[स] तथा परुषितं दृष्ट्वा सूतपुत्रेण मातुलम खड्गम उद्यम्य वेगेन दरौणिर अभ्यपतद दरुतम ॥ 1 ॥
[अष्व] कर्ण पश्य सुदुर्बुद्धे तिष्ठेदानीं नराधम एष ते ऽदय शिरः कायाद उद्धरामि सुदुर्मते ॥ 2 ॥
[स] तम उत्पतन्तं वेगेन राजा दुर्यॊधनः सवयम नयवारयन महाराज कृपश च दविपदां वरः ॥ 3 ॥
[कर्ण] शूरॊ ऽयं समरश्लाघी दुर्मतिश च दविजाधमः आसादयतु मद्वीर्यं मुञ्चेमं कुरुसत्तम ॥ 4 ॥
[अष्व] तवैतत कषम्यते ऽसमाभिः सूतात्मज सुदुर्मते दर्पम उत्सिक्तम एतत ते फल्गुनॊ नाशयिष्यति ॥ 5 ॥
[दुर] अश्वत्थामन परसीदस्व कषन्तुम अर्हसि मानद कॊपः खलु न कर्तव्यः सूतपुत्रे कथं चन ॥ 6 ॥
तवयि कर्णे कृपे दरॊणे मद्रराजे ऽथ सौबले महत कार्यं समायत्तं परसीद दविजसत्तम ॥ 7 ॥
एते हय अभिमुखाः सर्वे राधेयेन युयुत्सवः आयान्ति पाण्डवा बरह्मन्न आह्वयन्तः समन्ततः ॥ 8 ॥
[स] कर्णॊ ऽपि रथिनां शरेष्ठश चापम उद्यम्य वीर्यवान कौरवाग्र्यैः परिवृतः शक्रॊ देवगणैर इव पर्यतिष्ठत तेजस्वी सवबाहुबलम आश्रितः ॥ 9 ॥
ततः परववृते युद्धं कर्णस्य सह पाण्डवैः संरब्धस्य महाराज सिंहनाद विनादितम ॥ 10 ॥
ततस ते पाण्डवा राजन पाञ्चालाश च यशस्विनः दृष्ट्वा कर्णं महाबाहुम उच्चैः शब्दम अथानदन ॥ 11 ॥
अयं कर्णः कुतः कर्णस तिष्ठ कर्ण महारणे युध्यस्व सहितॊ ऽसमाभिर दुरात्मन पुरुषाधम ॥ 12 ॥
अन्ये तु दृष्ट्वा राधेयं करॊधरक्तेक्षणाब्रुवन हन्यताम अयम उत्सिक्तः सूतपुत्रॊ ऽलपचेतनः ॥ 13 ॥
सर्वैः पार्थिवशार्दूलैर नानेनार्थॊ ऽसति जीवता अत्यन्तवैरी पार्थानां सततं पापपूरुषः ॥ 14 ॥
एष मूलं हय अनर्थानां दुर्यॊधन मते सथितः हतैनम इति जल्पन्तः कषत्रियाः समुपाद्रवन ॥ 15 ॥
महता शरवर्षेण छादयन्तॊ महारथाः वधार्धं सूतपुत्रस्य पाण्डवेयेन चॊदिताः ॥ 16 ॥
तांस तु सर्वांस तथा दृष्ट्वा धावमानान महारथान न विव्यथे सूर पुत्रॊ न च तरासम अगच्छत ॥ 17 ॥
दृष्ट्वा नगरकल्पं तम उद्धूतं सैन्यसागरम पिप्रीषुस तव पुत्राणां संग्रामेष्व अपराजितः ॥ 18 ॥
सायकौघेन बलवान कषिप्रकारी महाबलः वारयाम आस तत सैन्यं समन्ताद भरतर्षभ ॥ 19 ॥
ततस तु शरवर्षेण पार्थिवास तम अवारयन धनूंषि ते विधुन्वानाः शतशॊ ऽथ सहस्रशः अयॊधयन्त राधेयं शक्रं दैत्य गणा इव ॥ 20 ॥
