धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 135

  1. [स] दुर्यॊधनेनैवम उक्तॊ दरौणिर आहवदुर्मदः परत्युवाच महाबाहॊ यथा वदसि कौरव ॥ 1 ॥

  2. परिया हि पाण्डवा नित्यं मम चापि पितुश च मे तथैवावां परियौ तेषां न तु युद्धे कुरूद्वह शक्तितस तात युध्यामस तयक्त्वा पराणान अभीतवत ॥ 2 ॥

  3. अहं कर्णश च शल्यश च कृपॊ हार्दिक्य एव च निमेषात पाण्डवीं सेनां कषपयेम नृपॊत्तम ॥ 3 ॥

  4. ते चापि कौरवीं सेनां निमेषार्धात कुरूद्वह कषपयेयुर महाबाहॊ न सयाम यदि संयुगे ॥ 4 ॥

  5. युध्यतां पाण्डवाञ शक्त्या तेषां चास्मान युयुत्सताम तेजस तु तेज आसाद्य परशमं याति भारत ॥ 5 ॥

  6. अशक्या तरसा जेतुं पाण्डवानाम अनीकिनी जीवत्सु पाण्डुपुत्रेषु तद धि सत्यं बरवीमि ते ॥ 6 ॥

  7. आत्मार्थं युध्यमानास ते समर्थाः पाण्डुनन्दनाः किमर्थं तव सैन्यानि न हनिष्यन्ति भारत ॥ 7 ॥

  8. तवं हि लुब्धतमॊ राजन निकृतिज्ञश च कौरव सरातिशङ्की मानी च ततॊ ऽसमान अतिशङ्कसे ॥ 8 ॥

  9. अहं तु यत्नम आस्थाय तवदर्थे तयक्तजीवितः एष गच्छामि संग्रामं तवत्कृते कुरुनन्दन ॥ 9 ॥

  10. यॊत्स्ये ऽहं शत्रुभिः सार्धं जेष्यामि च वरान वरान पाञ्चालैः सह यॊत्स्यामि सॊमकैः केकयैस तथा पाण्डवेयैश च संग्रामे तवत्प्रियार्थम अरिंदम ॥ 10 ॥

  11. अद्य मद्बाणनिर्दग्धाः पाञ्चालाः सॊमकास तथा सिंहेनेवार्दिता गावॊ विद्रविष्यन्ति सर्वतः ॥ 11 ॥

  12. अद्य धर्मसुतॊ राजा दृष्ट्वा मम पराक्रमम अश्वत्थामम अयं लॊकं मंस्यते सह सॊमकैः ॥ 12 ॥

  13. आगमिष्यति निर्वेदं धर्मपुत्रॊ युधिष्ठिरः दृष्ट्वा विनिहतान संख्ये पाञ्चालान सॊमकैः सह ॥ 13 ॥

  14. ये मां युद्धे ऽभियॊत्स्यन्ति तान हनिष्यामि भारत न हि ते वीर मुच्येरन मद्बाह्वन्तरम आगताः ॥ 14 ॥

  15. एवम उक्त्वा महाबाहुः पुत्रं दुर्यॊधनं तव अभ्यवर्तत युद्धाय दरावयन सर्वधन्विनः चिकीर्षुस तव पुत्राणां परियं पराणभृतां वरः ॥ 15 ॥

  16. ततॊ ऽबरवीत स कैकेयान पाञ्चालान गौतमी सुतः परहरध्वम इतः सर्वे मम गात्रे महारथाः सथिरी भूताश च युध्यध्वं दर्शयन्तॊ ऽसत्रलाघवम ॥ 16 ॥

  17. एवम उक्तास तु ते सर्वे शस्त्रवृष्टिम अपातयन दरौणिं परति महाराज जलं जलधरा इव ॥ 17 ॥

  18. तान निहत्य शरान दरौणिर दशवीरान अपॊथयत परमुखे पाण्डुपुत्राणां धृष्टद्युम्नस्य चाभिभॊ ॥ 18 ॥

