[स] ततॊ युधिष्ठिरॊ राजा रथाद आप्लुत्य भारत पर्यष्वजत तदा कृष्णाव आनन्दाश्रु परिप्लुतः ॥ 1 ॥
परमृज्य वदनं शुभ्रं पुण्डरीकसमप्रभम अब्रवीद वासुदेवं च पाण्डवं च धनंजयम ॥ 2 ॥
दिष्ट्या पश्यामि संग्रामे तीर्णभारौ महारथौ दिष्ट्या च निहतः पापः सैन्धवः पुरुषाधमः ॥ 3 ॥
कृष्ण दिष्ट्या मम परीतिर महती परतिपादिता दिष्ट्या शत्रुगणाश चैव निमग्नाः शॊकसागरे ॥ 4 ॥
न तेषां दुष्करं किं चित तरिषु लॊकेषु विद्यते सर्वलॊकगुरुर येषां तवं नाथॊ मधुसूदन ॥ 5 ॥
तव परसादाद गॊविन्द वयं जेष्यामहे रिपून यथापूर्वं परसादात ते दानवान पाकशासनः ॥ 6 ॥
पृथिवी विजयॊ वापि तरैलॊक्यविजयॊ ऽपि वा धरुवॊ हि तेषां वार्ष्णेय येषां तुष्टॊ ऽसि माधव ॥ 7 ॥
न तेषां विद्यते पापं संग्रामे वा पराजयः तरिदशेश्वरनाथस तवं येषां तुष्टॊ ऽसि माधव ॥ 8 ॥
तवत्प्रसादाद धृषीकेश शक्रः सुरगणेश्वरः तरैलॊक्यविजयं शरीमान पराप्तवान रणमूर्धनि ॥ 9 ॥
तव चैव परसादेन तरिदशास तरिदशेश्वर अमरत्वं गताः कृष्ण लॊकांश चाश्नुवते ऽकषयान ॥ 10 ॥
तवत्प्रसाद समुत्थेन विक्रमेणारि सूदन सुरेशत्वं गतः शक्रॊ हत्वा दैत्यान सहस्रशः ॥ 11 ॥
तवत्प्रसादाद धृषीकेश जगत सथावरजङ्गमम सववर्त्मनि सथितं वीर जपहॊमेषु वर्तते ॥ 12 ॥
एकार्णवम इदं पूर्वं सर्वम आसीत तमॊमयम तवत्प्रसादात परकाशत्वं जगत पराप्तं नरॊत्तम ॥ 13 ॥
सरष्टारं सर्वलॊकानां परमात्मानम अच्युतम ये परपन्ना हृषीकेशं न ते मुह्यन्ति कर्हि चित ॥ 14 ॥
अनादि निधनं देवं लॊककर्तारम अव्ययम तवां भक्ता ये हृषीकेश दुर्गाण्य अतितरन्ति ते ॥ 15 ॥
परं पुराणं पुरुषं पुराणानां परं च यत परपद्यतस तं परमं परा भूतिर विधीयते ॥ 16 ॥
यॊ ऽगात चतुरॊ वेदान यश च वेदेषु गीयते तं परपद्य महात्मानं भूतिम आप्नॊत्य अनुत्तमाम ॥ 17 ॥
धनंजय सखा यश च धनंजय हितश च यः तं धनंजय गॊप्तारं परपद्य सुखम एधते ॥ 18 ॥
इत्य उक्तौ तौ महात्मानाव उभौ केशव पाण्डवौ ताव अब्रूतां तदा हृष्टौ राजानं पृथिवीपतिम ॥ 19 ॥
तव कॊपाग्निना दग्धः पापॊ राजा जयद्रथः उदीर्णं चापि सुमहद धार्तराष्ट्र बलं रणे ॥ 20 ॥
हन्यते निहतं चैव विनङ्क्ष्यति च भारत तव करॊधहता हय एते कौरवाः शत्रुसूदन ॥ 21 ॥
तवां हि चक्षुर्हणं वीरं कॊपयित्वा सुयॊधनः स मित्र बन्धुः समरे पराणांस तयक्ष्यति दुर्मतिः ॥ 22 ॥
तव करॊधहतः पूर्वं देवैर अपि सुदुर्जयः शरतल्पगतः शेते भीष्मः कुरुपितामहः ॥ 23 ॥
दुर्लभॊ हि जयस तेषां संग्रामे रिपुसूदन याता मृत्युवशं ते वै येषां करॊद्धॊ ऽसि पाण्डव ॥ 24 ॥
राज्यं पराणाः परियाः पुत्राः सौख्यानि विविधानि च अचिरात तस्य नश्यन्ति येषां करुद्दॊ ऽसि मानद ॥ 25 ॥
विनष्टान कौरवान मन्ये सपुत्रपशुबान्धवान राजधर्मपरे नित्यं तवयि करुद्धे युधिष्ठिर ॥ 26 ॥
ततॊ भीमॊ महाबाहुः सात्यकिश च महारथः अभिवाद्य गुरुं जयेष्ठं मार्गणैः कषतविक्षतौ सथिताव आस्तां महेष्वासौ पाञ्चाल्यैः परिवारितौ ॥ 27 ॥
तौ दृष्ट्व मुदितौ वीरौ पराञ्जलीचाग्रतः सथितौ अभ्यनन्दत कौन्तेयस ताव उभौ भीम सात्यकी ॥ 28 ॥
दिष्ट्या पश्यामि वां वीरौ विमुक्तौ सैन्यसागरात दरॊण गराहाद दुराधर्षाद धार्दिक्य मकरालयात दिष्ट्या च निर्जिताः संख्ये पृथिव्यां सर्वपार्थिवाः ॥ 29 ॥
युवां विजयिनौ चापि दिष्ट्या पश्यामि संयुगे दिष्ट्या दरॊणॊ जितः संख्ये हार्दिक्यश च महाबलः ॥ 30 ॥
सैन्यार्णवं समुत्तीर्णौ दिष्ट्या पश्यामि चानघौ समरश्लाघिनौ वीरौ समरेष्व अपलायिनौ मम पराणसमौ चैव दिष्ट्या पश्यामि वाम अहम ॥ 31 ॥
इत्य उक्त्वा पाण्डवॊ राजा युयुधान वृकॊदरौ सस्वजे पुरुषव्याघ्रौ हर्षाद बाष्पं मुमॊच ह ॥ 32 ॥
ततः परमुदितः सर्वं बलम आसीद विशां पते पाण्डवानां जयं दृष्ट्वा युद्धाय च मनॊ दधे ॥ 33 ॥
द्रोणपर्व · Drona Parva
अध्याय 124
Reach this point to mark the section finished.
Continue to अध्याय 125