[स] परकाशिते तथा लॊके रजसा च तमॊवृते समाजग्मुर अथॊ वीराः परस्परवधैषिणः ॥ 1 ॥
ते समेत्य रणे राजञ शस्त्रप्रासासि धारिणः परस्परम उदक्षन्त परस्परकृतागसः ॥ 2 ॥
परदीपानां सहस्रैश च दीप्यमानैः समन्ततः विरराज तदा भूमिर दयौर गरहैर इव भारत ॥ 3 ॥
उल्का शतैः परज्वलितै रणभूणिर वयराजत दह्यमानेव लॊकानाम अभावे वै वसुंधरा ॥ 4 ॥
परदीप्यन्त दिशः सर्वाः परदीपैस तैः समन्ततः वर्षा परदॊषे खद्यॊतैर वृता वृक्षा इवाबभुः ॥ 5 ॥
असज्जन्त ततॊ वीरा वीरेष्व एव पृथक पृथक नागा नागैः समाजग्मुस तुरगाः सह वाजिभिः ॥ 6 ॥
रथा रथवरैर एव समाजग्मुर मुदान्विताः तस्मिन रात्रिमुखे घॊरे पुत्रस्य तव शासनात ॥ 7 ॥
ततॊ ऽरजुनॊ महाराज कौरवाणाम अनीकिनीम वयधमत तवरया युक्तः कषपयन सर्वपार्थिवान ॥ 8 ॥
[धृ] तस्मिन परविष्टे संरब्धे मम पुत्रस्य वाहिनीम अमृष्यमाणे दुर्धर्षे किं व आसीन मनस तदा ॥ 9 ॥
किम अमन्यन्त सैन्यानि परविष्टे शत्रुतापने दुर्यॊधनश च किं कृत्यं पराप्तकालम अमन्यत ॥ 10 ॥
के चैनं समरे वीरं परत्युद्ययुर अरिंदमम के ऽरक्षन दक्षिणं चक्रं के च दरॊणस्य सव्यतः ॥ 11 ॥
के पृष्ठतॊ ऽसय हय अभवन वीरा वीरस्य युध्यतः के पुरस्ताद अगच्छन्त निघ्नतः शात्रवान रणे ॥ 12 ॥
यत पराविशन महेष्वासः पाञ्चालान अपराजितः नृत्यन्न इव नरव्याघ्रॊ रथमार्गेषु वीर्यवान ॥ 13 ॥
ददाह च शरैर दरॊणः पाञ्चालानां रथव्रजान धूमकेतुर इव करुद्धः स कथं मृत्युम ईयिवान ॥ 14 ॥
अव्यग्रान एव हि परान अक्थयस्य अपराजितान हतांश चैव विषण्णांश च विप्रकीर्णांश च शंससि रथिनॊ विरथांश चैव कृतान युद्धेषु मामकान ॥ 15 ॥
[धृ] दरॊणस्य मतम आज्ञाय यॊद्धुकामस्य तां निशाम दुयॊधनॊ महाराज वश्यान भरातॄन अभाषत ॥ 16 ॥
विकर्णं चित्रसेनं च महाबाहुं च कौरवम दुर्धर्षं दीर्घबाहुं च ये च तेषां पदानुगाः ॥ 17 ॥
दरॊणं यत्ताः पराक्रान्ताः सर्वे रक्षत पृष्ठतः हार्दिक्यॊ दक्षिणं चक्रं शल्यश चैवॊत्तरं तथा ॥ 18 ॥
तरिगर्तानां च ये शूरा हतशिष्टा महारथाः तांश चैव सर्वान पुत्रस ते समचॊदयद अग्रतः ॥ 19 ॥
आचार्यॊ हि सुसंयत्तॊ भृशं यत्ताश च पाण्डवाः तं रक्षत सुसंयत्ता निघ्नन्तं शात्रवान रणे ॥ 20 ॥
दरॊणॊ हि बलवान युद्धे कषिप्रहस्तः पराक्रमी निर्जयेत तरिदशान युद्धे किम उ पार्थान स सॊमकान ॥ 21 ॥
ते यूयं सहिताः सर्वे भृशं यत्ता महारथाः दरॊणं रक्षत पाञ्चाल्याद धृष्टद्युम्नान महारथात ॥ 22 ॥
पाण्डवेयेषु सैन्येषु यॊधं पश्याम्य अहं न तम यॊ जयेत रणे दरॊणं धृष्टद्युम्नाद ऋते नृपाः ॥ 23 ॥
तस्य सर्वात्मना मन्ये भारद्वाजस्य रक्षणम स गुप्तः सॊमकान हन्यात सृञ्जयांश च सराजकान ॥ 24 ॥
सृञ्जयेष्व अथ सर्वेषु निहतेषु चमूमुखे धृष्टद्युम्नं रणे दरौणिर नाशयिष्यत्य असंशयम ॥ 25 ॥
तथार्जुनं रणे कर्णॊ विजेष्यति महारथः भीमसेनम अहं चापि युद्धे जेष्यामि दंशितः ॥ 26 ॥
सॊ ऽयं मम जयॊ वयक्तं दीर्घकालं भविष्यति तस्माद रक्षत संग्रामे दरॊणम एव महारथाः ॥ 27 ॥
इत्य उक्त्वा भरतश्रेष्ठ पुत्रॊ दुर्यॊधनस तव वयादिदेश ततः सैन्यं तस्मिंस तमसि दारुणे ॥ 28 ॥
ततः परववृते युद्धं रात्रौ तद भरतर्षभ उभयॊः सेनयॊर घॊरं विजयं परति काङ्क्षिणॊः ॥ 29 ॥
अर्जुनः कौरवं सैन्यम अर्जुनं चापि कौरवाः नानाशस्त्रसमावापैर अन्यॊन्यं पर्यपीडयन ॥ 30 ॥
दरौणिः पाञ्चालराजानं भारद्वाजश च सृञ्जयान धादयाम आसतुः संख्ये शरैः संनतपर्वभिः ॥ 31 ॥
पाण्डुपाञ्चाल सेनानां कौरवाणां च मारिष आसीन निष्टानकॊ घॊरॊ निघ्नताम इतरेतरम ॥ 32 ॥
नैवास्माभिर न पूर्वैर नॊ दृष्टं पूर्वं तथाविधम युद्धं यादृशम एवासीत तां रात्रिं सुमहाभयम ॥ 33 ॥
द्रोणपर्व · Drona Parva
अध्याय 139
Reach this point to mark the section finished.
Continue to अध्याय 140