धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 122

  1. [धृ] तस्मिन विनिहते वीरे सैन्धवे सव्यसाचिना मामका यद अकुर्वन्त तन ममाचक्ष्व संजय ॥ 1 ॥

  2. [स] सैन्धवं निहतं दृष्ट्वा रणे पार्थेन मारिष अमर्षवशम आपन्नः कृपः शारदतस तदा ॥ 2 ॥

  3. महता शरवर्षेण पाण्डवं समवाकिरत दरौणिश चाभ्यद्रवत पार्थं रथम आस्थाय फल्गुनम ॥ 3 ॥

  4. ताव एनं रथिनां शरेष्ठौ रथाभ्यां रथसत्तमम उभाव उभयतस तीक्ष्णैर विशिखैर अभ्यवर्षताम ॥ 4 ॥

  5. स तथा शरवर्षाभ्यां सुमहद्भ्यां महाभुजः पीड्यमानः पराम आर्तिम अगमद रथिनां वरः ॥ 5 ॥

  6. सॊ ऽजिघांसुर गुरुं संख्ये गुरॊस तनयम एव च चकाराचार्यकं तत्र कुन्तीपुत्रॊ धनंजयः ॥ 6 ॥

  7. अस्त्रैर अस्त्राणि संवार्य दरौणेः शारद्वतस्य च मन्दवेगान इषूंस ताभ्याम अजिघांसुर अवासृजत ॥ 7 ॥

  8. ते नातिभृशम अभ्यघ्नन विशिखा जय चॊदिताः बहुत्वात तु पराम आर्तिं शराणां ताव अगच्छताम ॥ 8 ॥

  9. अथ शारद्वतॊ राजन कौन्तेय शरपीडितः अवासीदद रथॊपस्थे मूर्च्छाम अभिजगाम ह ॥ 9 ॥

  10. विह्वलं तम अभिज्ञाय भर्तारं शरपीडितम हतॊ ऽयम इति च जञात्वा सारस्थिस तम अपावहत ॥ 10 ॥

  11. तस्मिन सन्ने महाराजे कृपे शारद्वते युधि अश्वत्थामाप्य अपायासीत पाण्डवेयाद रथान्तरम ॥ 11 ॥

  12. दृष्ट्वा शारद्वतं पार्थॊ मूर्छितं शरपीडितम रथ एव महेष्वासः कृपणं पर्यदेवयत ॥ 12 ॥

  13. पश्यन्न इदं महाप्राज्ञः कषत्ता राजानम उक्तवान कुलान्त करणे पापे जातमात्रे सुयॊधने ॥ 13 ॥

  14. नीयतां परलॊकाय साध्व अयं कुलपांसनः अस्माद धि कुरुमुख्यानां महद उत्पत्स्यते भयम ॥ 14 ॥

  15. तद इदं समनुप्राप्तं वचनं सत्यवादिनः तत कृते हय अद्य पश्यामि शरतल्पगतं कृपम ॥ 15 ॥

  16. धिग अस्तु कषात्रम आचारं धिग अस्तु बलपौरुषम कॊ हि बराह्मणम आचार्यम अभिद्रुह्येत मादृशः ॥ 16 ॥

  17. ऋषिपुत्रॊ ममाचार्यॊ दरॊणस्य दयितः सखा एष शेते रथॊपस्थे मद्बाणैर अभिपीडितः ॥ 17 ॥

  18. अकामयानेन मया विशिखैर अर्दितॊ भृशम अवासीदद रथॊपस्थे पराणान पीडयतीव मे ॥ 18 ॥

  19. शरार्दितेन हि मया परेक्षणीयॊ महाद्युतिः परत्यस्तॊ बहुभिर बाणैर दश धर्मगतेन वै ॥ 19 ॥

  20. शॊचयत्य एष निपतन भूयः पुत्रवधाद धि माम कृपणं सवरथे सन्नं पश्य कृष्ण यथागतम ॥ 20 ॥

  21. उपाकृत्य तु वै विद्याम आचार्येभ्यॊ नरर्षभाः परयच्छन्तीह ये कामान देवत्वम उपयान्ति ते ॥ 21 ॥

  22. ये तु विद्याम उपादाय गुरुभ्यः पुरुषाधमाः घनन्ति तान एव दुर्वृत्तास ते वै निरयगामिनः ॥ 22 ॥

