[स] सॊमदत्तं तु संप्रेक्ष्य विधुन्वानं महद धनुः सात्यकिः पराह यन्तारं सॊमदत्ताय मां वह ॥ 1 ॥
न हय अहत्वा रणे शत्रुं बाह्लीकं कौरवाधमम निवर्तिष्ये रणात सूत सत्यम एतद वचॊ मम ॥ 2 ॥
ततः संप्रेषयद यन्ता सैन्धवांस तान महाजवान तुरङ्गमाञ शङ्खवर्णान सर्वशब्दातिगान रणे ॥ 3 ॥
ते ऽवहन युयुधानं तु मनॊमारुतरंहसः यथेन्द्रं हरयॊ राजन पुरा दैत्यवधॊद्यतम ॥ 4 ॥
तम आपतन्तं संप्रेक्ष्य सात्वतं रभसं रणे सॊमदत्तॊ महाबाहुर असंभ्रान्तॊ ऽभयवर्तत ॥ 5 ॥
विमुञ्चञ शरवर्षाणि पर्जन्य इव वृष्टिमान छादयाम आस शैनेयं जलदॊ भास्करं यथा ॥ 6 ॥
असंभ्रान्तश च समरे सात्यकिः कुरुपुंगवम छादयाम आस बाणौघैः समन्ताद भरतर्षभ ॥ 7 ॥
सॊमदत्तस तु तं षष्ट्या विव्याधॊरसि माधवम सात्यकिश चापि तं राजन्न अविध्यत सायकैः शितैः ॥ 8 ॥
ताव अन्यॊन्यं शरिः कृत्तौ वयराजेतां नरर्षभौ सुपुष्पौ पुष्पसमये पुष्पिताव इव किंशुकौ ॥ 9 ॥
रुधिरॊक्षितसर्वाङ्गौ कुरु वृष्णियशः करौ परस्परम अवेक्षेतां दहन्ताव इव लॊचनौ ॥ 10 ॥
रथमण्डल मार्गेषु चरन्ताव अरिमर्दनौ घॊररूपौ हि ताव आस्तां वृष्किमन्ताव इवाम्बुदौ ॥ 11 ॥
शरसंभिन्न गात्रौ तौ सर्वतः शकलीकृतौ शवाविधाव इव राजेन्द्र वयदृष्येतां शरक्षतौ ॥ 12 ॥
सुवर्णपुङ्खैर इषुभिर आचितौ तौ वयरॊचताम खद्यॊतैर आवृतौ राजन परावृषीव वनस्पती ॥ 13 ॥
संप्रदीपित सर्वाङ्गौ सायकैस तौ महारथौ अदृश्येतां रणे करुद्धाव उल्काभिर इव कुञ्जरौ ॥ 14 ॥
ततॊ युधि महाराज सॊमदत्तॊ महारथः अर्धचन्द्रेण चिच्छेद माधवस्य महद धनुः ॥ 15 ॥
अथैनं पञ्चविंशत्या सायकानां समार्पयत तवरमाणस तवरा काले पुनश च दशभिः शरैः ॥ 16 ॥
अथान्यद धनुर आदाय सात्यकिर वेगवत्तरम पञ्चभिः सायकैस तूर्णं सॊमदत्तम अविध्यत ॥ 17 ॥
ततॊ ऽपरेण भल्लेन धवजं चिच्छेद काञ्चनम बाह्लीकस्य रणे राजन सात्यकिः परहसन्न इव ॥ 18 ॥
सॊमदत्तस तव असंभ्रान्तॊ दृष्ट्वा केतुं निपातितम शैनेयं पञ्चविंशत्या सायकानां समाचिनॊत ॥ 19 ॥
सात्वतॊ ऽपि रणे करुद्धः सॊमदत्तस्य धन्विनः धनुश चिच्छेद समरे कषुरप्रेण शितेन ह ॥ 20 ॥
अथैनं रुक्मपुङ्खानां शतेन नतपर्वणाम आचिनॊद बहुधा राजन भग्नदंष्ट्रम इव दविपम ॥ 21 ॥
अथान्यद धनुर आदाय सॊमदत्तॊ महारथः सात्यकिं छादयाम आस शरवृष्ट्या महाबलः ॥ 22 ॥
सॊमदत्तं तु संक्रुद्धॊ रणे विव्याध सात्यकिः सात्यकिं चेषु जालेन सॊमदत्तॊ अपीडयत ॥ 23 ॥
दशभिः सात्वतस्यार्थे भीमॊ ऽहन बाह्लिकात्मजम सॊमदत्तॊ ऽपय असंभ्रान्तः शैनेयम अवधीच छरैः ॥ 24 ॥
ततस तु सात्वतस्यार्थे भैमसेनिर नवं दृढम मुमॊच परिघं घॊरं सॊमदत्तस्य वक्षसि ॥ 25 ॥
तम आपतन्तं वेगेन परिघं घॊरदर्शनम दविधा चिच्छेद समरे परहसन्न इव कौरवः ॥ 26 ॥