  19. ते हन्यमानाः समरे पाञ्चालाः सृञ्जयास तथा परित्यज्य रणे दरौणिं वयद्रवन्त दिशॊ दश ॥ 19 ॥

  20. तान दृष्ट्वा दरवतः शूरान पाञ्चालान सह सॊमकान धृष्टद्युम्नॊ महाराज दरौणिम अभ्यद्रवद युधि ॥ 20 ॥

  21. ततः काञ्चनचित्राणां स जलाम्बुद नादिनाम वृतः शतेन शूराणां रथानाम अनिवर्तिनाम ॥ 21 ॥

  22. पुत्रः पाञ्चालराजस्य धृष्टद्युम्नॊ महारथः दरौणिम इत्य अब्रवीद वाक्यं दृष्ट्वा यॊधान निपातितान ॥ 22 ॥

  23. आचार्य पुत्र दुर्बुद्धे किम अन्यैर निहतैस तव समागच्छ मया सार्धं यदि शूरॊ ऽसि संयुगे अहं तवां निहनिष्यामि तिष्ठेदानीं ममाग्रतः ॥ 23 ॥

  24. ततस तम आचार्य सुतं धृष्टद्युम्नः परतापवान मर्मभिद्भिः शरैस तीक्ष्णैर जघान भरतर्षभ ॥ 24 ॥

  25. ते तु पङ्क्ती कृता दरौणिं शरा विविशुर आशुगाः रुक्मपुङ्खाः परसन्नाग्राः सर्वकायावदारणाः मध्व अर्थिन इवॊद्दामा भरमराः पुष्पितं दरुमम ॥ 25 ॥

  26. सॊ ऽतिविद्धॊ भृशं करुद्धः पदाक्रान्त इवॊरगः मानी दरौणिर असंभ्रान्तॊ बाणपाणिर अभाषत ॥ 26 ॥

  27. धृष्टद्युम्न सथिरॊ भूत्वा मुहूर्तं परतिपालय यावत तवां निशितैर बाणैः परेषयामि यमक्षयम ॥ 27 ॥

  28. दरौणिर एवम अथाभाष्य पार्षतं परवीरहा छादयाम आस बाणौघैः समन्ताल लघुहस्तवत ॥ 28 ॥

  29. स छाद्यमानः समरे दरौणिना युद्धदुर्मदः दरौणिं पाञ्चाल तनयॊ वाग्भिर आतर्जयत तदा ॥ 29 ॥

  30. न जानीषे परतिज्ञां मे विप्रॊत्पत्तिं तथैव च दरॊणं हत्वा किल मया हन्तव्यस तवं सुदुर्मते ततस तवाहं न हन्म्य अद्य दरॊणे जीवति संयुगे ॥ 30 ॥

  31. इमां तु रजनीं पराप्ताम अप्रभातां सुदुर्मते निहत्य पितरं ते ऽदय ततस तवाम अपि संयुगे नेष्यामि मृत्युलॊकायेत्य एवं मे मनसि सथितम ॥ 31 ॥

  32. यस ते पार्थेषु विद्वेषॊ या भक्तिः कौरवेषु च तां दर्शय सथिरॊ भूत्वा न मे जीवन विमॊक्ष्यसे ॥ 32 ॥

  33. यॊ हि बराह्मण्यम उत्सृज्य कषत्रधर्मरतॊ दविजः स वध्यः सर्वलॊकस्य यथा तवं पुरुषाधम ॥ 33 ॥

  34. इत्य उक्तः परुषं वाक्यं पार्षतेन दविजॊत्तमः करॊधम आहारयत तीव्रं तिष्ठ तिष्ठेति चाब्रवीत ॥ 34 ॥

  35. निर्दहन्न इव चक्षुर्भ्यां पार्षतं सॊ ऽभयवैक्षत छादयाम आस च शरैर निःश्वसन पन्नगॊ यथा ॥ 35 ॥

