धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 126

  1. [धृ] सिन्धुराजे हते तात समरे सव्यसाचिना तथैव भूरिश्रवसि किम आसीद वॊ मनस तदा ॥ 1 ॥

  2. दुर्यॊधनेन च दरॊणस तथॊक्तः कुरुसंसदि किम उक्तवान परं तस्मात तन ममाचक्ष्व संजय ॥ 2 ॥

  3. [स] निष्टानकॊ महान आसीत सैन्यानां तव भारत सैन्धवं निहतं दृष्ट्वा भूरिश्रवसम एव च ॥ 3 ॥

  4. मन्त्रितं तव पुत्रस्य ते सर्वम अवमेनिरे येन मन्त्रेण निहताः शतशः कषत्रियर्षभाः ॥ 4 ॥

  5. दरॊणस तु तद वचः शरुत्वा पुत्रस्य तव दुर्मनाः मुहूर्तम इव तु धयात्वा भृशम आर्तॊ ऽभयभाषत ॥ 5 ॥

  6. दुर्यॊधन किम एवं मां वाक्शरैर अभिकृन्तसि अजय्यं समरे नित्यं बरुवाणं सव्यसाचिनम ॥ 6 ॥

  7. एतेनैवार्जुनं जञातुम अलं कौरव संयुगे यच छिखण्ड्य अवधीद भीष्मं पाल्यमानः किरीटिना ॥ 7 ॥

  8. अवध्यं निहतं दृष्ट्वा संयुगे देव मानुषैः तदैवाज्ञासिषम अहं नेयम अस्तीति भारती ॥ 8 ॥

  9. यं पुंसां तरिषु लॊकेषु सर्वशूरम अमंस्महि तस्मिन विनिहते शूरे किं शेषं पर्युपास्महे ॥ 9 ॥

  10. यान सम तान गलहते तातः शकुनिः कुरुसंसदि अक्षान न ते ऽकषा निशिता बाणास ते शत्रुतापनाः ॥ 10 ॥

  11. त एते घनन्ति नस तात विशिखा जय चॊदिताः यांस तदा खयाप्यमानांस तवं विदुरेण न बुध्यसे ॥ 11 ॥

  12. तास ता विलपतश चापि विदुरस्य महात्मनः धीरस्य वाचॊ नाश्रौषीः कषेमाय वदतः शिवाः ॥ 12 ॥

  13. तद इदं वर्तते घॊरम आगतं वैशसं महत तस्यावमानाद वाक्यस्य दुर्यॊधनकृते तव ॥ 13 ॥

  14. यच च नः परेक्षमाणानां कृष्णाम आनाययः सभाम अनर्हतीं कुले जातां सर्वधर्मानुचारिणीम ॥ 14 ॥

  15. तस्याधर्मस्य गान्धारे फलं पराप्तम इदं तवया नॊ चेत पापं परे लॊके तवम अर्च्छेथास ततॊ ऽधिकम ॥ 15 ॥

  16. यच च तान पाण्डवान दयूते विषमेण विजित्य ह पराव्राजयस तदारण्ये रौरवाजिनवाससः ॥ 16 ॥

  17. पुत्राणाम इव चैतेषां धर्मम आचरतां सदा दरुह्येत कॊ नु नरॊ लॊके मद अन्यॊ बराह्मण बरुवः ॥ 17 ॥

  18. पाण्डवानाम अयं कॊपस तवया शकुनिना सह आहृतॊ धृतराष्ट्रस्य संमते कुरुसंसदि ॥ 18 ॥

  19. दुःशासनेन संयुक्तः कर्णेन परिवर्धितः कषत्तुर वाक्यम अनादृत्य तवयाभ्यस्तः पुनः पुनः ॥ 19 ॥

  20. यत तत सर्वे पराभूय पर्यवारयतार्जुनिम सिन्धुराजानम आश्रित्य स वॊ मध्ये कथं हतः ॥ 20 ॥

