्त्रौघवर्षं रुधिराम्बुधारं; निशि परवृत्तं नरदेव युद्धम ॥ 33 ॥
तस्मिन महाग्निप्रतिमॊ महात्मा; संतापयन पाण्डवान विप्रमुख्यः गभस्तिभिर मध्यगतॊ यथार्कॊ; वर्षात्यये तद्वद अभून नरेन्द्र ॥ 34 ॥
द्रोणपर्व · Drona Parva
अध्याय 138
Reach this point to mark the section finished.
Continue to अध्याय 139