शरवर्षं तु तत कर्णः पार्थिवैः समुदीरितम शरवर्षेण महता समन्ताद वयकिरत परभॊ ॥ 21 ॥
तद युद्धम अभवत तेषां कृतप्रतिकृतैषिणाम यथा देवासुरे युद्धे शक्रस्य सह दानवैः ॥ 22 ॥
तत्राद्भुतम अपश्याम सूतपुत्रस्य लाघवम यद एनं समरे यत्ता नाप्नुवन्त परे युधि ॥ 23 ॥
निवार्य च शरौघांस तान पार्थिवानां महारथः युगेष्व ईषासु छत्रेषु धवजेषु च हयेषु च आत्मनामाङ्कितान बाणान राधेयः पराहिणॊच छितान ॥ 24 ॥
ततस ते वयाकुलीभूता राजानः कर्ण पीडिताः बभ्रमुस तत्र तत्रैव गावः शीतार्दिता इव ॥ 25 ॥
हयानां वध्यमानानां गजानां रथिनां तथा तत्र तत्राभ्यवेक्षामः संघान कर्णेन पातितान ॥ 26 ॥
शिरॊभिः पतितौ राजन बाहुभिश च समन्ततः आस्तीर्णा वसुधा सर्वा शूराणाम अनिवर्तिनाम ॥ 27 ॥
हतैश च हन्यमानैश च निष्टनद्भिश च सर्वशः बभूवायॊधनं रौद्रं वैवस्वतपुरॊपमम ॥ 28 ॥
ततॊ दुर्यॊधनॊ राजा दृष्ट्वा कर्णस्य विक्रमम अश्वत्थामानम आसाद्य तदा वाक्यम उवाच ह ॥ 29 ॥
युध्यते ऽसौ रणे कर्णॊ दंशितः सर्वपार्थिवैः पश्यैतां दरवतीं सेनां कर्ण सायकपीडिताम कार्त्तिकेयेन विध्वस्ताम आसुरीं पृतनाम इव ॥ 30 ॥
दृष्ट्वैनां निर्जितां सेनां रणे कर्णेन धीमता अभियात्य एष बीभत्सुः सूतपुत्र जिघांसया ॥ 31 ॥
तद यथा पश्यमानानां सूतपुत्रं महारथम न हन्यात पाण्डवः संख्ये तथा नीतिर विधीयताम ॥ 32 ॥
ततॊ दरौणिः कृपः शल्यॊ हार्दिक्यश च महारथः परत्युद्ययुस तदा पार्थं सूतपुत्र परीप्सया ॥ 33 ॥
आयान्तं दृश्यकौन्तेयं वृत्रं देव चमूम इव परयुद्ययौ तदा कर्णॊ यथा शक्रः परतापवान ॥ 34 ॥
[धृ] संरब्धं फल्गुनं दृष्ट्वा कालान्तकयमॊपमम कर्णॊ वैकर्तनः सूत परत्यपद्यत किम उत्तरम ॥ 35 ॥
स हय अस्पर्धत पार्थेन नित्यम एव महारथः आशंसते च बीभत्सुं युद्धे जेतुं सुदारुणे ॥ 36 ॥
स तु तं सहसा पराप्तं नित्यम अत्यन्तवैरिणम कर्णॊ वैकर्तनः सूत किम उत्तरम अपद्यत ॥ 37 ॥
[स] आयान्तं पाण्डवं दृष्ट्वा गजः परतिगजं यथा असंभ्रान्ततरः कर्णः पर्त्युदीयाद धनंजयम ॥ 38 ॥
तम आपतन्तं वेगेन वैकर्तनम अजिह्मगैः वारयाम आस तेजस्वी पाण्डवः शत्रुतापनः ॥ 39 ॥
तं कर्णः शरजालेन छादयाम आस मारिष विव्याध च सुसंक्रुद्धः शरैस तरिभिर अजिह्मगैः ॥ 40 ॥
