धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 128

  1. [स] तद उदीर्णगजाश्वौघं बलं तव जनाधिप पाण्डुसेनाम अभिद्रुत्य यॊधयाम आस सर्वतः ॥ 1 ॥

  2. पाञ्चालाः कुरवश चैव यॊधयन्तः परस्परम यम राष्ट्राय महते परलॊकाय दीक्षिताः ॥ 2 ॥

  3. शूराः शूरैः समागम्य शरतॊमर शक्तिभिः विव्यधुः समरे तूर्णं निन्युश चैव यमक्षयम ॥ 3 ॥

  4. रथिनां रथिभिः सार्धं रुधिरस्रावि दारुणम परावर्तत महद युद्धं निघ्नताम इतरेतरम ॥ 4 ॥

  5. वारणाश च महाराज समासाद्य परस्परम विषाणैर दारयाम आसुः संक्रुद्धाश च महॊत्कटाः ॥ 5 ॥

  6. हयारॊहान हरारॊहाः परासशक्तिपरश्वधैः बिभिदुस तुमुले युद्धे परार्थयन्तॊ मयद यशः ॥ 6 ॥

  7. पत्तयश च महाबाहॊ शतशः शस्त्रपाणयः अन्यॊन्यम आर्दयन राजन नित्ययत्ताः पराक्रमे ॥ 7 ॥

  8. गॊत्राणां नामधेयानां कुलानां चैव मारिष शरवणाद धि विजानीमः पाञ्चालान कुरुभिः सह ॥ 8 ॥

  9. अन्यॊन्यं समरे यॊधाः शरशक्तिपरश्वधैः परेषयन परलॊकाय विचरन्तॊ हय अभीतवत ॥ 9 ॥

  10. शरैर दश दिशॊ राजंस तेषां मुक्तैः सहस्रशः न भराजन्त यथापूर्वं भास्करे ऽसतं गते ऽपि च ॥ 10 ॥

  11. तथा परयुध्यमानेषु पाणवेयेषु निर्भयः दुर्यॊधनॊ महाराज वयवगाहत तद बलम ॥ 11 ॥

  12. सैन्धवस्य वधेनैव भृशं दुःखसमन्वितः मर्तव्यम इति संचिन्त्य पराविशत तु दविषद बलम ॥ 12 ॥

  13. नादयन रथघॊषेण कम्पयन्न इव मेदिनीम अभ्यवर्तत पुत्रस ते पाण्डवानाम अनीकिनीम ॥ 13 ॥

  14. स संनिपातस तुमुलस तस्य तेषां च भारत अभवत सर्वसैन्यानाम अभाव करणॊ महान ॥ 14 ॥

  15. मंध्यं दिनगतं सूर्यं परतपन्तं गभस्तिभिः तथा तव सुतं मध्ये परतपन्तं शरॊर्मिभिः ॥ 15 ॥

  16. न शेकुर भारतं युद्धे पाण्डवाः समवेक्षितुम पलायने कृतॊत्साहा निर्तुसाहा दविषज जये ॥ 16 ॥

  17. पर्यधावन्त पाञ्चाला वध्यमाना महात्मना रुक्मपुङ्खैः परसन्नाग्रैस तव पुत्रेण धन्विना अर्द्यमानाः शरैस तूर्णं नयपतन पाण्डुसैनिकाः ॥ 17 ॥

  18. न तादृशं रणे कर्मकृतवन्तस तु तावकाः यादृशं कृतवान राजा पुत्रस तव विशां पते ॥ 18 ॥

  19. पुत्रेण तव सा सेना पाण्डवी मथिता रणे नलिनी दविरदेनेव समन्तात फुल्लपङ्कजा ॥ 19 ॥

  20. कषीणतॊयानिलार्काभ्यां हतत्विड इव पद्मिनी बभूव पाण्डवी सेना तव पुत्रस्य तेजसा ॥ 20 ॥

  21. पाण्डुसेनां हतां दृष्ट्वा तव पुत्रेण भारत भीमसेनपुरॊगास तु पाञ्चालाः समुपाद्रवन ॥ 21 ॥

  22. स भीमसेनं दशभिर मद्री पुत्रौ तरिभिस तरिभिः विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम ॥ 22 ॥

  23. धृष्टद्युम्नं च सप्तत्या धर्मपुत्रं च सप्तभिः केकयांश चैव चेदींश च बहुभिर निशितैः शरैः ॥ 23 ॥

  24. सात्वतं पञ्चभिर विद्ध्वा दरौपदेयांस तरिभिस तरिभिः घटॊत्कचं च समरे विद्ध्वा सिंह इवानदत ॥ 24 ॥

  25. शतशश चापरान यॊधान स दविपाश्वरथान रणे शरैर अवचकर्तॊग्रैः करुद्धॊ ऽनतक इव परजाः ॥ 25 ॥

  26. तस्य तान निघ्नतः शत्रून रुक्मपृष्ठं महद धनुः भल्लाभ्यां पाण्डवॊ जयेष्ठस तरिधा चिच्छेद मारिष ॥ 26 ॥

  27. विव्याध चैनं दशभिः सम्यग अस्तैः शितैः शरैः मर्माणि भित्त्वा ते सर्वे संभग्नाः कषितिम आविशत ॥ 27 ॥

  28. ततः परमुदिता यॊधाः परिवव्रुर युधिष्ठिरम वृत्र हत्यै यथा देवाः परिवव्रुः पुरंदरम ॥ 28 ॥

  29. ततॊ युधिष्ठिरॊ राजा तव पुत्रस्य मारिष शरं परमदुर्वारं परेषयाम आस संयुगे स तेन भृशसंविद्धॊ निषसाद रथॊत्तमे ॥ 29 ॥

  30. ततः पाञ्चाल सैन्यानां भृशम आसीद रवॊ महान हतॊ राजेति राजेन्द्र मुदितानां समन्ततः ॥ 30 ॥

  31. बाणशब्दरवश चॊग्रः शुश्रुवे तत्र मारिष अथ दरॊणॊ दरुतं तत्र परत्यदृश्यत संयुगे ॥ 31 ॥

  32. हृष्टॊ दुर्यॊधनश चापि दृढम आदाय कार्मुकम तिष्ठ तिष्ठेति राजानं बरुवन पाण्डवम अभ्ययात ॥ 32 ॥

  33. परत्युद्ययुस तं तवरिताः पाञ्चाला राजगृद्धिनः तान दरॊणः परतिजग्राह परीप्सन कुरुसत्तमम चण्डवातॊद्धतान मेघान निघ्नन रश्मिमुचॊ यथा ॥ 33 ॥

  34. ततॊ राजन महान आसीत संग्रामॊ भूरिवर्धनः तावकानां परेषां च समेतानां युयुत्सया ॥ 34 ॥

Reach this point to mark the section finished.

Continue to अध्याय 129

Previous: अध्याय 127