धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 127

  1. [स] ततॊ दुर्यॊधनॊ राजा दरॊणेनैवं परचॊदितः अमर्षवशम आपन्नॊ युद्धायैव मनॊ दधे ॥ 1 ॥

  2. अब्रवीच च तदा कर्णं पुत्रॊ दुर्यॊधनस तव पश्य कृष्ण सहायेन पाण्डवेन किरीटिना आचार्य विहितं वयूहं भिन्नं देवैः सुदुर्भिदम ॥ 2 ॥

  3. तव वयायच्छमानस्य दरॊणस्य च महात्मनः मिषतां यॊधमुख्यानां सैन्धवॊ विनिपातितः ॥ 3 ॥

  4. पश्य राधेय राजानः पृथिव्यं परवरा युधि पार्थेनैकेन निहताः सिंहेनेवेतरा मृगाः ॥ 4 ॥

  5. मम वयायच्छमानस्य समरे शत्रुसूदन अल्पावशेषं सन्यं मे कृतं शक्रात्मजेन ह ॥ 5 ॥

  6. कथं हय अनिच्छमानस्य दरॊणस्य युधि फल्गुनः भिन्द्यात सुदुर्भिदं वयूहं यतमानॊ ऽपि संयुगे ॥ 6 ॥

  7. परियॊ हि फल्गुनॊ नित्यम आचार्यस्य महात्मनः ततॊ ऽसय दत्तवान दवारं न युद्धेनारि मर्दन ॥ 7 ॥

  8. अभयं सैधवस्याजौ दत्त्वा दरॊणः परंतपः परादात किरीटिने दवारं पश्य निर्गुणतां मम ॥ 8 ॥

  9. यद यद आस्यम अनुज्ञां वै पूर्वम एव गृहान परति सिन्धुराजस्य समरे नाभभिष्यज जनक्षयः ॥ 9 ॥

  10. जयद्रथॊ जीवितार्थी गच्छमानॊ गृहान परति महानार्येण संरुद्धॊ दरॊणात पराप्याभयं रणे ॥ 10 ॥

  11. अद्य मे भरातरः कषीणाश चित्रसेनादयॊ युधि भीमसेनं समासाद्य पश्यतां नॊ दुरात्मनाम ॥ 11 ॥

  12. [कर्ण] आचार्यं मा विगर्हस्व शक्त्या युध्यत्य असौ दविजः अजय्यान पाण्डवान मन्ये दरॊणेनास्त्रविदा मृधे ॥ 12 ॥

  13. तथा हय एनम अतिक्रम्य परविष्टः शवेतवाहनः दैवदृष्टॊ ऽनयथा भावॊ न मन्ये विद्यते कव चित ॥ 13 ॥

  14. ततॊ नॊ युध्यमानानां परं शक्त्या सुयॊधन सैन्धवॊ निहतॊ राजन दैवम अत्र परं समृतम ॥ 14 ॥

  15. परं यत्नं कुर्वतां च तवया सार्धं रणाजिरे हत्वास्माकं पौरुषं हि दैवं पश्चात करॊति नः सततं चेष्टमानानां निकृत्या विक्रमेण च ॥ 15 ॥

  16. दैवॊपसृष्टः पुरुषॊ यत कर्म कुरुते कव चित कृतं कृतं सम तत तस्य दैवेन विनिहन्यते ॥ 16 ॥

  17. यत कर्तव्यं मनुष्येण वयवसायवता सता तत कार्यम अविशङ्केन सिद्दिर दैवे परतिष्ठिता ॥ 17 ॥

  18. निकृत्या निकृताः पार्था विषयॊगैश च भारत दग्धा जतु गृहे चापि दयूतेन च पराजिताः ॥ 18 ॥

  19. राजनीतिं वयपाश्रित्य परहिताश चैव काननम यत्नेन च कृतं यत ते दैवेन विनिपातितम ॥ 19 ॥

  20. युध्यस्व यत्नम आस्थाय मृत्युं कृत्वा निवर्तनम यततस तव तेषां च दैवं मार्गेण यास्यति ॥ 20 ॥

  21. न तेषां मतिपूर्वं हि सुकृतं दृश्यते कव चित दुष्कृतं तव वा वीर बुद्ध्या हीनं कुरूद्वह ॥ 21 ॥

  22. दैवं परमाणं सर्वस्य सुकृतस्येतरस्य वा अनन्यकर्म दैवं हि जागर्ति सवपताम अपि ॥ 22 ॥

  23. बहूनि तव सैन्यानि यॊधाश च बहवस तथा न तहा पाण्डुपुत्राणाम एवं युद्धम अवर्तत ॥ 23 ॥

  24. तैर अल्पैर बहवॊ यूयं कषयं नीताः परहारिणः शङ्के दैवस्य तत कर्म पौरुषं येन नाशितम ॥ 24 ॥

  25. [स] एवं संभाषमाणानां बहु तत तज जनाधिप पाण्डवानाम अनीकानि समदृश्यन्त संयुगे ॥ 25 ॥

  26. ततः परववृते युद्धं वयतिषक्त रथद्विपम तावकानां परैः सार्धं राजन दुर्मन्त्रिते तव ॥ 26 ॥

Reach this point to mark the section finished.

Continue to अध्याय 128

Previous: अध्याय 126