धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 125

  1. [स] सैन्धवे निहते राजन पुत्रस तव सुयॊधनः अश्रुक्लिन्न मुखॊ दीनॊ निरुत्साहॊ दविषज जये अमन्यतार्जुन समॊ यॊधॊ भुवि न विद्यते ॥ 1 ॥

  2. न दरॊणॊ न च राधेयॊ नाश्वत्थामा कृपॊ न च करुद्धस्य परमुखे सथातुं पर्याप्ता इति मारिष ॥ 2 ॥

  3. निर्जित्य हि रणे पार्थः सर्वान मम महारथान अवधीत सैन्धवं संख्ये नैनं कश चिद अवारयत ॥ 3 ॥

  4. सर्वथा हतम एवैतत कौरवाणां महद बलम न हय अस्य विद्यते तरात साक्षाद अपि पुरंदरः ॥ 4 ॥

  5. यम उपाश्रित्य संग्रामे कृतः शस्त्रसमुद्यमः स कर्णॊ निर्जितः संख्ये हतश चैव जयद्रथः ॥ 5 ॥

  6. परुषाणि सभामध्ये परॊक्तवान यः सम पाण्डवान स कर्णॊ निर्जितः संख्ये सैन्धवश च निपातितः ॥ 6 ॥

  7. यस्य वीर्यं समाश्रित्य शमं याचन्तम अच्युतम तृणवत तम अहं मन्ये स कर्णॊ निर्जितॊ युधि ॥ 7 ॥

  8. एवं कलान्तमना राजन्न उपायाद दरॊणम ईक्षितुम आगस्कृत सर्वलॊकस्य पुत्रस ते भरतर्षभ ॥ 8 ॥

  9. ततस तत सर्वम आचख्यौ कुरूणां वैशसं महत परान विजयतश चापि धार्तराष्ट्रान निमज्जतः ॥ 9 ॥

  10. [दुर] पश्य मूर्धावसिक्तानाम आचार्य कदनं कृतम कृत्वा परमुखतः शूरं भीष्मं मम पितामहम ॥ 10 ॥

  11. तं निहत्य परलुब्धॊ ऽयं शिखण्डी पूर्णमानसः पाञ्चालैः सहितः सर्वैः सेनाग्रम अभिकर्षति ॥ 11 ॥

  12. अपरश चापि दुर्धर्षः शिष्यस ते सव्यसाचिना अक्षौहिणी सप्त हत्वा हतॊ राजा जयद्रथः ॥ 12 ॥

  13. अस्मद विजयकामानां सुहृदाम उपकारिणाम गन्तास्मि कथम आनृण्यं गतानां यमसादनम ॥ 13 ॥

  14. ये मदर्थं परीप्सन्ति वसुधां वसुधाधिपाः ते हित्वा वसुधैश्वर्यं वसुधाम अधिशेरते ॥ 14 ॥

  15. सॊ ऽहं कापुरुषः कृत्वा मित्राणां कषयम ईदृशम नाश्वमेधसहस्रेण पातुम आत्मानम उत्सहे ॥ 15 ॥

  16. मम लुब्धस्य पापस्य तथा धर्मापचायिनः वयायच्छन्तॊ जिगीषन्तः पराप्ता वैवस्वतक्षयम ॥ 16 ॥

  17. कथं पतितवृत्तस्य पृथिवी सुहृदां दरुहः विवरं नाशकद दातुं मम पार्थिव संसदि ॥ 17 ॥

  18. सॊ ऽहं रुधिरसिक्ताङ्गं राज्ञां मध्ये पितामहम शयानं नाशकं तरातुं भीष्मम आयॊधने हतम ॥ 18 ॥

  19. तं माम अनार्य पुरुषं मित्र दरुहम अधार्मिकम किं स वक्ष्यति दुर्धर्षः समेत्य परलॊकवित ॥ 19 ॥

  20. जलसंधं महेष्वासं पश्य सात्यकिना हतम मदर्थम उद्यतं शूरं पराणांस तयक्त्वा महारथम ॥ 20 ॥

  21. काम्बॊजं निहतं दृष्ट्वा तथालम्बुसम एव च अन्यान बहूंश च सुहृदॊ जीवितार्थॊ ऽदय कॊ मम ॥ 21 ॥

  22. वयायच्छन्तॊ हताः शूरा मदर्थे ये ऽपराङ्मुखाः यतमानाः परं शक्त्या विजेतुम अहितान मम ॥ 22 ॥

  23. तेषां गत्वाहम आनृण्यम अद्य शक्त्या परंतप तर्पयिष्यामि तान एव जलेन यमुनाम अनु ॥ 23 ॥

  24. सत्यं ते परतिजानामि सर्वशस्त्रभृतां वरम इष्टापूर्तेन च शपे वीर्येण च सुतैर अपि ॥ 24 ॥

  25. निहत्य तान रणे सर्वान पाञ्चालान पाण्डवैः सह शान्तिं लब्धास्मि तेषां वा रणे गन्ता स लॊकताम ॥ 25 ॥

  26. न हीदानीं सहाया मे परीप्सन्त्य अनुपस्कृताः शरेयॊ हि पाण्डून मन्यन्ते न तथास्मान महाभुज ॥ 26 ॥

  27. सवयं हि मृत्युर विहितः सत्यसंधेन संयुगे भवान उपेक्षां कुरुते सुशिष्यत्वाद धनंजये ॥ 27 ॥

  28. अतॊ विनिहताः सर्वे ये ऽसमज जय चिकीर्षवः कर्णम एव तु पश्यामि संप्रत्य अस्मज जयैषिणम ॥ 28 ॥

  29. यॊ हि मित्रम अविज्ञाय याथातथ्येन मन्दधीः मित्रार्थे यॊजयत्य एनं तस्य सॊ ऽरथॊ ऽवसीदति ॥ 29 ॥

  30. तादृग्रूपम इदं कार्यं कृतं मम सुहृद बरुवैः मॊहाल लुब्धस्य पापस्य जिह्माचारैस ततस ततः ॥ 30 ॥

  31. हतॊ जयद्रथश चैव सौमदत्तिश च वीर्यवान अभीषाहाः शूरसेनाः शिबयॊ ऽथ वसातयः ॥ 31 ॥

  32. सॊ ऽहम अद्य गमिष्यामि यत्र ते पुरुषर्षभाः हता मदर्थं संग्रामे युध्यमानाः किरीटिना ॥ 32 ॥

  33. न हि मे जीवितेनार्थस तान ऋते पुरुषर्षभान आचार्यः पाण्डुपुत्राणाम अनुजानातु नॊ भवान ॥ 33 ॥

Reach this point to mark the section finished.

Continue to अध्याय 126

Previous: अध्याय 124