  23. तद इदं नरकायाद्य कृतं कर्म मया धरुवम आचार्यं शरवर्षेण रथे सादयता कृपम ॥ 23 ॥

  24. यत तत पूर्वम उपाकुर्वन्न अस्त्रं माम अब्रवीत कृपः न कथं चन कौरव्य परहर्तव्यं गुराव इति ॥ 24 ॥

  25. तद इदं वचनं साधॊर आचार्यस्य महात्मनः नानुष्ठितं तम एवाजौ विशिखैर अभिवर्षताण ॥ 25 ॥

  26. नमस तस्मै सुपूज्याय गौतमायापलायिने धिग अस्तु मम वार्ष्णेय यॊ हय अस्मै परहराम्य अहम ॥ 26 ॥

  27. तथा विपलमाने तु सव्यसाचिनि तं परति सैधवं निहतं दृष्ट्वा राधेयः समुपाद्रवत ॥ 27 ॥

  28. उपायान्तं तु राधेयं दृष्ट्वा पार्थॊ महारथः परहसन देवकीपुत्रम इदं वचनम अब्रवीत ॥ 28 ॥

  29. एष परयात्य आधिरथिः सात्यकेः सयन्दनं परति न मृष्यति हतं नूनं भूरिश्रवसम आहवे ॥ 29 ॥

  30. यत्र यात्य एष तत्र तवं चॊदयाश्वाञ जनार्दन मा सॊमदत्तेः पदवीं गमयेत सात्यकिं वृषः ॥ 30 ॥

  31. एकम उक्तॊ महाबाहुः केशवः सव्यसाचिना परत्युवाच महातेजाः कालयुक्तम इदं वचः ॥ 31 ॥

  32. अलम एष महाबाहुः कर्णायैकॊ हि पाण्डव किं पुनर दरौपदेयाभ्यां सहितः साततर्षभः ॥ 32 ॥

  33. न च तावत कषमः पार्थ कर्णेन तव संगरः परज्वलन्ती महॊल्केव तिष्ठत्य अस्य हि वासवी तवदर्थं पूज्यमानैषा रक्ष्यते परवीरहन ॥ 33 ॥

  34. अतः कर्णः परयात्व अत्र सात्वतस्य यथातथा अहं जञास्यामि कौरव्य कालम अस्य दुरात्मनः ॥ 34 ॥

  35. [धव] यॊ ऽसौ कर्णेन वीरेण वार्ष्णेयस्य समागमः हते तु भूरिश्रवसि सन्धवे च निपातिते ॥ 35 ॥

  36. सात्यकिश चापि विरथः कं समारूढवान रथम चक्ररक्षौ च पाञ्चाल्यौ तन ममाचक्ष्व संजय ॥ 36 ॥

  37. [स] हन्त ते वर्णयिष्यामि यथावृत्तं महारणे शुश्रूषस्व सथिरॊ भूत्वा दुराचरितम आत्मनः ॥ 37 ॥

  38. पूर्वम एव हि कृष्णस्य मनॊगतम इदं परभॊ विजेतव्यॊ यथा वीरः सात्यकिर यूपकेतुना ॥ 38 ॥

  39. अतीतानागतं राजन स हि वेत्ति जनार्दनः अतः सूतं समाहूय दारुकं संदिदेश ह रथॊ मे युज्यतां काल्यम इति राजन महाबलः ॥ 39 ॥

  40. न हि देवा न गन्धर्वा न यक्षॊरग राक्षसाः मानवा वा विजेतारः कृष्णयॊः सन्ति के चन ॥ 40 ॥

  41. पितामहपुरॊगाश च देवाः सिद्धाश च तं विदुः तयॊः परभावम अतुलं शृणु युद्धं च तद यथा ॥ 41 ॥

  42. सात्यकिं विरथं दृष्ट्वा कर्णं चाभ्युद्यतायुधम दध्मौ शङ्खं महावेगम आर्षभेणाथ माधवः ॥ 42 ॥

  43. दारुकॊ ऽवेत्य संदेशं शरुत्वा शङ्खस्य च सवनम रथम अन्वानयत तस्मै सुपर्णॊच्छ्रितकेतनम ॥ 43 ॥

  44. स केशवस्यानुमते रथं दारुक संयुतम आरुरॊह शिनेः पौत्रॊ जवलनादित्य संनिभम ॥ 44 ॥

