धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 123

  1. [धृ] तथागतेषु शूरेषु तेषां मम च संजय किं वै भीमस तदाकार्षीत तन ममाचक्ष्व संजय ॥ 1 ॥

  2. [स] विरथॊ भीमसेनॊ वै कर्ण वाक्शल्य पीडितः अमर्षवशम आपन्नः फल्गुनं वाक्यम अब्रवीत ॥ 2 ॥

  3. पुनः पुनस तूबरक मूढ औदरिकेति च अकृतास्त्रक मा यॊधीर बाल संग्रामकातर ॥ 3 ॥

  4. इति माम अब्रवीत कर्णः पश्यतस ते धनंजय एवं वक्ता च मे वध्यस तेन चॊक्तॊ ऽसमि भारत ॥ 4 ॥

  5. एतद वरतं महाबाहॊ तवया सह कृतं मया यथैतन मम कौनेय तथा तव न संशयः ॥ 5 ॥

  6. तद वधाय नरश्रेष्ठ समरैतद वचनं मम यथा भवति तत सत्यं तथा कुरु धनंजय ॥ 6 ॥

  7. तच छरुत्वा वचनं तस्य भीमस्यामित विक्रमः ततॊ ऽरजुनॊ ऽबरवीत कर्णं किं चिद अभ्येत्य संयुगे ॥ 7 ॥

  8. कर्ण कर्ण वृथा दृष्टे सूतपुत्रात्म संस्तुत अधर्मबुद्धे शृणु मे यत तवा वक्ष्यामि सांप्रतम ॥ 8 ॥

  9. दविविधं कर्म शूराणां युद्धे जयपराजयौ तौ चाप्य अनित्यौ राधेय वासवस्यापि युध्यतः ॥ 9 ॥

  10. मुमूर्षुर युयुधानेन विरथॊ ऽसि विसर्जितः यदृच्छया भीमसेनं विरथं कृतवान असि ॥ 10 ॥

  11. अधर्मस तव एष राधेय यत तवं भीमम अवॊचथाः युद्धधर्मं विजानन वै युध्यन्तम अपलायिनम पूरयन्तं यथाशक्ति शूर कर्माहवे तथा ॥ 11 ॥

  12. पश्यतां सर्वसैन्यानां केशवस्य ममैव च विरथॊ भीमसेनेन कृतॊ ऽसि बहुशॊ रणे न च तवां परुषं किं चिद उक्तवान पण्डुनन्दनः ॥ 12 ॥

  13. यस्मात तु बहु रूक्षं च शरावितस ते वृकॊदरः परॊक्षं यच च सौभद्रॊ युष्माभिर निहतॊ मम ॥ 13 ॥

  14. तस्माद अस्यावलेपस्य सद्यः फलम अवाप्नुहि तवया तस्य धनुश छिन्नम आत्मनाशाय दुर्मते ॥ 14 ॥

  15. तस्माद वध्यॊ ऽसि मे मूढ स भृत्यबलवाहनः कुरु तवं सर्वकृत्यानि महत ते भयम आगतम ॥ 15 ॥

  16. हन्तास्मि वृषसेनं ते परेक्षमाणस्य संयुगे ये चान्ये ऽपय उपयास्यन्ति बुद्धिमॊहेन मां नृपाः तांश च सर्वान हनिष्यामि सत्येनायुधम आलभे ॥ 16 ॥

  17. तवां च मूढाकृत परज्ञम अतिमानिनम आहवे दृष्ट्वा दुर्यॊधनॊ मन्दॊ भृशं तप्स्यति पातितम ॥ 17 ॥

  18. अर्जुनेन परतिज्ञाते वधे कर्णसुतस्य तु महान सुतुमुलः शब्दॊ बभूव रथिनां तदा ॥ 18 ॥

  19. तस्मिन्न आकुलसंग्रामे वर्तमाने महाभये मन्दरश्मिः सहस्रांशुर अस्तं गिरिम उपागमत ॥ 19 ॥

  20. ततॊ राजन हृषीकेशः संग्रामशिरसि सथितम तीर्णप्रतिज्ञं बीभत्सुं परिष्वज्येदम अब्रवीत ॥ 20 ॥

  21. दिष्ट्या संपादिता जिष्णॊ परतिज्ञा महती तवया दिष्ट्या च निहतः पापॊ वृद्धक्षत्रः सहात्मजः ॥ 21 ॥

