धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 133

  1. [स] उदीर्यमाणं तद दृष्ट्वा पाण्डवानां महद बलम अविषह्यं च मन्वानः कर्णं दुर्यॊधनॊ ऽबरवीत ॥ 1 ॥

  2. अयं स कालः संप्राप्तॊ मित्राणां मित्रवत्सल तरायस्व समरे कर्ण सर्वान यॊधान महाबल ॥ 2 ॥

  3. पाञ्चालैर मत्स्यकैकेयैः पाण्डवैश च महारथैः वृतान समन्तात संक्रुद्धैर निःश्वसद्भिर इवॊरगैः ॥ 3 ॥

  4. एते नदन्ति संहृष्टाः पाण्डवा जितकाशिनः शक्रॊपमाश च बहवः पाञ्चालानां रथव्रजाः ॥ 4 ॥

  5. [कर्ण] परित्रातुम इह पराप्तॊ यदि पार्थ पुरंदरः तम अप्य आशु पराजित्य ततॊ हन्तास्मि पाण्डवम ॥ 5 ॥

  6. सत्यं ते परतिजानामि समाश्वसिहि भारत हन्तास्मि पाण्डुतनयान पाञ्चालांश च समागतान ॥ 6 ॥

  7. जयं ते परतिजानामि वासवस्येव पावकिः परियं तव मया कार्यम इति जीवामि पार्थिव ॥ 7 ॥

  8. सर्वेषाम एव पार्थानां फल्गुनॊ बलवत्तरः तस्यामॊघां विमॊक्ष्यामि शक्तिं शक्र विनिर्मिताम ॥ 8 ॥

  9. तस्मिन हते महेष्वासे भरातरस तस्य मानद तव वश्या भविष्यन्ति वनं यास्यन्ति वा पुनः ॥ 9 ॥

  10. मयि जीवति कौरव्य विषादं मा कृथाः कव चित अहं जेष्यामि समरे सहितान सर्वपाण्डवान ॥ 10 ॥

  11. पाञ्चालान केकयांश चैव वृष्णींश चापि समागतान बाणौघैः शकलीकृत्य तव दास्यामि मेदिनीम ॥ 11 ॥

  12. [स] एवं बरुवाणं कर्णं तु कृपः शारद्वतॊ ऽबरवीत समयन्न इव महाबाहुः सुत पुत्रम इदं वचः ॥ 12 ॥

  13. शॊभनं शॊभनं कर्ण स नाथः कुरुपुंगवः तवया नाथेन राधेय वचसा यदि सिध्यति ॥ 13 ॥

  14. बहुशः कत्थसे कर्ण कौरव्यस्य समीपतः न तु ते विक्रमः कश चिद दृश्यते बलम एव वा ॥ 14 ॥

  15. समागमः पाण्डुसुतैर दृष्टस ते बहुशॊ युधि सर्वत्र निर्जितश चासि पाण्डवैः सूतनन्दन ॥ 15 ॥

  16. हरियमाणे तदा कर्ण गन्धर्वैर धृतराष्ट्रजे तदायुध्यन्त सैन्यानि तवम एकस तु पलायथाः ॥ 16 ॥

  17. विराटनगरे चापि समेताः सर्वकौरवाः पार्थेन निर्जिता युद्धे तवं च कर्ण सहानुजः ॥ 17 ॥

  18. एकस्याप्य असमर्थस तवं फल्गुनस्य रणाजिरे कथम उत्सहसे जेतुं सुकृष्णान सर्वपाण्डवान ॥ 18 ॥

  19. अब्रुवन कर्ण युध्यस्व बहु कत्थसि सूतज अनुक्त्वा विक्रमेद यस तु तद वै सत्पुरुषव्रतम ॥ 19 ॥

  20. गर्जित्वा सूतपुत्र तवं शारदाभ्रम इवाजलम निष्फलॊ दृश्यसे कर्ण तच च राजा न बुध्यते ॥ 20 ॥

  21. तावद गर्जसि राधेय यावत पार्थं न पश्यसि पुरा पार्थं हि ते दृष्ट्वा दुर्लभं गर्जितं भवेत ॥ 21 ॥

  22. तवम अनासाद्य तान बाणान फल्गुनस्य विगर्जसि पार्थ सायकविद्धस्य दुर्लभं गर्जितं भवेत ॥ 22 ॥

  23. बाहुभिः कषत्रियाः शूरा वाग्भिः शूरा दविजातयः धनुषा फल्गुनः शूरः कर्णः शूरॊ मनॊरथैः ॥ 23 ॥

