धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 12

  1. [स] ततस ते सैनिकाः शरुत्वा तं युधिष्ठिर निग्रहम सिन्ह नादरवांश चक्रुर बाणशङ्खरवैः सह ॥ 1 ॥

  2. तत तु सर्वं यथावृत्तं धर्मराजेन भारत आप्तैर आशु परिज्ञातं भारद्वाज चिकीर्षितम ॥ 2 ॥

  3. ततः सर्वान समानाय्य भरातॄन सैन्यांश च सर्वशः अब्रवीद धर्मराजस तु धनंजयम इदं वचः ॥ 3 ॥

  4. शरुतं ते पुरुषव्याघ्र दरॊणस्याद्य चिकीर्षितम यथा तन न भवेत सत्यं तथा नीतिर विधीयताम ॥ 4 ॥

  5. सान्तरं हि परतिज्ञातं दरॊणेनामित्रकर्शन तच चान्तरम अमॊघेषौ तवयि तेन समाहितम ॥ 5 ॥

  6. स तवम अद्य महाबाहॊ युध्यस्व मद अनन्तरम यथा दुर्यॊधनः कामं नेमं दरॊणाद अवाप्नुयात ॥ 6 ॥

  7. [अर्ज] यथा मे न वधः कर्य आचार्यस्य कथं चन तथा तव परित्यागॊ न मे राजंश चिकीर्षितः ॥ 7 ॥

  8. अप्य एवं पाण्डव पराणान उत्सृजेयम अहं युधि परतीयां नाहम आचार्य तवां न जह्यां कथं चन ॥ 8 ॥

  9. तवां निगृह्याहवे राजन धार्तराष्ट्रॊ यम इच्छति न स तं जीवलॊके ऽसमिन कामं पराप्तः कथं चन ॥ 9 ॥

  10. परपतेद दयौः स नक्षत्रा पृथिवी शकलीभवेत न तवां दरॊणॊ निगृह्णीयाज जीवमाने मयि धरुवम ॥ 10 ॥

  11. यदि तस्य रणे साह्यं कुरुते वज्रभृत सवयम देवैर वा सहितॊ दैत्यैर न तवां पराप्स्यत्य असौ मृधे ॥ 11 ॥

  12. मयि जीवति राजेन्द्र न भयंकर्तुम अर्हसि दरॊणाद अस्त्रभृतां शरेष्ठात सर्वशस्त्रभृताम अपि ॥ 12 ॥

  13. न समराम्य अनृतां वाचं न समरामि पराजयम न समरामि परतिश्रुत्य किं चिद अप्य अनपाकृतम ॥ 13 ॥

  14. [स] ततः शङ्खाश च भेर्यश च मृदङ्गाश चानकैः सह परावाद्यन्त महाराज पाडवानां निवेशने ॥ 14 ॥

  15. सिंहनादश च संजज्ञे पाण्डवानां महात्मनाम धनुर्ज्यातलशब्दश च गगनस्पृक सुभैरवः ॥ 15 ॥

  16. तं शरुत्वा शङ्खनिर्घॊषं पाण्डवस्य महात्मनः तवदीयेष्व अप्य अनीकेषु वादित्राण्य अभिजघ्निरे ॥ 16 ॥

  17. ततॊ वयूढान्य अनीकानि तव तेषां च भारत शनैर उपेयुर अन्यॊन्यं यॊत्स्यमानानि संयुगे ॥ 17 ॥

  18. ततः परववृते युद्धं तुमुलं लॊमहर्षणम पाण्डवानां कुरूणां च दरॊण पाञ्चाल्ययॊर अपि ॥ 18 ॥

  19. यतमानाः परयत्नेन दरॊणानीक विशातने न शेकुः सृञ्जया राजंस तद धि दरॊणेन पालितम ॥ 19 ॥

  20. तथैव तव पुत्रस्य रथॊदाराः परहारिणः न शेकुः पाण्डवीं सेनां पाल्यमानां किरीटिना ॥ 20 ॥

  21. आस्तां ते सतिमिते सेने रक्ष्यमाणे परस्परम संप्रसुप्ते यथा नक्तं वरराज्यौ सुपुष्पिते ॥ 21 ॥

  22. ततॊ रुक रथॊ राजन्न अर्केणेव विराजता वरूथिना विनिष्पत्य वयचरत पृतनान्तरे ॥ 22 ॥

  23. तम उद्यतं रथेनैकम आशु कारिणम आहवे अनेकम इव संत्रासान मेनिरे पाण्डुसृञ्जयाः ॥ 23 ॥

  24. तेन मुक्ताः शरा घॊरा विचेरुः सर्वतॊदिशम तरासयन्तॊ महाराज पाण्डवेयस्य वाहिनीम ॥ 24 ॥

  25. मध्यं दिनम अनुप्राप्तॊ गभस्तिशतसंवृतः यथादृश्यत घर्मांशुस तथा दरॊणॊ ऽपय अदृश्यत ॥ 25 ॥

  26. न चैनं पाण्डवेयानां कश चिच छक्नॊति मारिष वीक्षितुं समरे करुद्धं महेन्द्रम इव दानवाः ॥ 26 ॥

  27. मॊहयित्वा ततः सैन्यं भारद्वाजः परतापवान धृष्टद्युम्न बलं तूर्णं वयधमन निशितैः शरैः ॥ 27 ॥

  28. स दिशः सर्वतॊ रुद्ध्वा संवृत्य खम अजिह्मगैः पार्षतॊ यत्र तत्रैव ममृदे पाण्डुवाहिनीम ॥ 28 ॥

Reach this point to mark the section finished.

Continue to अध्याय 13

Previous: अध्याय 11