धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 132

  1. [स] दरुपदस्यात्मजान दृष्ट्वा कुन्तिभॊजसुतांस तथा दरॊणपुत्रेण निहतान राक्षसांश च सहस्रशः ॥ 1 ॥

  2. युधिष्ठिरॊ भीमसेनॊ धृष्टद्युम्नश च पार्षतः युयुधानश च संयत्ता युद्धायैव मनॊ दधुः ॥ 2 ॥

  3. सॊमदत्तः पुनः कुर्द्धॊ दृष्ट्वा सात्यकिम आहवे महता शरवर्षेण छादयाम आस सर्वतः ॥ 3 ॥

  4. ततः समभवद युद्धम अतीव भयवर्धनम तवदीयानां परेषां च घॊरं विजयकाङ्क्षिणाम ॥ 4 ॥

  5. दशभिः सात्वतस्यार्थे भीमॊ विव्याध कौरवम सॊमदत्तॊ ऽपि तं वीरं शतेन परत्यविध्यत ॥ 5 ॥

  6. सात्वतस तव अभिसंक्रुद्धः पुत्राधिभिर अभिप्लुतम वृद्धम ऋद्धं गुणैः सर्वैर ययातिम इव नाहुषम ॥ 6 ॥

  7. विव्याध दशभिस तीक्ष्णैः शरैर वज्रनिपातिभिः शक्त्या चैनम अथाहत्य पुनर विव्याध सप्तभिः ॥ 7 ॥

  8. ततस तु सात्यकेर अर्थे भीमसेनॊ नवं दृढम मुमॊच परिघं घॊरं सॊमदत्तस्य मूर्धनि ॥ 8 ॥

  9. सात्यकिश चाग्निसंकाशं मुमॊच शरम उत्तमम सॊमदत्तॊरसि करुद्धः सुपत्रं निशितं युधि ॥ 9 ॥

  10. युगपत पेततुर अथ घॊरौ परिघमार्गणौ शरीरे सॊमदत्तस्य स पपात महारथः ॥ 10 ॥

  11. वयामॊहिते तु तनये बाह्लीकः समुपाद्रवत विसृजञ शरवर्षाणि कालवर्षीव तॊयदः ॥ 11 ॥

  12. भीमॊ ऽथ सात्वतस्यार्थे बाह्लीकं नवभिः शरैः पीडयन वै महात्मानं विव्याध रणमूर्धनि ॥ 12 ॥

  13. परातिपीयस तु संक्रुद्धः शक्तिं भीमस्य वक्षसि निचखान महाबाहुः पुरंदर इवाशनिम ॥ 13 ॥

  14. स तयाभिहतॊ भीमश चकम्पे च मुमॊह च पराप्य चेतश च बलवान गदाम अस्मै ससर्ज ह ॥ 14 ॥

  15. सा पाण्डवेन परहिता बाह्लीकस्य शिरॊ ऽहरत स पपात हतः पृथ्व्यां वज्राहत इवाद्रिराट ॥ 15 ॥

  16. तस्मिन विनिहते वीरे बाह्लीके पुरुषर्षभे पुत्रास ते ऽभयर्दयन भीमं दश दाशरथेः समाः ॥ 16 ॥

  17. नाराचैर दशभिर भीमस तान निहत्य तवात्मजान कर्णस्य दयितं पुत्रं वृषसेनम अवाकिरत ॥ 17 ॥

  18. ततॊ वृषरथॊ नाम भराता कर्णस्य विश्रुतः जघान भीमं नाराचैस तम अप्य अभ्यवधीद बली ॥ 18 ॥

  19. ततः सप्त रथान वीरः सयालानां तव भारत निहत्य भीमॊ नाराचैः शतचन्द्रम अपॊथयत ॥ 19 ॥

  20. अमर्षयन्तॊ निहतं शतचन्द्रं महारथम शकुनेर भरातरॊ वीरा गजाक्षः शरभॊ विभुः अभिद्रुत्य शरैस ताक्ष्णैर भीमसेनम अताडयन ॥ 20 ॥

  21. स तुद्यमानॊ नाराचैर वृष्टिवेगैर इवर्षभः जघान पञ्चभिर बाणैः पञ्चैवातिबलॊ रथान तान दृष्ट्वा निहतान वीरान विचेलुर नृपसत्तमाः ॥ 21 ॥

  22. ततॊ युधिष्ठिरः करुद्धस तवानीकम अशातयत मिषतः कुम्भयॊनेश च पुत्राणां च तवानघ ॥ 22 ॥