  24. एवं परुषितस तेन तदा शारद्वतेन सः कर्णः परहरतां शरेष्ठः कृपं वाक्यम अथाब्रवीत ॥ 24 ॥

  25. शूरा गर्जन्ति सततं परावृषीव बलाहकाः फलं चाशु परयच्छन्ति बीजम उप्तम ऋताव इव ॥ 25 ॥

  26. दॊषम अत्र न पश्यामि शूराणां रणमूर्धनि तत तद विकत्थमानानां भारं चॊद्वहतां मृधे ॥ 26 ॥

  27. यं भारं पुरुषॊ वॊढुं मनसा हि वयवस्यति दैवम अस्य धरुवं तत्र साहाय्यायॊपपद्यते ॥ 27 ॥

  28. वयवसायद्वितीयॊ ऽहं मनसा भारम उद्वहन गर्जामि यद्य अहं विप्र तव किं तत्र नश्यति ॥ 28 ॥

  29. वृथा शूरा न गर्जन्ति स जला इव तॊयदाः सामर्थ्यम आत्मनॊ जञात्वा ततॊ गर्जन्ति पण्डिताः ॥ 29 ॥

  30. सॊ ऽहम अद्य रणे यत्तः सहितौ कृष्ण पाण्डवौ उत्सहे तरसा जेतुं ततॊ गर्जामि गौतम ॥ 30 ॥

  31. पश्य तवं गर्जितस्यास्य फलं मे विप्र सानुगः हत्वा पाण्डुसुतान आजौ सह कृष्णान स सात्वतान दुर्यॊधनाय दास्यामि पृथिवीं हतकण्टकाम ॥ 31 ॥

  32. [कृप] मनॊरथप्रलापॊ मे न गराह्यस तव सूतज यदा कषिपसि वै कृष्णौ धर्मराजं च पाण्डवम ॥ 32 ॥

  33. धरुवस तत्र जयः कर्ण यत्र युद्धविशारदौ देवगन्धर्वयक्षाणां मनुष्यॊरगरक्षसाम दंशितानाम अपि रणे अजेयौ कृष्ण पाण्डवौ ॥ 33 ॥

  34. बरह्मण्यः सत्यवाग दान्तॊ गुरु दैवतपूजकः नित्यं धर्मरतश चैव कृतास्त्रश च विशेषतः धृतिमांश च कृतज्ञश च धर्मपुत्रॊ युधिष्ठिरः ॥ 34 ॥

  35. भरातरश चास्य बलिनः सर्वास्त्रेषु कृतश्रमाः गुरुवृत्ति रताः पराज्ञा धर्मनित्या यशस्विनः ॥ 35 ॥

  36. संबन्धिनश चेन्द्र वीर्याः सवनुरक्ताः परहारिणः धृष्टद्युम्नः शिखण्डी च दौर्मुखिर जनमेजयः ॥ 36 ॥

  37. चन्द्र सेनॊ भद्र सेनः कीर्तिधर्मा धरुवॊ धरः वसु चन्द्रॊ दाम चन्द्रः सिंहचन्द्रः सुवेधनः ॥ 37 ॥

  38. दरुपदस्य तथा पुत्रा दरुपदश च महास्त्रवित येषाम अर्थाय संयत्तॊ मत्स्यराजः सहानुगः ॥ 38 ॥

  39. शतानीकः सुदशनः शरुतानीकः शरुतध्वजः बलानीकॊ जयानीकॊ जयाश्वॊ रथवाहनः ॥ 39 ॥

  40. चन्द्रॊदयः कामरथॊ विराट भरातरः शुभाः यमौ च दरौपदेयाश च राक्षसश च घटॊत्कचः येषाम अर्थाय युध्यन्ते न तेषां विद्यते कषयः ॥ 40 ॥

  41. कामं खलु जगत सर्वं स देवासुरमानवम स यक्षराक्षस गणं स भूतभुजग दविपम निःशेषम अस्त्रवीर्येण कुर्यातां भीम फल्गुनौ ॥ 41 ॥

  42. युधिष्ठिरश च पृथिवीं निर्दहेद घॊरचक्षुषा अप्रमेयबलः शौरिर येषाम अर्थे च दंशितः कथं तान संयुगे कर्ण जेतुम उत्सहसे परान ॥ 42 ॥

  43. महान अपनयस तव एष तव नित्यं हि सूतज यस तवम उत्सहसे यॊद्धुं समरे शौरिणा सह ॥ 43 ॥