  45. कामगैः सैन्यसुग्रीव मेघपुष्पबलाहकैः हयॊदग्रैर महावेगैर हेमभाण्ड विभूषितैः ॥ 45 ॥

  46. युक्तं समारुह्य च तं विमानप्रतिमं रथम अभ्यद्रवत राधेयं परवपन सायकान बहून ॥ 46 ॥

  47. चक्ररक्षाव अपि तदा युधामन्यूत्तमौजसौ धनंजयरथं हित्वा राधेयं परत्युदीययुः ॥ 47 ॥

  48. राधेयॊ ऽपि महाराज शरवर्षं समुत्सृजन अभ्यद्रवत सुसंक्रुद्धॊ रणे शैनेयम अच्युतम ॥ 48 ॥

  49. नैव दैवं न गान्धर्वं नासुरॊरग राक्षसम तादृशं भुवि वा युद्धं दिवि वा शरुतम इत्य उत ॥ 49 ॥

  50. उपारमत तत सैन्यं स रथाश्वनरद्विपम तयॊर दृष्ट्वा महाराज कर्म संमूढचेतनम ॥ 50 ॥

  51. सर्वे च समपश्यन्त तद युद्धम अतिमानुषम तयॊर नृवरयॊ राजन सारथ्यं दारुकस्य च ॥ 51 ॥

  52. गतप्रत्यागतावृत्तैर मण्डलैः संनिवर्तनैः सारथेस तु रथस्थस्य काश्यपेयस्य विस्मिताः ॥ 52 ॥

  53. नभस्तलगताश चैव देवगन्धर्वदानवाः अतीवावहिता दरष्टुं कर्ण शैनेययॊ रणम ॥ 53 ॥

  54. मित्रार्थे तौ पराक्रान्तौ सपर्धिनौ शुष्मिणौ रणे कर्णश चामरसंकाशॊ युयुधानश च सात्यकिः ॥ 54 ॥

  55. अन्यॊन्यं तौ महाराज शरवर्षैर अवर्षताम परममाथ शिनेः पौत्रं कर्णः सायकवृष्टिभिः ॥ 55 ॥

  56. अमृष्यमाणॊ निधनं कौरव्य जलसंधयॊः कर्णः शॊकसमाविष्टॊ महॊरग इव शवसन ॥ 56 ॥

  57. स शैनेयं रणे करुद्धः परदहन्न इव चक्षुषा अभ्यद्रवत वेगेन पुनः पुनर अरिंदमः ॥ 57 ॥

  58. तं तु संप्रेक्ष्य संक्रुद्धं सात्यकिः परत्यविध्यत महता शरवर्षेण गजः परतिगजं यथा ॥ 58 ॥

  59. तौ समेत्य नरव्याघ्रौ वयाघ्राव इव तरस्विनौ अन्यॊन्यं संततक्षाते रणे ऽनुपम विक्रमौ ॥ 59 ॥

  60. ततः कर्णं शिनेः पौत्रः सर्वपारशवैः शरैः विभेद सर्वगात्रेषु पुनः पुनर अरिंदमः ॥ 60 ॥

  61. सारथिं चास्य भल्लेन रथनीडाद अपाहरत अश्वांश च चतुरः शवेतान निजघ्ने निशितैः शरैः ॥ 61 ॥

  62. छित्त्वा धवजं शतेनैव शतधा पुरुषर्षभः चकार विरथं कर्णं तव पुत्रस्य पश्यतः ॥ 62 ॥

  63. ततॊ विमनसॊ राजंस तावकाः पुरुषर्षभाः वृषसेनः कर्णसुतः शल्यॊ मद्राधिपस तथा ॥ 63 ॥

  64. दरॊणपुत्रश च शैनेयं सर्वतः पर्यवारयन ततः पर्याकुलं सर्वं न पराज्ञायत किं चन ॥ 64 ॥

  65. तथा सात्यकिना वीरे विरथे सूतजे कृते हाहाकारस ततॊ राजन सर्वसैन्येषु चाभवत ॥ 65 ॥

  66. कर्णॊ ऽपि विह्वलॊ राजन सात्वतेनार्दितः शरैः दुर्यॊधन रथं राजन्न आरुरॊह विनिःश्वसन ॥ 66 ॥

  67. मानयंस तव पुत्रस्य बाल्यात परभृति सौहृदम कृतां राज्यप्रदानेन परतिज्ञां परिपालयन ॥ 67 ॥

