धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 121

  1. [स] स रणे वयचरत पार्थः परेक्षणीयॊ धनंजयः युगपद दिक्षु सर्वासु चित्राण्य अस्त्राणि दर्शयन ॥ 1 ॥

  2. मध्यंदिनगतं सूर्यं परतपन्तम इवाम्बरे न शेकुः सर्वभूतानि पाण्डवं परतिवीक्षितुम ॥ 2 ॥

  3. परसृतांस तस्य गाण्डीवाच छरव्रातान महात्मनः संग्रामे समपश्याम हंसपङ्क्तीर इवाम्बरे ॥ 3 ॥

  4. विनिवार्य स वीराणाम अस्त्रैर अस्त्राणि सर्वशः दर्शयन रौद्रम आत्मानम उग्रे कर्णमि धिष्ठितः ॥ 4 ॥

  5. स तान रथवरान राजन्न अभ्यतिक्रामद अर्जुनः मॊहयन्न इव नाराचैर जयद्रथवधेप्सया ॥ 5 ॥

  6. विसृजन दिक्षु सर्वासु शरान असितसारथिः स रणे वयचरत तूर्णं परेक्षणीयॊ धनंजयः ॥ 6 ॥

  7. भरमन्त इव शूरस्य शरव्राता महात्मनः अदृश्यन्तान्तरिक्षस्थाः शतशॊ ऽथ सहस्रशः ॥ 7 ॥

  8. आददानं महेष्वासं संदधानं च पाण्डवम विसृजन्तं च कौन्तेयं नानुपश्यामहे तदा ॥ 8 ॥

  9. तथा सर्वा दिशॊ राजन सर्वाश च रथिनॊ रणे आकुली कृत्यकौन्तेयॊ जयद्रथम उपाद्रवत विव्याध च चतुःषष्ट्या शराणां नतपर्वणाम ॥ 9 ॥

  10. सैन्धवस तु तथा विद्धः शरैर गाण्डीवधन्वना न चक्षमे सुसंक्रुद्धस तॊत्त्रार्दित इव दविपः ॥ 10 ॥

  11. स वराहध्वजस तूर्णं गार्ध्रपत्रान अजिह्मगान आशीविषसमप्रख्यान कर्मार परिमार्जितान मुमॊच निशितान संख्ये सायकान सव्यसाचिनि ॥ 11 ॥

  12. तरिभिस तु विद्ध्वा गाण्डीवं नाराचैः षड्भिर अर्जुनम अष्टाभिर वाजिनॊ ऽविध्यद धवजं चैकेन पत्रिणा ॥ 12 ॥

  13. स विक्षिप्यार्जुनस तीक्ष्णान सैन्धव परेषिताञ शरान युगपत तस्य चिछेद शराभ्यां सैन्धवस्य ह सारथेश च शिरः कायाद धवजं च समलंकृतम ॥ 13 ॥

  14. स छिन्नयष्टिः सुमहाञ शीर्यमाणः शराहतः वराहः सिन्धुराजस्य पपाताग्निशिखॊपमः ॥ 14 ॥

  15. एतस्मिन्न एव काले तु दरुतं गच्छति भास्करे अब्रवीत पाण्डवं तत्र तवरमाणॊ जनार्दनः ॥ 15 ॥

  16. धनंजय शिरश छिन्धि सैन्धवस्य दुरात्मनः अस्तं महीधर शरेष्ठं यियासति दिवाकरः शृणुष्वैव च मे वाक्यं जयद्रथवधं परति ॥ 16 ॥

  17. वृद्धक्षत्रः सैन्धवस्य पिता जगति विश्रुतः स कालेनेह महता सैन्धवं पराप्तवान सुतम ॥ 17 ॥

  18. जयद्रथम अमित्रघ्नं तं चॊवाच ततॊ नृपम अन्तर्हिता तदा वाणी मेघदुन्दुभि निस्वना ॥ 18 ॥

  19. तवात्मजॊ ऽयं मर्त्येषु कुलशीलदमादिभिः गुणैर भविष्यति विभॊ सदृशॊ वंशयॊर दवयॊः कषतिय परवरॊ लॊके नित्यं शूराभिसत्कृतः ॥ 19 ॥

  20. शत्रुभिर युध्यमानस्य संग्रामे तव अस्य धन्विनः शिरश छेत्स्यति संक्रुद्धः शत्रुर नालक्षितॊ भुवि ॥ 20 ॥

  21. एतच छरुत्वा सिन्धुराजॊ धयात्वा चिरम अरिंदमम जञातीन सर्वान उवाचेदं पुत्रस्नेहाभिपीडितः ॥ 21 ॥

  22. संग्रामे युध्यमानस्य वहतॊ महतीं धुरम धरण्यां मम पुत्रस्य पातयिष्यति यः शिरः तस्यापि शतधा मूर्धा फलिष्यति न संशयः ॥ 22 ॥

  23. एवम उक्त्वा ततॊ राज्ये सथापयित्वा जयद्रथम वृद्धक्षत्रॊ वनं यातस तपश चेष्टं समस्थितः ॥ 23 ॥

  24. सॊ ऽयं तप्यति तेजस्वी तपॊ घॊरं दुरासदम समन्तपञ्चकाद अस्माद बहिर वानरकेतन ॥ 24 ॥