तस्य तल लाघवं पार्थॊ नामृष्यत महाबलः तस्मै बाणाञ शिला धौतान परसन्नाग्रान अजिह्मगान ॥ 41 ॥
पराहिणॊत सूतपुत्राय तरिंशतं शत्रुतापनः विव्याध चैनं संरब्धॊ बाणेनैकेन वीर्यवान ॥ 42 ॥
सव्ये भुजाग्रे बलवान नाराचेन हसन्न इव तस्य विद्धस्य वेगेन कराच चापं पपात ह ॥ 43 ॥
पुनर आदाय तच चापं निमेषार्धान महाबलः छादयाम आस बाणौघैः फल्गुनं कृतहस्तवत ॥ 44 ॥
शरवृष्टिं तु तां मुक्तां सूतपुत्रेण भारत वयधमच छरवर्षेण समयन्न इव धनंजयः ॥ 45 ॥
तौ परस्परम आसाद्य शरवर्षेण पार्थिव छादयेतां महेष्वासौ कृप परतिकृतैषिणौ ॥ 46 ॥
तद अद्भुतम अभूद युद्धं कर्ण पाण्डवयॊर मृधे करुद्धयॊर वाशिता हेतॊर वन्ययॊर गजयॊर इव ॥ 47 ॥
ततः पार्थॊ महेष्वासॊ दृष्ट्वा कर्णस्य विक्रमम मुष्टिदेशे धनुस तस्य चिच्छेद तवरयान्वितः ॥ 48 ॥
अश्वांश च चतुरॊ भल्लैर अनयद यमसादनम सारथेश च शिरः कायाद अहरच छत्रुतापनः ॥ 49 ॥
अथैनं छिन्नधन्वानं हताश्वं हतसारथिम विव्याध सायकैः पार्थ चतुर्भिः पाण्डुनन्दनः ॥ 50 ॥
हताश्वात तु रथात तूर्णम अवप्लुत्य नरर्षभः आरुरॊह रथं तूर्णं कृपस्य शरपीडितः ॥ 51 ॥
राधेयं निर्जितं दृष्ट्वा तावका भरतर्षभ धनंजय शरैर नुन्नाः पराद्रवन्त दिशॊ दश ॥ 52 ॥
दरवतस तान समालॊक्य राजा दुर्यॊधनॊ नृप निवर्तयाम आस तदा वाक्यं चेदम उवाच ह ॥ 53 ॥
अलं दरुतेन वः शूरास तिष्ठध्वं कषत्रियर्षभाः एष पार्थ वधायाहं सवयं गच्छामि संयुगे अहं पार्थान हनिष्यामि सपाञ्चालान स सॊमकान ॥ 54 ॥
अद्य मे युध्यमानस्य सह गाण्डीवधन्वना दरक्ष्यन्ति विक्रमं पार्थाः कालस्येव युगक्षये ॥ 55 ॥
अद्य मद्बाणजालानि विमुक्तानि सहस्रशः दरक्ष्यन्ति समरे यॊधाः शलभानाम इवायतीः ॥ 56 ॥
अद्य बाणमयं वर्षं सृजतॊ मम धन्विनः जीमूतस्येव घर्मान्ते दरक्ष्यन्ति युधि सैनिकाः ॥ 57 ॥
जेष्याम्य अद्य रणे पार्थं सायकैर नतपर्वभिः तिष्ठध्वं समरे शूरा भयं तयजत फल्गुनात ॥ 58 ॥
न हि मद्वीर्यम आसाद्य फल्गुनः परसहिष्यति यथा वेलां समासाद्य सागरॊ मकरालयः ॥ 59 ॥
इत्य उक्त्वा परययौ राजा सैन्येन महता वृतः फल्गुनं परति दुर्धर्षः करॊधसंरक्तलॊचनः ॥ 60 ॥
तं परयान्तं महाबाहुं दृष्ट्वा शारद्वतस तदा अश्वत्थामानम आसाद्य वाक्यम एतद उवाच ह ॥ 61 ॥
एष राजा महाबाहुर अमर्षी करॊधमूर्छितः पतंगवृत्तिम आस्थाय फल्गुनं यॊद्धुम इच्छति ॥ 62 ॥