  44. [स] एवम उक्तस तु राधेयः परहसन भरतर्षभ अब्रवीच च तदा कर्णॊ गुरुं शारद्वतं कृपम ॥ 44 ॥

  45. सत्यम उक्तं तवया बरह्मन पाण्डवान परति यद वचः एते चान्ये च बहवॊ गुणाः पाण्डुसुतेषु वै ॥ 45 ॥

  46. अजय्याश च रणे पार्था देवैर अपि स वासवैः स दैत्य यक्षगन्धर्वपिशाचॊरगराक्षसैः तथापि पार्थाञ जेष्यामि शक्त्या वासव दत्तया ॥ 46 ॥

  47. ममाप्य अमॊघा दत्तेयं शक्तिः शक्रेण वै दविज एतया निहनिष्यामि सव्यसाचिनम आहवे ॥ 47 ॥

  48. हते तु पाण्डवे कृष्णॊ भरातरश चास्य सॊदराः अनर्जुना न शक्ष्यन्ति महीं भॊक्तुं कथं चन ॥ 48 ॥

  49. तेषु नष्टेषु सर्वेषु पृथिवीयं ससागरा अयत्नात कौरवेयस्य वशे सथास्यति गौतम ॥ 49 ॥

  50. सुनीतैर इह सर्वार्थाः सिध्यन्ते नात्र संशयः एतम अर्थम अहं जञात्वा ततॊ गर्जामि गौतम ॥ 50 ॥

  51. तवं तु वृद्धश च विप्रश च अशक्तश चापि संयुगे कृतस्नेहश च पार्थेषु मॊहान माम अवमन्यसे ॥ 51 ॥

  52. यद्य एवं वक्ष्यसे भूयॊ माम अप्रियम इह दविज ततस ते खड्गम उद्यम्य जिह्वां छेत्स्यामि दुर्मते ॥ 52 ॥

  53. यच चापि पाण्डवान विप्र सतॊतुम इच्छसि संयुगे भीषयन सर्वसैन्यानि कौरवेयाणि दुर्मते अत्रापि शृणु मे वाक्यं यथावद गदतॊ दविज ॥ 53 ॥

  54. दुर्यॊधनश च दरॊणश च शकुनिर दुर्मुखॊ जयः दुःशासनॊ वृषसेनॊ मद्रराजस तवम एव च सॊमदत्तश च भूरिश च तथा दरौणिर विविंशतिः ॥ 54 ॥

  55. तिष्ठेयुर दंशिता यत्र सर्वे युद्धविशारदाः जयेद एतान रणे कॊ नु शक्रतुल्यबलॊ ऽपय अरिः ॥ 55 ॥

  56. शूराश च हि कृतास्त्राश च बलिनः सवर्गलिप्सवः धर्मज्ञा युद्धकुशला हन्युर युद्धे सुरान अपि ॥ 56 ॥

  57. एते सथास्यन्ति संग्रामे पाण्डवानां वधार्थिनः जयम आकाङ्क्षमाणा हि कौरवेयस्य दंशिताः ॥ 57 ॥

  58. दैवायत्तम अहं मन्ये जयं सुबलिनाम अपि यत्र भीष्मॊ महाबाहुः शेते शरशताचितः ॥ 58 ॥

  59. विकर्णश चित्रसेनश च बाह्लीकॊ ऽथ जयद्रथः भूरिश्रवा जयश चैव जलसंधः सुदक्षिणः ॥ 59 ॥

  60. शलश च रथिनां शरेष्ठॊ भगदत्तश च वीर्यवान एते चान्ये च राजानॊ देवैर अपि सुदुर्जयाः ॥ 60 ॥

  61. निहताः समरे शूराः पाण्डवैर बलवत्तराः किम अन्यद दैवसंयॊगान मन्यसे पुरुषाधम ॥ 61 ॥

  62. यांश च तान सतौषि सततं दुर्यॊधन रिपून दविज तेषाम अपि हताः शूराः शतशॊ ऽतः सहस्रशः ॥ 62 ॥

  63. कषीयन्ते सर्वसैन्यानि कुरूणां पाण्डवैः सह परभावं नात्र पश्यामि पाण्डवानां कथं चन ॥ 63 ॥

  64. यांस तान बलवतॊ नित्यं मन्यसे तवं दविजाधम यतिष्ये ऽहं यथाशक्ति यॊद्धुं तैः सह संयुगे दुर्यॊधनहितार्थाय जयॊ दैवे परतिष्ठितः ॥ 64 ॥

Reach this point to mark the section finished.

Continue to अध्याय 134

Previous: अध्याय 132