  36. स छाद्यमानः समरे दरौणिना राजसत्तम सर्वपाञ्चाल सेनाभिः संवृतॊ रथसत्तमः ॥ 36 ॥

  37. नाकम्पत महाबाहुः सवधैर्यं समुपाश्रितः सायकांश चैव विविधान अश्वत्थाम्नि मुमॊच ह ॥ 37 ॥

  38. तौ पुनः संन्यवर्तेतां पराणद्यूतपरे रणे निवारयन्तौ बाणौघैः परस्परम अमर्षिणौ उत्सृजन्तौ महेष्वासौ शरवृष्टीः समन्ततः ॥ 38 ॥

  39. दरौणिपार्षतयॊर युद्धं घॊररूपं भयानकम दृष्ट्वा संपूजयाम आसुः सिद्धचारणवातिकाः ॥ 39 ॥

  40. शरौघैः पूरयन्तौ ताव आकाशं परदिशस तथा अलक्ष्यौ समयुध्येतां महत कृत्वा शरैस तमः ॥ 40 ॥

  41. नृत्यमानाव इव रणे मण्डलीकृतकार्मुकौ परस्परवधे यत्तौ परस्परजयैषिणौ ॥ 41 ॥

  42. अयुध्येतां महाबाहू चित्रं लघु च सुष्ठु च संपूज्यमानौ समरे यॊधमुख्यैः सहस्रशः ॥ 42 ॥

  43. तौ परयुद्धौ रणे दृष्ट्वा वने वन्यौ गजाव इव उभयॊः सेनयॊर हर्षस तुमुलः समपद्यत ॥ 43 ॥

  44. सिंहनाद रवाश चासन दध्मुः शङ्खांश च मारिष वादित्राण्य अभ्यवाद्यन्त शतशॊ ऽथ सहस्रशः ॥ 44 ॥

  45. तस्मिंस तु तुमुले युद्धे भीरूणां भयवर्धने मुहूर्तम इव तद युद्धं समरूपं तदाभवत ॥ 45 ॥

  46. ततॊ दरौणिर महाराज पार्षतस्य महात्मनः धवजं धनुस तथा छत्रम उभौ च पार्ष्णिसारथी सूतम अश्वांश च चतुरॊ निहत्याभ्यद्रवद रणे ॥ 46 ॥

  47. पाञ्चालांश चैव तान सर्वान बाणैः संनतपर्वभिः वयद्रावयद अमेयात्मा शतशॊ ऽथ सहस्रशः ॥ 47 ॥

  48. ततः परविव्यथे सेना पाण्डवी भरतर्षभ दृष्ट्वा दरौणेर महत कर्म वासवस्येव संयुगे ॥ 48 ॥

  49. शतेन च शतं हत्वा पाञ्चालानां महारथः तरिभिश च निशितैर बाणैर हत्वा तरीन वै महारथान ॥ 49 ॥

  50. दरौणिर दरुपदपुत्रस्य फल्गुनस्य च पश्यतः नाशयाम आस पाञ्चालान भूयिष्ठं ये वयवस्थिताः ॥ 50 ॥

  51. ते वध्यमानाः पाञ्चालाः समरे सह सृञ्जयैः अगच्छन दरौणिम उत्सृज्य विप्रकीर्णरथध्वजाः ॥ 51 ॥

  52. स जित्वा समरे शत्रून दरॊणपुत्रॊ महारथः ननाद सुमहानादं तपान्ते जलदॊ यथा ॥ 52 ॥

  53. स निहत्य बहूञ शूरान अश्वत्थामा वयरॊचत युगान्ते सर्वभूतानि भस्मकृत्वेव पावकः ॥ 53 ॥

  54. संपूज्यमानॊ युधि कौरवेयैर; विजित्य संख्ये ऽरिगणान सहस्रशः वयरॊचत दरॊणसुतः परतापवान; यथा सुरेन्द्रॊ ऽरिगणान निहत्य ॥ 54 ॥

Reach this point to mark the section finished.

Continue to अध्याय 136

Previous: अध्याय 134