यावन नः पश्यमानानां पराणान पार्थेन संगतः न जह्यात पुरुषव्याघ्रस तावद वारय कौरवम ॥ 63 ॥
यावत फल्गुन बाणानां गॊचरं नाधिगच्छति कौरवः पार्थिवॊ वीरस तावद वारय तं दरुतम ॥ 64 ॥
यावत पार्थ शरैर घॊरैर निर्मुक्तॊरग संनिभैः न भस्मीक्रियते राजा तावद युद्धान निवार्यताम ॥ 65 ॥
अयुक्तम इव पश्यामि तिष्ठस्त्व अस्मासु मानद सवयं युद्धाय यद राजा पार्थं यात्य असहायवान ॥ 66 ॥
दुर्लभं जीवितं मन्ये कौरव्यस्य किरीटिना युध्यमानस्य पार्थेन शार्दूलेनेव हस्तिनः ॥ 67 ॥
मातुलेनैवम उक्तस तु दरौणिः शस्त्रभृतां वरः दुर्यॊधनम इदं वाक्यं तवरितं समभाषत ॥ 68 ॥
मयि जीवति गान्धारे न युद्धं गन्तुम अर्हसि माम अनादृत्य कौरव्य तव नित्यं हितैषिणम ॥ 69 ॥
न हि ते संभ्रमः कार्यः पार्थस्य विजयं परति अहम आवारयिष्यामि पार्थं तिष्ठ सुयॊधन ॥ 70 ॥
[दुर] आचार्यः पाण्डुपुत्रान वै पुत्रवत परिरक्षति तवम अप्य उपेक्षां कुरुषे तेषु नित्यं दविजॊत्तम ॥ 71 ॥
मम वा मन्दभाग्यत्वान मन्दस ते विक्रमॊ युधि धर्मराज परियार्थं वा दरौपद्या वा न विद्म तत ॥ 72 ॥
धिग अस्तु मम लुब्धस्य यत्कृते सर्वबान्धवाः सुखार्हाः परमं दुःखं पराप्नुवन्त्य अपराजिताः ॥ 73 ॥
कॊ हि शस्त्रभृतां मुख्यॊ महेश्वर समॊ युधि शत्रून न कषपयेच छक्तॊ यॊ न सयाद गौतमी सुतः ॥ 74 ॥
अश्वत्थामन परसीदस्व नाशयैतान ममाहितान तवास्त्रगॊचरे शक्ताः सथातुं देवापि नानघ ॥ 75 ॥
पाञ्चालान सॊमकांश चैव जहि दरॊणे सहानुगान वयं शेषान हनिष्यामस तवयैव परिरक्षिताः ॥ 76 ॥
एते हि सॊमका विप्र पाञ्चालाश च यशस्विनः मम सैन्येषु संरब्धा विचरन्ति दवाग्निवत ॥ 77 ॥
तान वारय महाबाहॊ केकयांश च नरॊत्तम पुरा कुर्वन्ति निःशेषं रक्ष्यमाणाः किरीटिना ॥ 78 ॥
आदौ वा यदि वा पश्चात तवेदं कर्म मारिष तवम उत्पन्नॊ महाबाहॊ पाञ्चालानां वधं परति ॥ 79 ॥
करिष्यसि जगत सर्वम अपाञ्चालं किलाच्युत एवं सिद्धाब्रुवन वाचॊ भविष्यति च तत तथा ॥ 80 ॥
न ते ऽसत्रगॊचरे शक्ताः सथातुं देवाः स वासवाः किम उ पार्थाः सपाञ्चालाः सत्यम एतद वचॊ मम ॥ 81 ॥
द्रोणपर्व · Drona Parva
अध्याय 134
Reach this point to mark the section finished.
Continue to अध्याय 135