  25. तस्माज जयद्रथस्य तवं शिरश छित्त्वा महामृधे दिव्येनास्त्रेण रिपुहन घॊरेणाद्भुत कर्मणा ॥ 25 ॥

  26. सकुण्डलं सिन्धुपतेः परभञ्जन असुतानुज उत्सङ्गे पातयस्वाशु वृद्धक्षत्रस्य भारत ॥ 26 ॥

  27. अथ तवम अस्य मूर्धानं पातयिष्यसि भूतले तवापि शतधा मूर्धा फलिष्यति न संशयः ॥ 27 ॥

  28. यथा चैतन न जानीयात स राजा पृथिवीपतिः तथा कुरु कुरुश्रेष्ठ दिव्यम अस्त्रम उपाश्रितः ॥ 28 ॥

  29. न हय असाध्यम अकार्यं वा विद्यते तव किं चन समस्तेष्व अपि लॊकेषु तरिषु वासवनन्दन ॥ 29 ॥

  30. एतच छरुत्वा तु वचनं सृक्किणी परिसंलिहन इन्द्राशनिसमस्पर्शं दिव्यमन्त्राभिमन्त्रितम ॥ 30 ॥

  31. सर्वभार सहं शश्वद गन्धमाल्यार्चितं शरम विससर्जार्जुनस तूर्णं सैन्धवस्य वधे वृतः ॥ 31 ॥

  32. स तु गाण्डीवनिर्मुक्तः शरः शयेन इवाशुगः शकुन्तम इव वृक्षाग्रात सैन्धवस्य शिरॊ ऽहरत ॥ 32 ॥

  33. अहरत तत पुनश चैव शरैर ऊर्ध्वं धनंजयः दुर्हृदाम अप्रहर्षाय सुहृदां हर्षणाय च ॥ 33 ॥

  34. शरैः कदम्बकी कृत्यकाले तस्मिंश च पाण्डवः समन्तपञ्चकाद बाह्यं शिरस तद वयहरत ततः ॥ 34 ॥

  35. एतस्मिन्न एककाले तु वृद्धक्षत्रॊ महीपतिः संध्याम उपास्ते तेजस्वी संबन्धी तव मारिष ॥ 35 ॥

  36. उपासीनस्य तस्याथ कृष्ण केशं सकुण्डलम सिन्धुर आजस्य मूर्धानम उत्सङ्गे समपातयत ॥ 36 ॥

  37. तस्यॊत्सङ्गे निपतितं शिरस तच चारुकुण्डलम वृद्धक्षत्रस्य नृपतेर अलक्षितम अरिंदम ॥ 37 ॥

  38. कृप जप्यस्य तस्याथ वृद्धक्षत्रस्य धीमतः उत्तिष्ठतस तत सहसा शिरॊ ऽगच्छद धरातलम ॥ 38 ॥

  39. ततस तस्य नरेन्द्रस्य पुत्र मूर्धनि भूतलम गते तस्यापि शतधा मूर्धागच्छद अरिंदम ॥ 39 ॥

  40. ततः सर्वाणि भूतानि विस्मयं जग्मुर उत्तमम वासुदेवश च बीभत्सुं परशशंस महारथम ॥ 40 ॥

  41. ततॊ दृष्ट्वा विनिहतं सिन्धुराजं जयद्रथम पुत्राणां तव नेत्रेभ्यॊ दुःखाद बह्व अपतज जलम ॥ 41 ॥

  42. भीमसेनॊ ऽपि संग्रामे बॊधयन्न इव पाण्डवम सिंहनादेन महता पूरयाम आस रॊदसी ॥ 42 ॥

  43. तं शरुत्वा तु महानादं धर्मपुत्रॊ युधिष्ठिरः सैन्धवं निहतं मेने फल्गुनेन महात्मना ॥ 43 ॥

  44. ततॊ वादित्रघॊषेण सवान यॊधान अभिहर्षयन अभ्यवर्तत संग्रामे भारद्वाजं युयुत्सया ॥ 44 ॥

  45. ततः परववृते राजन्न अस्तं गच्छति भास्करे दरॊणस्य सॊमकैः सार्धं संग्रमॊ लॊमहर्षणः ॥ 45 ॥

  46. ते तु सर्वप्रयत्नेन भारद्वाजं जिघांसवः सैन्धवे निहते राजन्न अयुध्यन्त महारथाः ॥ 46 ॥

  47. पाण्डवास तु जयं लब्ध्वा सैन्धवं विनिहत्य च अयॊधयंस ततॊ दरॊणं जयॊन्मत्तास ततस ततः ॥ 47 ॥

  48. अर्जुनॊ ऽपि रणे यॊधांस तावकान रथसत्तमान अयॊधयन महाराज हत्वा सैन्धवकं नृपम ॥ 48 ॥

  49. स देवशत्रून इव देवराजः; किरीटमाली वयधमत समन्तात यथा तमांस्य अभ्युदितस तमॊघ्नः; पूर्वां परतिज्ञां समवाप्य वीरः ॥ 49 ॥

Reach this point to mark the section finished.

Continue to अध्याय 122

Previous: अध्याय 120