  68. तथा तु विरथे कर्णे पुत्रान वै तव पार्थिव दुःशासन मुखाञ शूरान नावधीत सात्यकिर वशी ॥ 68 ॥

  69. रक्षन परतिज्ञां च पुनर भीमसेनकृतां पुरा विरथान विह्वलांश चक्रे न तु पराणैर वययॊजयत ॥ 69 ॥

  70. भीमसेनेन तु वधः पुत्राणां ते परतिश्रुतः पुनर्द्यूते च पार्थेन वधः कर्णस्य शंश्रुतः ॥ 70 ॥

  71. वधे तव अकुर्वन यत्नं ते तस्य कर्ण मुखास तदा नाशक्नुवंश च तं हन्तुं सात्यकिं परवरा रथाः ॥ 71 ॥

  72. दरौणिश च कृतवर्मा च तथैवान्ये महारथाः निर्जिता धनुषैकेन शतशः कषत्रियर्षभाः काङ्क्षता परलॊकं च धर्मराजस्य च परियम ॥ 72 ॥

  73. कृष्णयॊः सदृशॊ वीर्ये सात्यकिः शत्रुकर्शनः कृष्णॊ वापि भवेल लॊके पार्थॊ वापि धनुर्धरः शैनेयॊ वा नरव्यघ्रश चतुर्थॊ नॊपलभ्यते ॥ 73 ॥

  74. [धृ] अजय्यं रथम आस्थाय वासुदेवस्य सात्यकिः विरथं कृतवान कर्णं वासुदेव समॊ युवा ॥ 74 ॥

  75. दारुकेण समायुक्तं सवबाहुबलदर्पितः कच चिद अन्यं समारूढः स रथं सात्यकिः पुनः ॥ 75 ॥

  76. एतद इच्छाम्य अहं शरॊतुं कुशलॊ हय असि भाषितुम असह्यं तम अहं मन्ये तन ममाचक्ष्व संजय ॥ 76 ॥

  77. [स] शृणु राजन यथा तस्य रथम अन्यं महामतिः दारुकस्यानुजस तूर्णं कल्पना विधिकल्पितम ॥ 77 ॥

  78. आयसैः काञ्चनैर्श चापि पट्टैर नद्धं स कूबरम तारा सहस्रखचितं सिंहध्वजपताकिनम ॥ 78 ॥

  79. अश्वैर वातजवैर युक्तं हेमभाण्ड परिच्छदैः पाण्डुरैर इन्दुसंकाशैः सर्वशब्दातिगैर दृढैः ॥ 79 ॥

  80. चित्रकाञ्चनसंनाहैर वाजिमुख्यैर विशां पते घण्टाजालाकुल रवं शक्तितॊमरविद्युतम ॥ 80 ॥

  81. वृतं सांग्रामिकैर दरव्यैर बहुशस्त्रपरिच्छदम रथं संपादयाम आस मेघगम्भीर निस्वनम ॥ 81 ॥

  82. तं समारुह्य शैनेयस तव सैन्यम उपाद्रवत दारुकॊ ऽपि यथाकामं परययौ केशवान्तिकम ॥ 82 ॥

  83. कर्णस्यापि महाराज शङ्खगॊक्षीर पाण्डुरैः चित्रकाञ्चनसंनाहैः सदश्वैर वेगवत्तरैः ॥ 83 ॥

  84. हेमकक्ष्या धवजॊपेतं कॢप्त यन्त्रपताकिनम अग्र्यं रथं सुयन्तारं बहुशस्त्रपरिच्छदम ॥ 84 ॥

  85. उपाजह्रुस तम आस्थाय कर्णॊ ऽपय अभ्यद्रवद रिपून एतत ते सरम आख्यातं यन मां तवं परिपृच्छसि ॥ 85 ॥

  86. भूयश चापि निबॊध तवं तवापनयजं कषयम एकत्रिंशत तव सुता भीमसेनेन पातिताः ॥ 86 ॥

  87. दुर्मुखं परमुखे कृत्वा सततं चित्रयॊधिनम शतशॊ निहताः शूराः सात्वतेनार्जुनेन च ॥ 87 ॥

  88. भीष्मं परमुखतः कृत्वा भगदत्तं च मारिष एवम एष कषयॊ वृत्तॊ राजन दुर्मन्त्रिते तव ॥ 88 ॥

Reach this point to mark the section finished.

Continue to अध्याय 123

Previous: अध्याय 121