स पपात दविधा छिन्न आयसः परिघॊ महान महीधरस्येव महच छिखरं वज्रदारितम ॥ 27 ॥
ततस तु सात्यकी राजन सॊमदत्तस्य संयुगे धनुश चिच्छेद भल्लेन हस्तावापं च पञ्चभिः ॥ 28 ॥
चतुर्भिस तु शरैस तूर्णं चतुरस तुरगॊत्तमान समीपं परेषयाम आस परेतराजस्य भारत ॥ 29 ॥
सारथेश च शिरः कायाद भल्लेन नतपर्वणा जहार रथशार्दूलः परहसञ शिनिपुंगवः ॥ 30 ॥
ततः शरं महाघॊरं जवलन्तम इव पावकम मुमॊच सात्वतॊ राजन सवर्णपुङ्खं शिलाशितम ॥ 31 ॥
स विमुक्तॊ बलवता शैनेयेन शरॊत्तमः घॊरस तस्यॊरसि विभॊ निपपाताशु भारत ॥ 32 ॥
सॊ ऽतिविद्धॊ बलवता सात्वतेन महारथः सॊमदत्तॊ महाबाहुर निपपात ममार च ॥ 33 ॥
तं दृष्ट्वा निहतं तत्र सॊमदत्तं महारथाः महता शरवर्षेण युयुधानम उपाद्रवन ॥ 34 ॥
छाद्यमानं शरैर दृष्ट्वा युयुधानं युधिष्ठिरः महत्या सेनया सार्धं दरॊणानीकम उपाद्रवत ॥ 35 ॥
ततॊ युधिष्ठिरः करुद्धस तावकानां महाबलम शरैर विद्रावयाम आस भारद्वाजस्य पश्यतः ॥ 36 ॥
सैन्यानि दरावयन्तं तु दरॊणॊ दृष्ट्वा युधिष्ठिरम अभिदुद्राव वेगेन करॊधसंरक्तलॊचनः ॥ 37 ॥
ततः सुनिशितैर बाणैः पार्थं विव्याध सप्तभिः सॊ ऽतिविद्धॊ महाबाहुः सृक्किणी परिसंलिहन युधिष्ठिरस्य चिच्छेद धवजं कार्मुकम एव च ॥ 38 ॥
स छिन्नधन्वा तवरितस तवरा काले नृपॊत्तमः अन्यद आदत्त वेगेन कार्मुकं समरे दृढम ॥ 39 ॥
ततः शरसहस्रेण दरॊणं विव्याध पार्थिवः साश्वसूत धवजरथं तद अद्भुतम इवाभवत ॥ 40 ॥
ततॊ मुहूर्तं वयथितः शरघात परपीडितः निषसाद रथॊपस्थे दरॊणॊ भरतसत्तम ॥ 41 ॥
परतिलभ्य ततः संज्ञां मुहूर्ताद दविजसत्तमः करॊधेन महताविष्टॊ वायव्यास्त्रम अवासृजत ॥ 42 ॥
असंभ्रान्तस ततः पार्थॊ धनुर आकृष्य वीर्यवान तद अस्त्रम अस्त्रेण रणे सतम्भयाम आस भारत ॥ 43 ॥
ततॊ ऽबरवीद वासुदेवः कुन्तीपुत्रं युधिष्ठिरम युधिष्ठिर महाबाहॊ यत तवा वक्ष्यामि तच छृणु ॥ 44 ॥
उपारमस्व युद्धाय दरॊणाद भरतसत्तम गृध्यते हि सदा दरॊणॊ गरहणे तव संयुगे ॥ 45 ॥
नानुरूपम अहं मन्ये युद्धम अस्य तवया सह यॊ ऽसय सृष्टॊ विनाशाय स एनं शवॊ हनिष्यति ॥ 46 ॥
परिवर्ज्य गुरुं याहि यत्र राजा सुयॊधनः भीमश च रथशार्दूलॊ युध्यते कौरवैः सह ॥ 47 ॥
वासुदेव वचः शरुत्वा धर्मराजॊ युधिष्ठिरः मुहूर्तं चिन्तयित्वा तु ततॊ दारुणम आहवम ॥ 48 ॥
परायाद दरुतम अमित्रघ्नॊ यत्र भीमॊ वयवस्थितः विनिघ्नंस तावकान यॊधान वयादितास्य इवान्तकः ॥ 49 ॥
रथघॊषेण महता नादयन वसुधातलम पर्जन्य इव घर्मान्ते नादयन वै दिशॊ दश ॥ 50 ॥
भीमस्य निघ्नतः शत्रून पार्ष्णिं जग्राह पाण्डवः दरॊणॊ ऽपि पाण्डुपाञ्चालान वयधमद रजनी मुखे ॥ 51 ॥
द्रोणपर्व · Drona Parva
अध्याय 137
Reach this point to mark the section finished.
Continue to अध्याय 138