[धृ] तस्मिन परविष्टे दुर्धर्षे सृञ्जयान अमितौजसि अमृष्यमाणे संरब्धे का वॊ ऽभूद वै मतिस तदा ॥ 1 ॥
दुर्यॊधनं तथा पुत्रम उक्त्वा शास्त्रातिगं मम यत पराविशद अमेयात्मा किं पार्थः परत्यपद्यत ॥ 2 ॥
निहते सैन्धवे वीरे भूरिश्रवसि चैव हि यद अभ्यगान महातेजाः पाञ्चालान अपराजिथ ॥ 3 ॥
किम अमन्यत दुर्धर्षः परविष्टे शत्रुतापने दुर्यॊधनश च किं कृत्यं पराप्तकालम अमन्यत ॥ 4 ॥
के च तं वरदं वीरम अन्वयुर दविजसत्तमम के चास्य पृष्ठतॊ ऽगच्छन वीराः शूरस्य युध्यतः के पुरस्ताद अयुध्यन्त निघ्नतः शात्रवान रणे ॥ 5 ॥
मन्ये ऽहं पाडवान सर्वान भारद्वाज शरार्दितान शिशिरे कम्पमाना वै कृशा गाव इवाभिभॊ ॥ 6 ॥
परविश्य स महेष्वासः पाञ्चालान अरिमर्दनः कथं नु पुरुषव्याघ्रः पञ्चत्वम उपजग्मिवान ॥ 7 ॥
सर्वेषु सैन्येषु च संगतेषु; रात्रौ समेतेषु महारथेषु संलॊड्यमानेषु पृथग्विधेषु; के वस तदानीं मतिमन्त आसन ॥ 8 ॥
हतांश चैव विषक्तांश च पराभूतांश च शंसति रथिनॊ विरथांश चैव कृतान युद्धेषु मामकान ॥ 9 ॥
कथम एषां तदा तत्र पार्थानाम अपलायिनाम परकाशम अभवद रात्रौ कथं कुरुषु संजय ॥ 10 ॥
[स] रात्रियुद्धे तदा राजन वर्तमाने सुदारुणे दरॊणम अभ्यद्रवन रात्रौ पाण्डवाः सह सैनिकाः ॥ 11 ॥
ततॊ दरॊणः केकयांश च धृष्टद्युम्नस्य चात्मजान परेषयन मृत्युलॊकाय सर्वान इषुभिर आशुगैः ॥ 12 ॥
तस्य परमुखतॊ राजन ये ऽवर्तन्त महारथाः तान सर्वान परेषयाम आस परलॊकाय भारत ॥ 13 ॥
परमथ्नन्तं तदा वीरं भारद्वाजं महारथम अभ्यवर्तत संक्रुद्धः शिबी राजन परतापवान ॥ 14 ॥
तम आपतन्तं संप्रेक्ष्य पाण्डवानां महारथम विव्याध दशभिर दरॊणः सर्वपारशवैः शरैः ॥ 15 ॥
तं शिबिः परतिविव्याध तरिंशता निशितैः शरैः सारथिं चास्य भल्लेन समयमानॊ नयपातयत ॥ 16 ॥
तस्य दरॊणॊ हयान हत्वा सारथिं च महात्मनः अथास्य स शिरस तराणं शिरः कायाद अपाहरत ॥ 17 ॥
कलिङ्गानां च सैन्येन कलिङ्गस्य सुतॊ रणे पूर्वं पितृवधात करुद्धॊ भीमसेनम उपाद्रवत ॥ 18 ॥
स भीमं पञ्चभिर विद्ध्वा पुनर विव्याध सप्तभिः विशॊकं तरिभिर आजघ्ने धवजम एकेन पत्रिणा ॥ 19 ॥
कलिङ्गानां तु तं शूरं करुद्धं करुद्धॊ वृकॊदरः रथाद रथम अभिद्रुत्य मुष्टिनाभिजघान ह ॥ 20 ॥
तस्य मुष्टिहतस्याजौ पाण्डवेन बलीयसा सर्वाण्य अस्थीनि सहसा परापतन वै पृथक पृथक ॥ 21 ॥