  21. कथं तवयि च कर्णे च कृपे शल्ये च जीवति अश्वत्थाम्नि च कौरव्य निधनं सैन्धवॊ ऽगमत ॥ 21 ॥

  22. यद वस तत सर्वराजानस तेजस तिग्मम उपासते सिन्धुराजं परित्रातुं स वॊ मध्ये कथं हतः ॥ 22 ॥

  23. मय्य एव हि विशेषेण तथा दुर्यॊधन तवयि आशंसत परित्राणम अर्जुनात स महीपतिः ॥ 23 ॥

  24. ततस तस्मिन परित्राणम अलब्धवति फल्गुनात न किं चिद अनुपश्यामि जीवितत्राणम आत्मनः ॥ 24 ॥

  25. मज्जन्तम इव चात्मानं दृष्टद्युम्नस्य किल्बिषे पश्याम्य अहत्वा पाञ्चालान सह तेन शिखण्डिना ॥ 25 ॥

  26. तन मा किम अभितप्यन्तं वाक्शरैर अभिकृन्तसि अशक्तः सिन्धुराजस्य भूत्वा तराणाय भारत ॥ 26 ॥

  27. सौवर्णं सत्यसंधस्य धवजम अक्लिष्टकर्मणः अपश्यन युधि भीष्मस्य कथम आशंससे जयम ॥ 27 ॥

  28. मध्ये महारथानां च यत्राहन्यत सैन्धवः हतॊ भूरिश्रवाश चैव किं शेषं तत्र मन्यसे ॥ 28 ॥

  29. कृप एव च दुर्धर्षॊ यदि जीवति पार्थिव यॊ नागात सिन्धुराजस्य वर्त्म तं पूजयाम्य अहम ॥ 29 ॥

  30. यच चापश्यं हतं भीष्मं पश्यतस ते ऽनुजस्य वै दुःशासनस्य कौरव्य कुर्वाणं कर्म दुष्करम अवध्यकल्पं संग्रामे देवैर अपि स वासवैः ॥ 30 ॥

  31. न ते वसुंधरास्तीति तद अहं चिन्तये नृप इमानि पाण्डवानां च सृञ्जयानां च भारत अनीकान्य आद्रवन्ते मां सहितान्य अद्य मारिष ॥ 31 ॥

  32. नाहत्वा सर्वपाञ्चालान कवचस्य विमॊक्षणम कर्तास्मि समरे कर्म धार्तराष्ट्र हितं तव ॥ 32 ॥

  33. राजन बरूयाः सुतं मे तवम अश्वत्थामानम आहवे न सॊमकाः परमॊक्तव्या जीवितं परिरक्षता ॥ 33 ॥

  34. यच च पित्रानुशिष्टॊ ऽसि तद वचः परिपालय आनृशंस्ये दमे सत्ये आर्जवे च सथिरॊ भव ॥ 34 ॥

  35. धर्मार्थकामकुशलॊ धर्मार्थाव अप्य अपीडयन धर्मप्रधानः कार्याणि कुर्याश चेति पुनः पुनः ॥ 35 ॥

  36. चक्षुर मनॊभ्यां संतॊष्या विप्राः सेव्याश च शक्तितः न चैषां विप्रियं कार्यं ते हि वह्नि शिखॊपमाः ॥ 36 ॥

  37. एष तव अहम अनीकानि परविशाम्य अरिसूदन रणाय महते राजंस तवया वाक्शल्य पीडितः ॥ 37 ॥

  38. तवं च दुर्यॊधन बलं यदि शक्नॊषि धारय रात्राव अपि हि यॊत्स्यन्ते संरब्धाः कुरुसृञ्जयाः ॥ 38 ॥

  39. एवम उक्त्वा ततः परायाद दरॊणः पाण्डव सृञ्जयान मुष्णन कषत्रिय तेजांसि नक्षत्राणाम इवांशुमान ॥ 39 ॥

Reach this point to mark the section finished.

Continue to अध्याय 127

Previous: अध्याय 125