  22. धार्तराष्ट्र बलं पराप्य देव सेनापि भारत सीदेत समरे जिष्णॊ नात्र कार्या विचारणा ॥ 22 ॥

  23. न तं पश्यामि लॊकेषु चिन्तयन पुरुषं कव चित तवदृते पुरुषव्याघ्र य एतद यॊधयेद बलम ॥ 23 ॥

  24. महाप्रभाव बहवस तवया तुल्याधिकापि वा समेताः पृथिवीपाला धार्तराष्ट्रस्य कारणात ते तवां पराप्य रणे करुद्धं नाभ्यवर्तन्त दंशिताः ॥ 24 ॥

  25. तव वीर्यं बलं चैव रुद्र शक्रान्तकॊपमम नेदृशं शक्नुयत कश चिद रणे कर्तुं पराक्रमम यादृशं कृतवान अद्य तवम एकः शत्रुतापनः ॥ 25 ॥

  26. एवम एव हते कर्णे सानुबन्धे दुरात्मनि वर्धयिष्यामि भूयस तवां विजितारिं हतद्विषम ॥ 26 ॥

  27. तम अर्जुनः परत्युवाच परसादात तव माधव परतिज्ञेयं मयॊत्तीर्णा विबुधैर अपि दुस्तरा ॥ 27 ॥

  28. अनाश्चर्यॊ जयस तेषां येषां नाथॊ ऽसि माधव तवत्प्रसादान महीं कृत्स्नां संप्राप्स्यति युधिष्ठिरः ॥ 28 ॥

  29. तवैव भारॊ वार्ष्णेय तवैव विजयः परभॊ वर्धनीयास तव वयं परेष्याश च मधुसूदन ॥ 29 ॥

  30. एवम उक्तः समयन कृष्णः शनकैर वाहयन हयान दर्शयाम आस पार्थाय करूरम आयॊधनं महत ॥ 30 ॥

  31. [क] परार्थयन्तॊ जयं युद्धे परतितं च महद यशः पृथिव्यां शेरते शूराः पर्थिवास तवच छरैर हताः ॥ 31 ॥

  32. विकीर्णशस्त्राभरणा विपन्नाश्वरथद्विपाः संछिन्नभिन्न वर्माणॊ वैक्लव्यं परमं गताः ॥ 32 ॥

  33. स सत्त्वगतसत्त्वाश च परभया परया युताः स जीवा इव लक्ष्यन्ते गतसत्त्वा नराधिपाः ॥ 33 ॥

  34. तेषां शरैः सवर्णपुङ्खैः शस्त्रैश च विविधैः शितैः वाहनैर आयुधैश चैव संपूर्णां पश्य मेदिनीम ॥ 34 ॥

  35. वर्मभिश चर्मभिर हारैः शिरॊभिश च सकुण्डलैः उष्णीषैर मुकुटैः सरग्भिश चूडामणिभिर अम्बरैः ॥ 35 ॥

  36. कण्ठसूत्रैर अङ्गदैश च निष्कैर अपि च सुप्रभैः अन्यैश चाब्रहणैश चित्रैर भाति भारत मेदिनी ॥ 36 ॥

  37. चामरैर वयजनैश चित्रैर धवजैश चाश्वरथद्विपैः विविधैश च परिस्तॊमैर अश्वानां च परकीर्णकैः ॥ 37 ॥

  38. कुथाभिश च विचित्राभिर वरूथैश च महाधनैः संस्तीर्णां वसुधां पश्य चित्रपट्टैर इवावृताम ॥ 38 ॥

  39. नागेभ्यः पतितान अन्यान कल्पितेभ्यॊ दविपैः सह सिंहान वज्रप्रणुन्नेभ्यॊ गिर्यग्रेभ्य इव चयुतान ॥ 39 ॥

  40. संस्यूतान वाजिभिः सार्धं धरण्यां पश्य चापरान पदातिसादि संघांश च कषतजौघपरिप्लुतान ॥ 40 ॥

  41. [स] एवं संदर्शयन कृष्णॊ रणभूमिं किरीटिनः सवैः समेतः स मुदितः पाञ्चजन्यं वयनादयत ॥ 41 ॥

Reach this point to mark the section finished.

Continue to अध्याय 124

Previous: अध्याय 122