तं कर्णॊ भरातरश चास्य नामृष्यन्त महारथाः ते भीमसेनं नाराचैर जघ्नुर आशीविषॊपमैः ॥ 22 ॥
तत्र शत्रुरथं तयक्त्वा भीमॊ धरुवरथं गतः धरुवं चास्यन्तम अनिशं मुष्टिना समपॊथयत स तथा पाण्डुपुत्रेण बलिना निहतॊ ऽपतत ॥ 23 ॥
तं निहत्य महाराज भीमसेनॊ महाबलः जय रात रथं पराप्य मुहुः सिंह इवानदत ॥ 24 ॥
जय रातम अथाक्षिप्य नदन सव्येन पाणिना तलेन नाशयाम आस कर्णस्यैवाग्रतः सथितम ॥ 25 ॥
कर्णस तु पाण्डवे शक्तिं काञ्चनीं समवासृजत ततस ताम एव जघ्राह परहसन पाण्डुनन्दनः ॥ 26 ॥
कर्णायैव च दुर्धर्षश चिक्षेपाजौ वृकॊदरः ताम अन्तरिक्षे चिच्छेद शकुनिस तैलपायिना ॥ 27 ॥
ततस तव सुता राजन भीमस्य रथम आव्रजन महता शरवर्षेण छादयन्तॊ वृकॊदरम ॥ 28 ॥
दुर्मदस्य ततॊ भीमः परहसन्न इव संयुगे सारथिं च हयांश चैव शरैर निन्ये यमक्षयम दुर्मदस तु ततॊ यानं दुष्कर्णस्यावपुप्लुवे ॥ 29 ॥
ताव एकरथम आरूढौ भरातरौ परतापनौ संग्रामशिरसॊ मध्ये भीमं दवाव अभ्यधावताम यथाम्बुपतिमित्रौ हि तारकं दैत्य सत्तमम ॥ 30 ॥
ततस तु दुर्मदश चैव दुष्कर्णश च तवात्मजौ रथम एकं समारुह्य भीमं बाणैर अविध्यताम ॥ 31 ॥
ततः कर्णस्य मिषतॊ दरौणेर दुर्यॊधनस्य च कृपस्य सॊमदत्तस्य बाह्लीकस्य च पाण्डवः ॥ 32 ॥
दुर्मदस्य च वीरस्य दुष्कर्णस्य च तं रथम पादप्रहारेण धरां परावेशयद अरिंदमः ॥ 33 ॥
ततः सुतौ ते बलिनौ शूरौ दुष्कर्ण दुर्मदौ मुष्टिनाहत्य संक्रुद्धॊ ममर्द चरणेन च ॥ 34 ॥
ततॊ हाहाकृते सैन्ये दृष्ट्वा भीमं नृपाब्रुवन रुद्रॊ ऽयं भीमरूपेण धार्तराष्ट्रेषु गृध्यति ॥ 35 ॥
एवम उक्त्वापलायन्त सर्वे भारत पार्थिवाः विसंज्ञाव आहयान वाहान न च दवौ सह धावतः ॥ 36 ॥
ततॊ बले भृशलुलिते निशामुखे; सुपूजितॊ नृप वृषभैर वृकॊदरः महाबलः कमलविबुद्धलॊचनॊ; युधिष्ठिरं नृपतिम अपूजयद बली ॥ 37 ॥
ततॊ यमौ दरुपद विराट केकया; युधिष्ठिरश चापि परां मुदं ययुः वृकॊदरं भृशम अभिपूजयंश च ते; यथान्धके परतिनिहते हरं सुराः ॥ 38 ॥
ततः सुतास तव वरुणात्मजॊपमा; रुषान्विताः सह गुरुणा महत्मना वृकॊदरं स रथपदातिकुञ्जरा; युयुत्सवॊ भृशम अभिपर्यवारयन ॥ 39 ॥
ततॊ ऽभवत तिमिरघनैर इवावृतं; महाभये भयदम अतीव दारुणम निशामुखे बड वृकगृध्रमॊदनं; महात्मनां नृप वरयुद्धम अद्भुतम ॥ 40 ॥
द्रोणपर्व · Drona Parva
अध्याय 130
Reach this point to mark the section finished.
Continue to अध्याय 131