[धृ] यत तदा पराविशत पाण्डून आचार्यः कुपितॊ वशी उत्क्वा दुर्यॊधनं सम्यङ मम शास्त्रातिगं सुतम ॥ 1 ॥
परविश्य विचरन्तं च रणे शूरम अवस्थितम कथं दरॊणं महेष्वासं पाण्डवाः पर्यवारयन ॥ 2 ॥
के ऽरक्षन दक्षिणं चक्रम आचार्यस्य महात्मनः के चॊत्तरम अरक्षन्त निघ्नतः शात्रवान रणे ॥ 3 ॥
नृत्यन स रथमार्गेषु सर्वशस्त्रभृतां वरः धूमकेतुर इव करुद्धः कथं मृत्युम उपेयिवान ॥ 4 ॥
[स] सायाह्ने सैन्धवं हत्वा राज्ञा पार्थः समेत्य च सात्यकिश च महेष्वासॊ दरॊणम एवाभ्यधावताम ॥ 5 ॥
तथा युधिष्ठिरस तूर्णं भीमसेनश च पाण्डवः पृथक चमूभ्यां संसक्तौ दरॊणम एवाभ्यधावताम ॥ 6 ॥
तथैव नकुलॊ धीमान सहदेवश च दुर्जयः धृष्टद्युम्नः शतानीकॊ विराटश च स केकयः मत्स्याः शाल्वेय सेनाश च दरॊणम एव ययुर युधि ॥ 7 ॥
दरुपदश च तथा राजा पाञ्चालैर अभिरक्षितः धृष्टद्युम्न पिता राजन दरॊणम एवाभ्यवर्तत ॥ 8 ॥
दरौपदेया महेष्वासा राक्षसश च घटॊत्कचः स सेनास ते ऽभयवर्तन्त दरॊणम एव महाद्युतिम ॥ 9 ॥
परभद्रकश च पाञ्चालाः षट सहस्राः परहारिणः दरॊणम एवाभ्यवर्तन्त पुरस्कृत्य शिखण्डिनम ॥ 10 ॥
तथेतरे नरव्याघ्राः पाण्डवानां महारथाः सहिताः संन्यवर्तन्त दरॊणम एव दविजर्षभम ॥ 11 ॥
तेषु शूरेषु युद्धाय गतेषु भरतर्षभ बभूव रजनी घॊरा भीरूणां भयवर्धिनी ॥ 12 ॥
यॊधानाम अशिवा रौद्रा राजन्न अन्तकगामिनी कुञ्जराश्वमनुष्याणां पराणान्त करणी तदा ॥ 13 ॥
तस्यां रजन्यां घॊरायां नदन्त्यः सर्वतः शिवाः नयवेदयन भयं घॊरं स जवालकवलैर मुखैः ॥ 14 ॥
उलूकाश चाप्य अदृश्यन्त शंसन्तॊ विपुलं भयम विशेषतः कौरवाणां धवजिन्याम अतिदारुणम ॥ 15 ॥
ततः सैन्येषु राजेन्द्र शब्दः समभवन महान भेरीशब्देन महता मृदङ्गानां सवनेन च ॥ 16 ॥
गजानां गर्जितैश चापि तुरङ्गाणां च हेषितैः खुरशब्दनिपातैश च तुमुलः सर्वतॊ ऽभवत ॥ 17 ॥
ततः समभवद युद्धं संध्यायाम अतिदारुणम दरॊणस्य च महाराज सृञ्जयानां च सर्वशः ॥ 18 ॥
तमसा चावृते लॊके न पराज्ञायत किं चन सैन्येन रजसा चैव समन्ताद उत्थितेन ह ॥ 19 ॥
नरस्याश्वस्य नागस्य समसज्जत शॊणितम नापश्याम रजॊ भौमं कश्मलेनाभिसंवृताः ॥ 20 ॥
रात्रौ वंशवनस्येव दह्यमानस्य पर्वते घॊरश चाटचटा शब्दः शस्त्राणां पतताम अभूत ॥ 21 ॥
नैव सवे न परे राजन पराज्ञायन्त तमॊवृते उन्मत्तम इव तत सर्वं बभूव रजनी मुखे ॥ 22 ॥
भौमं रजॊ ऽथ राजेन्द्र शॊणितेन परशामितम शातकौम्भैश च कवचैर भूषणैश च तमॊ ऽभयगात ॥ 23 ॥
ततः सा भारती सेना मणिहेमविभूषिता दयुर इवासीत स नक्षत्रा रजन्यां भरतर्षभ ॥ 24 ॥
गॊमायुबड संघुष्टा शक्तिध्वजसमाकुला दारुणाभिरुता घॊरा कष्वेडितॊत्क्रुष्ट नादिता ॥ 25 ॥
ततॊ ऽभवन महाशब्दस तुमुलॊ लॊमहर्षणः समावृण्वन दिशः सर्वा महेन्द्राशनिनिस्वनः ॥ 26 ॥
सा निशीथे महाराज सेनादृश्यत भारती अङ्गदैः कुण्डलैर निष्कैः शस्तैश चैवावभासिता ॥ 27 ॥
तत्र नागा रथाश चैव जाम्बूनदविभूषिताः निशायां परत्यदृश्यन्त मेघा इव स विद्युतः ॥ 28 ॥
ऋष्टिशक्तिगदा बाणमुसल परासपट्टिशाः संपतन्तॊ वयदृश्यन्त भराजमाना इवाग्नयः ॥ 29 ॥
दुर्यॊधन पुरॊवातां रथनागबलाहकाम वादित्रघॊषस्तनितां चापविद्युद धवजैर वृताम ॥ 30 ॥
दरॊण पाण्डव पर्जन्यां खड्गशक्ति गदाशनिम शरधारास्त्र पवनां भृशं शीतॊष्णसंकुलाम ॥ 31 ॥
घॊरां विस्मापनीम उग्रां जीवितच छिदम अप्लवाम तां पराविशन्न अतिभयां सेनां युद्धचिकीर्षवः ॥ 32 ॥
तस्मिन रात्रिमुखे घॊरे महाशब्दनिनादिते भीरूणां तरासजनने शूराणां हर्षवर्धने ॥ 33 ॥
रात्रियुद्धे तदा घॊरे वर्तमाने सुदारुणे दरॊणम अभ्यद्रवन करुद्धाः सहिताः पाण्डुसृञ्जयाः ॥ 34 ॥
ये ये परमुखतॊ राजन नयवर्तन्त महात्मनः तान सर्वान विमुखांश चक्रे कांश चिन निन्ये यमक्षयम ॥ 35 ॥
द्रोणपर्व · Drona Parva
अध्याय 129
Reach this point to mark the section finished.
Continue to अध्याय 130