  23. अम्बष्ठान मालवाञ शूरांस तरिगर्तान स शिबीन अपि पराहिणॊन मृत्युलॊकाय गणान युद्धे युधिष्ठिरः ॥ 23 ॥

  24. अभीषाहाञ शूरसेनान बाह्लीकान स वसातिकान निकृत्य पृथिवीं राजा चक्रे शॊणितकर्दमाम ॥ 24 ॥

  25. यौधेयारट्ट राजन्य मद्रकाणां गणान युधि पराहिणॊन मृत्युलॊकाय शूरान बाणैर युधिष्ठिरः ॥ 25 ॥

  26. हत आहरत गृह्णीत विध्यत वयवकृन्तत इत्य आसीत तुमुलः शब्दॊ युधिष्ठिर रथं परति ॥ 26 ॥

  27. सैन्यानि दरावयन्तं तं दरॊणॊ दृष्ट्वा युधिष्ठिरम चॊदितस तव पुत्रेण सायकैर अभ्यवाकिरत ॥ 27 ॥

  28. दरॊणस तु परमक्रुद्धॊ वयव्यास्त्रेण पार्थिवम विव्याध सॊ ऽसय तद दिव्यम अस्त्रम अस्त्रेण जघ्निवान ॥ 28 ॥

  29. तस्मिन विनिहते चास्त्रे भारद्वाजॊ युधिष्ठिरे वारुणं याम्यम आग्नेयं तवाष्ट्रं सावित्रम एव च चिक्षेप परमक्रुद्धॊ जिघांसुः पाण्डुनन्दनम ॥ 29 ॥

  30. कषिप्तानि कषिप्यमाणानि तानि चास्त्राणि धर्मजः जघानास्त्रैर महाबाहुः कुम्भयॊनेर अवित्रसन ॥ 30 ॥

  31. सत्यां चिकीर्षमाणस तु परथिज्ञां कुम्भसंभवः परादुश्चक्रे ऽसत्रम ऐन्द्रं वै पराजापत्यं च भारत जिघांसुर धर्मतनयं तव पुत्र हिते रतः ॥ 31 ॥

  32. पतिः कुरूणां गजसिंहगामी; विशालवक्षाः पृथु लॊहिताक्षः परादुश्चकारास्त्रम अहीन तेजा; माहेन्द्रम अन्यत स जघान ते ऽसत्रे ॥ 32 ॥

  33. विहन्यमानेष्व अस्त्रेषु दरॊणः करॊधसमन्वितः युधिष्ठिर वधप्रेप्सुर बराह्मम अस्त्रम उदैरयत ॥ 33 ॥

  34. ततॊ नाज्ञासिषं किं चिद घॊरेण तमसावृते सर्वभूतानि च परं तरासं जग्मुर महीपते ॥ 34 ॥

  35. बरह्मास्त्रम उद्यतं दृष्ट्वा कुन्तीपुत्रॊ युधिष्ठिरः बरह्मास्त्रेणैव राजेन्द्र तद अस्त्रं परत्यवारयत ॥ 35 ॥

  36. ततः सैनिक मुख्यास ते परशशंसुर नरर्षभौ दरॊण पार्थौ महेष्वासौ सर्वयुद्धविशारदौ ॥ 36 ॥

  37. ततः परमुच्य कौन्तेयं दरॊणॊ दरुपद वाहिनीम वयधमद रॊषताम्राक्षॊ वायव्यास्त्रेण भारत ॥ 37 ॥

  38. ते हन्यमाना दरॊणेन पाञ्चालाः पराद्रवन भयात पश्यतॊ भीमसेनस्य पार्थस्य च महात्मनः ॥ 38 ॥

  39. ततः किरीटी भीमश च सहसा संन्यवर्तताम महद्भ्यां रथवंशाभ्यां परिगृह्य बलं तव ॥ 39 ॥

  40. बीभत्सुर दक्षिणं पार्श्वम उत्तरं तु वृकॊदरः भारद्वाजं शरौघाभ्यां महद्भ्याम अभ्यवर्षताम ॥ 40 ॥

  41. तौ तदा सृञ्जयाश चैव पाञ्चालाश च महौजसः अन्वगच्छन महाराज मत्स्याश च सह सात्वतैः ॥ 41 ॥

  42. ततः सा भारती सेना वध्यमाना किरीटिना दरॊणेन वार्यमाणास ते सवयं तव सुतेन च नाशक्यन्त महाराज यॊधा वारयितुं तदा ॥ 42 ॥

Reach this point to mark the section finished.

Continue to अध्याय 133

Previous: अध्याय 131